भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 105, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 105

७६ (१.२.१) तैत्तिरीयब्राह्मणम् यस्त॑ आ॒त्मा प॒शुषु॒ प्रवि॑ष्टः । पु॒ष्ट्या॑ ते मनु॒ष्ये॑षु पप्र॒थे तया॑ । नो अग्ने जु॒षमा॑ण ऐहि॑ । कल्पः- "गार्हपत्ये प्रणयनीयमाश्वत्थमिध्ममादीप्य सिक्तश्चोपय- मनीरुपकल्पयते तमुद्यच्छति-ओजसे बलाय त्वोद्यच्छे वृषणे शुष्मायाऽऽयुषेवर्चसे सपत्नतूरसि वृत्रतूर्यस्ते देवेषु महिमा सुवर्गो यस्त आत्मा पशुषुपविष्टः पुष्ट्या ते मनुष्येषु पप्रथे तया नो अग्ने जुषमाण एहि" इति। हेऽग्नेत्वामोजः प्रभृतिसिद्ध्यर्थमुद्यच्छे ओजो बलहेतुरष्टमो धातुः । बलं शरीरसामर्थ्यम् । वृषञ्शब्दः सेचनसामर्थ्यवाची । शुष्माशब्दोऽत्र सहकारिसंपादितां शक्तिमाचष्टे । आयुः प्रसिद्धम् । वर्चः कान्तिः । हेऽग्ने त्वं सपत्नतूरसि वैरिहिंसकोऽसि । तथा वृत्रतूर्धर्मबुद्धंरावकाणां पापानां हिंसकोऽपि सोऽयमेको मन्त्रः। हेऽग्ने देवेषु मध्ये कर्मफलभूतः स्वर्गरूपो यस्ते महिमा पशुषु क्षीरादिहविः स्वरूपंण प्रविष्टो यस्तवाऽऽत्माऽत्यन्तप्रियः पदार्थो मनुष्येषूराग्निजनिता या त्वदीया पुष्टिः पप्रथे प्रसिद्धा वर्तते तया पुष्ट्या तदुपलक्षितस्वर्गक्षीराभ्यां च नोऽस्माञ्जुषमाण एहि । असौ द्वितीयो मन्त्रः- दि॒वः पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् । वाता॑त्प॒शुभ्यो॒ अध्योष॑धीभ्यः । यत्र॑ यत्र जातवेदः संब॒भूर्थ॑ । ततो॑ नो अग्ने जु॒षमा॑ण एहि॑, इति । दिवः पृथिव्या अन्तरिक्षाद्धोपरि वातात्पशुभ्य ओषधिभ्यश्चोपरि तथा यत्र यत्र देशविशेषे हे जातवेदः संभूयोत्पन्नोऽसि । हेऽग्ने ततः सर्वस्मात्स्थानान्नोऽस्माञ्जुषमाण एहि । अनन्तरभाविनस्त्रयो मन्त्राः प्रणयनकाले गमनार्थाः। तत्र प्रथममाह- प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान् । अग्ने॑रग्ने पुरो अ॒ग्निर्भ॑वे॒ह । विश्वा॒ आशा॑ दीद्या॒नो वि॑भाहि (२२) । ऊर्जं॑ नो धेहि॒ द्विप॑दे॒ चतु॑ष्पदे, इति । हेऽग्ने प्राचीं पूर्वा प्रदिशं प्रकृष्टां दिशमनुलक्ष्य विद्वान्मार्गाभिज्ञः प्रेहि प्रकर्षण गच्छ । अग्नेर्गार्हपत्यस्येह पुरोऽग्निर्भवास्मिन्देवयजने पूर्वदिग्वर्ती वह्निर्भव । दीद्यानः स्वयं प्रकाशमानो विश्वा आशा विभाहि सर्वा दिशः प्रकाशय । नोऽस्मदीयाय द्विपदे मनुष्याय चतुष्पदे