तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 104, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.२.१) ७५ अनन्तरमन्त्रौ गार्हपत्याधानमन्त्रेषु सूत्रकृतोदाहृतः । पाठस्तु- प्रा॒णे त्वा॒ऽमृत॒माद॑धामि । अ॒न्नादम॒न्नाद्या॑य । गो॒प्तारं॑ गुप्त्यै॑, इति । हे गार्हपत्य प्राणेऽस्मदीये निमित्तभूते सति तद्रक्षार्थममृतं त्वामादधामि । ममान्नाद्यसिद्धयेऽन्नादं मम गुप्त्यै रक्षणसिद्धये गोप्तारं त्वाऽऽ दधामि । सु॒गार्ह॑पत्यो वि॒दह॒न्नरा॑तीः । उ॒षसः॑ श्रेय॑सीः श्रेय॑सी॒र्दध॑त् (२०) । अग्ने॑ स॒पत्नँ॑ अप॒बाध॑मानः । रा॒यस्पोष॒मिष॒मूर्ज॑म॒स्मासु॑ धेहि । कल्पः-‘‘सुगार्हपत्यो विदहन्नरातीरुषसः श्रेयसीः श्रेयसीर्दधदग्ने सपत्नाँ अपबाधमानो रायस्पोषमिषमूर्जमस्मासु धेहीत्याधीयमानम- भिमन्त्रयते यजमानः’’ इति । शोभनो गार्हपत्योऽयमग्निररातीद्वेषिणो विशेषेण दधन्नुषसो दिवसाञ्छ्रेयसीः श्रेयसीर्दधदुत्तरोत्तरश्रेष्ठान्कुर्वन्वर्तते । हेऽग्ने गार्हपत्य सपत्नास्मदीयाञ्शत्रूनपबाधमानः पीडयन्ध्नन्पुष्टिमन्नरसं चास्मासु संपादय । इ॒मा उ॒ मामुप॑तिष्ठन्तु रा॒यः । आ॒भिः प्र॒जाभि॑रि॒ह संव॑सेय । इ॒हो इडा॒ तिष्ठ॑तु वि॒श्वरू॑पी । मध्ये॒ वसो॑र्दीदिहि जात॑वेदः । कल्पः-‘‘इमा उ मामुपतिष्ठन्तु राय आभिः प्रजाभिरिह संवसेयेहो इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेद इति प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति’’ इति । इमा उ रायो लोके दृश्यमानानि सर्वाण्यपि धनानि मामुपतिष्ठन्तु प्राप्नुवन्तु । आभिः पुत्रपौत्रादिभिः प्रजाभिः सहेहास्मिञ्जन्मनि संवसेय सम्यक् तिष्ठामि । किंचेहेहैव जन्मनि विश्वरूपी महिष्याद्यनेकपशुरूपयुक्तेडा गौस्तिष्ठतु । हे जातवेदस्त्वस्मदीयस्य वसोर्मध्ये स्वामित्वेन स्थित्वा दीदिहि दीप्यस्व । ओर्ज॑से बला॑य त्वोद्य॑च्छे । वृष्णे॒ शुष्मा॑याऽऽयु॑षे वर्च॑से । स॒प॒त्न॒तूर॑सि वृत्र॒तूः । यस्तै॑ दे॒वेषु॑ महि॒मा सु॑व॒र्गः (२१) ।