भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 100, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 100

तैत्तिरीयब्राह्मणम् (१.२.१) ७१ जा॒तवे॑दो॒ भुव॑नस्य॒ रेत॑: । इ॒ह सि॑ञ्च॒ तप॑सो॒ यज्जनि॒ष्यते॑ (१५) । अ॒ग्निम॑श्व॒त्थादधि॑ हव्य॒वाह॑म् । श॒मी॒गर्भा॒ज्जन॑य॒न्यो म॑यो॒भूः । कल्पः-“तस्मिन्नुपव्युषमरणी निष्टपति-जातवेदो भुवनस्य रेत इह सिञ्च तपसो यज्जनिष्यतेऽग्निमश्वत्थादधि हव्यवाहं शमीगर्भाज्जनयन्यो मयोभूरयं ते योनिर्ऋत्विय इत्येताभ्याम्' द्वितीयमन्त्रः संहितायामपि पठितत्वात्सूत्रकारेण सर्वोऽपि न पठितः । हे जातवेदो ब्राह्मौदनिकाग्ने भुवनस्य रेतः सर्वलोकस्य कारणभूतमाघातव्याग्निरूपमिह सिञ्चानयो- ररण्योर्निषिञ्च । यद्रेतस्तपसोऽस्मात्संतापाज्जनिष्यत उत्पत्स्यते तादृशं रेतः सिञ्चेति पूर्वत्रान्वयः। योऽग्निराधातव्यो मयोभूः सुखस्य भावयिता हव्यवाहं हविषो वोढारं शमीगर्भादरणीरूपादश्वत्थाज्जनयञ्जनयितुकामो निषिञ्चेति पूर्वत्रान्वयः । द्वितीयमन्त्रपाठस्तु- अ॒यं ते॒ योनि॑र्ऋ॒त्विय॑: । यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आरो॑ह । अथा॑ नो वर्धया र॒यिम्, इति । हे जनयितव्याग्नेऽयमरणियद्वयसंघस्ते . तवोत्पत्त्यर्थमृत्वियों योनिर्ऋतुयुक्तमुत्पत्तिस्थानं यतो योनेर्जातस्त्वमरोचथा लोके दीप्तिमानासीः । योनिमेतदरणीरूपं जानन्नारोह । अथानन्तरं नोऽस्माकं रयिं धनं वर्धय ।. कल्पः-“अपेत वीतेति गार्हपत्यायतनमुद्धत्य" इति । पाठस्तु- अपै॑त॒ वी॑त॒ वि च॑ सर्पतातः । येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः । अदा॑दि॒दं य॒मो व॒साने॑ पृथि॒व्याः । अक्र॒न्निमं॑ पि॒तरो॑ लो॒कम॑स्मै (१६), इति । यमपुरुषाः संबोध्यन्ते । “यममेव देवयजनमस्यै निर्याच्य " इत्येतन्मन्त्रब्राह्मणे समाम्नानात् । हे यमपुरुषा अत्रास्मिन्देशे पुराणा ये यूयं स्थ नूतनाश्च ये यूयं स्थ ते सर्वेऽप्यतो देशादपेतापगच्छत। वीर परस्परं वियुक्ता गच्छत । पुनरपि वि दूरं सर्पत । यमो राजेदमवस्थानमदाद्यजमानाय दत्तवान् । पितरश्चेमं लोकं स्थानविशेषमस्मै यजमानार्थमक्रन्कृतवन्तः ।