भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 99, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 99

७० (१.२.१) तैत्तिरीयब्राह्मणम् मत्प्रा॒तः प्र॒जनि॑ष्येथे । ते मा॒ प्रजा॑ते प्र॒जनयि॑ष्यथः (१४) । प्र॒जया॑ प॒शुभि॒र्ब्रह्मवर्च॒सेन॑ सुव॒र्गे लो॒के । कल्पः-“ऋत्वियवती स्थो अग्नेरेतसौ गर्भं दधाथां ते वामहं ददे तत्सत्यं यद्वीरं बिभृथो वीरं जनयिष्यथस्ते मत्प्रातः प्रजनिष्येथे ते मा प्रजाते प्रजनयिष्यथः प्रजया पशुभिर्ब्रह्मवर्चसेन सुवर्गे लोक इति प्रतिगृह्याभिमन्त्रयते यजमानः” इति । हेऽरणी युवामृत्वियवती ऋतुः प्राप्तोऽस्येत्यृत्वियो योनिः स ययोररण्योस्ते ऋत्वियवती प्रजननाभिमुखगर्भवत्यौ । अग्नेरेवरेतोरूपेण गर्भो ययोस्ते अग्नेरेतसौ तादृश्यौ स्थो भवथः । तादृश्यौ युवां गर्भं दधाथां गर्भं पोषयतम् । ते तादृश्यौ वां युवामहं दद आदत्तवानस्मि । ते युवा वीरं कर्मसु शूरं पुत्रं बिभृथो धारयथः । अतो वीरमेव जनयिष्यथ इति यत्तत्सत्यं न तु मिथ्या । ये युवा मन्मत्तो निमित्तभूतात्प्रातः प्रजनिष्येथे परेद्युः प्रातःकाले सर्वथा वह्निमुत्पादयिष्यथः बह्निमुत्पादितवत्यौ ते युवामपि प्रजनयिष्यथः प्रजनयितारं करिष्यथः । अतः स्वर्गे लोके प्रजया पशुभिर्ब्रह्मवर्चसेन च युक्तो भविष्यामीति शेषः । अनृ॑तात्स॒त्यमुपै॑मि । मानु॑षाद्दै॒व्यमुपै॑मि । दैवीं॒ वाचं॑ यच्छामि । कल्पः-“अथ यजमानो व्रतमुपैति वाचं यच्छति- अनृतात्सत्यमुपैमि मानुषाद्दैव्यमुपैमि दैवीं वाचं यच्छामि” इति । अनृतादग्निराहित्यलक्षणात्सत्यमग्निमत्वलक्षणमुपैमि प्राप्नोमि । मानुषान्मन्ुष्याचरणाद्दैव्यं देवयोग्यमाचरणमुपैमि प्राप्नोमि । दैवीं देवसंबन्धिनीं वाचं यच्छामि नियतां करोमि । संस्कृतभाषयैव व्यवहरामीत्यर्थः । शल्कै॑र॒ग्निमि॑न्धा॒नः । उ॒भौ लो॒कौ स॑नेम॒हम् । उ॒भयो॑र्लो॒कयो॒र्ऋद्ध्वा॑ । अति॑ मृ॒त्युं त॑राम्य॒हम् । कल्पः-“शल्कैरेता ँ रात्रिमेतमग्निमिन्धानआस्ते- शल्कैरग्निमिन्धान उभौ लोकौ सनेमहमुभयोर्लोकयोर्ऋद्ध्वाऽतिमृत्युं तराम्यहमित्येतया” इति । अहं शल्कैः काष्ठलेशैरग्निमिन्धानः प्रज्वालयन्नुभौ लोकावेतल्लोकपरलोकौ सनें संजयेयम् । तयोरुभयोर्लोकयोर्ऋद्ध्वा समृद्धो भूत्वा मृत्युमहमतिशयेन तरामि ।