तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 98, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.२.१) ६९ बध्नाति” इति । तत्राग्निशब्देनाजः संबोध्यते तस्याग्निसंबन्धित्वात् । “आग्नेयी वा एषा यदजा” इति श्रुत्यन्तरादग्निना सह प्रजापतिमुखादुत्पन्नत्वाच्च । हेऽग्नेऽजात्मन्प्रजा अस्मदीयाः पशुभिः सहाऽऽशा दिग्द्वर्तिनः प्राणिनश्च संवासय संवासनेन पालय । यानि राष्ट्राणि सवितुः सवे परमेश्वरस्याऽऽज्ञायां पूर्वमासंस्तानि राष्ट्राण्यस्मै यजमानायाऽऽधेहि सर्वतः संपादय । म॒ही वि॒श्पत्नी॒ सद॑ने ऋ॒तस्य॑ । अ॒र्वाची॑ एतं॒ धरु॑णे रयी॒णाम् । अ॒न्तर्व॑त्नी ज॒न्यं॑ जा॒तवे॑दस॒म् । अध्व॒राणां॑ जन॒यथः॑ पुरो॒गाम् ( १३) । कल्पः-“मही विश्पत्नी सदने धरुणे रयीणामन्तर्वत्नी जन्यं जातवेदमध्वराणां जनयथः पुरोगामित्यरणी आह्रियमाणे यजमानः प्रतीक्षते” इति । रयीणां धनानां धरुणे धारयित्र्यौ हेऽरणीमही महत्यौ पूजनीये विश्पत्नी प्रजानां पालयित्र्यपावर्वाची अभिमुखे सत्यावृतस्य सदने यज्ञस्य स्थान एतमागच्छतम् । अन्तर्वत्नी गर्भिण्यौ युवां जन्यं जनयितारमग्निं जातवेदसं जातानां वेदितारमध्वराणां पुरोगां यज्ञानामग्रगामिणं जनयथ उत्पादयतम् । आरो॑हतं दश॒तं ँश॑क्करी॒र्मम॑ । ऋ॒तेना॑ग्न॒ आयु॑षा॒ वर्च॑सा सह॑ । ज्योग्जीव॑न्त॒ उत्त॑रामुत्त॒रा ँ समा॑म् । दर्श॑महं पूर्ण॒मासं॑ य॒ज्ञं यथा॒ यजै॑ । कल्पः-“आरोहतं दशतं शक्करीर्मम ऋतेनाग्न आयुषा वर्चसा सह ज्योतिग्जीवन्त उत्तरामुत्तरा ँ समां दर्शमहं पूर्णमासं यज्ञं यथा यजा इति हस्ताभ्यां प्रतिगृह्य” इति । हेऽरणी मम मदीयाः शक्तियुक्ता अङ्गुलयो याः सन्ति तासां दशतं दशसंख्यायुक्तवर्गमारोहतम् । हेऽग्नेऽरणिगर्भस्थ त्वमपि ऋतेन यज्ञेनाऽऽयुषाऽस्मदीयेन दीर्घायुष्येण वर्चसा बलेन सह दशतमारोह । वयं ज्योग्दीर्घकालं जीवन्त उत्तरामुत्तरां समामुत्तरोत्तर- संवत्सरे विच्छेदमन्तरेण दर्शं पूर्णमासं च यज्ञं यथा यजै यथा यजामि तथा त्वमारोहेति पूर्वत्रान्वयः । ऋ॒त्विय॑वती स्थो अ॒ग्निरैत॑सौ । गर्भं॑ दधाथां॒ ते वा॑म॒हं द॑दे । तत्स॒त्यं यद्वी॒रं बिभृ॑थः । वीरं॑ ज॒नयि॑ष्यथः॑ । ते