भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 15, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 15

vi तैत्तिरीयब्राह्मणं यज्ञीयविनियोगपरेणार्थेन परिपूर्णं मीमांसादिन्यायपरिक्लृप्तं सर्वेषां शास्त्रचिन्तकानां सर्वथा विचारास्पदं प्रमाणभूतं च भवति। तैत्तिरीयब्राह्मणं कृष्णयजुर्वेदस्य ब्राह्मणमस्ति। रचनाकालदृष्ट्या प्राचीनतमं ब्राह्मणमिदं स्वरांकितं विद्यते। अस्य पदावली वाक्यरचनापि प्राचीनतामेव कथयति। ब्राह्मणेऽस्मिन् त्रयः काण्डा विद्यते। वस्तुतः कृष्ण यजुर्वेद संहितायाः परिशिष्टमेव प्रतिभाति। संहितायां विवेचिता यज्ञाः सविस्तरं ब्राह्मणग्रन्थे वर्णिता सप्रयोगञ्च। पुरुषमेधसदृशा यज्ञा ब्राह्मणग्रन्थे विवेचिता परं न प्राप्यन्ते संहितायाम्। त्रिषु काण्डेषु अग्न्याधानं वाजपेय-सोमयाग, राजसूय -सौत्रामणी इत्यादयो यज्ञा वर्णिता विवेचिताश्च। सममेव चत्वारो वर्णा आश्रमाश्चापि विस्तृतरूपेण वर्णिताः व्याख्यायिताश्च। यागानामिष्टीनां, होमानां सविस्तरं वर्णन तैत्तिरीयब्राह्मणस्यास्यात्यन्तं महत्वपूर्णं स्थानं निश्चिनोति । सामाजिकरूपेण जीवनमूल्यानां शाश्वतिकानामादर्शानां पोषणमत्र विहितम् आख्यानानामुपाख्यानानां चात्र संग्रहेण ब्राह्मणमिदं विश्वकोशरूपेण स्वीक्रियते। "तैत्तिरीय ब्राह्मणस्य प्रकाशनेन संस्कृतविदुषां शोधछात्राणां च महानुपकारो भविष्यति। राष्ट्रीय संस्कृत संस्थानस्य निदेशकमहोदयानामाभारप्रदर्शनं क्रियेत यै प्रकाशनव्ययं स्वीकृतम् शास्त्रप्रकाशनयोजनायाम्। दिल्लीस्थ नागप्रकाशकेन सर्वविधसुन्दरं प्रकाशनं कृतमतोहितेधन्यवादार्हा। अन्ते च क्षमायाचनां करोमि संस्करणेऽस्मिन् असावधानतया यापि त्रुटयः स्युताः क्षन्तव्याः । 'नवरात्रम्' २०५४ विक्रमसम्वत् २ ।१० ।१९९७ विदुषां वशंवदः पुष्पेन्द्र कुमारः आचार्यः संस्कृत विभागे दिल्ली विश्वविद्यालय दिल्ली।