भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 152, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 152

तैत्तिरीयब्राह्मणम् (१.३.५) १२३ काष्ठविशेषे स्थापिते गमनाय सजीकर्तुं तस्य रथस्य तस्मात्काष्ठादवरोहणं विधत्ते- इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॒घ्न इति॒ रथ॑मु॒पाव॑हरति॒ विजि॑त्यै, इति । कल्पः-“अथैनं धूर्गृहीतमन्तर्वेद्याम्यावर्तयन्ति- वाज॑स्य नु प्रस॒वे मा॒तरं॑ म॒हीमदि॑तं॒ नाम॒ वच॑सा करामहे । यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑ साविषत् ” इति । दक्षिणवेदिश्रोण्यन्त रथवाहनादवरोपितं रथं सौमिकवेदिमध्ये प्रादक्षिण्येनाऽऽनयेदित्यर्थः । वाजस्य नु, अन्नस्यैव प्रसव उत्पत्तिनिमित्तं मातरमन्नस्य निर्मात्रीं महीं वेदरूपां पृथिवीमदितिं नामाखण्डनीयामेव वचसास्तुत्या करामहे कुर्मः । यस्यां पृथिव्यामिदं सर्वं भूतजातं प्रविश्यावतिष्ठते तस्यां पृथिव्यां नोऽस्माकं धर्म धारणं सविता देवः साविषदनुजानातु । अनेन मन्त्रपाठेन भूमिं तदाश्रितं जगञ्च जगञ्च स्वाधीनत्वेन संपादयतीत्येवं व्याचष्टे- वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमित्या॑ह । य॒ज्ञैवेयम् । य॒ज्ञास्यामधि॑ । तदे॒वाव॑रुन्धे । अथो॒ तस्मि॑न्ने॒वोभये॑ऽ भिषि॑च्यते, इति । न केवलं बलं तयोः स्वाधीनत्वं किंत्वेतस्मिन्नुभयस्मिन्भूम्यां तदाश्रिते जने च राजत्वेनाभिषिक्तो भवति । कल्पः-“अथाश्वानपल्पूलयति- अ॒प्स्व॑न्तर॒मृत॑म॒प्सु भेष॒जमु॒पामुप॑ प्र॒शस्ति॑ष्वश्वा॑ भव॒थ वाजिनः” इति । पल्पूयति जले प्लावयति । शरीरं प्रक्षालयतीत्यर्थः । अप्सु मध्ये यन्मृत्युनिवारकं रोगनिवारकं च सारं वर्तते (तन्न) हे वाजिनोऽन्नवन्तोऽश्वा अपां संबन्धिन्यीषूत प्रशस्तिष्वमृतत्वभेषजत्व- सदृशीष्वन्यास्वपि गुणवत्प्रशंसासु यूयं संबद्धा भवथ । विधत्ते- अ॒प्स्व॑न्तर॒मृत॑म॒प्सु भेष॒जमित्यश्वा॑नपल्पूलयति । अ॒प्सु वा अश्व॑स्य॒ तृतीयं॒ प्रवि॑ष्टम् । तद॑नुवे॒न्वव॑प्लवते । यद॒प्सु