भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 153, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 153

१२४ (१.३.५) तैत्तिरीयब्राह्मणम् प॑ल्पूलय॑ति (२) । यदे॒वास्या॒प्सु प्रवि॑ष्टम् । तदे॒वाव॑रुन्धे, इति । स्नपयितुं प्रवशितोऽप्यश्वः स्वेच्छया क्रीडञ्जलस्योपरि प्लवते । तत्रेद्रमुत्प्रेक्षते । अप्सुयोनिर्वा अश्व इति श्रुतेरश्वजन्मकाले गर्भसंबन्धि तृतीयमंशजातं जलेऽवस्थितं भवति । यथा मनुष्यगर्भे तद्वत् । अत एव हि मनुष्या नवप्रसूताया योषितो गर्भस्थानं समाधातुं बहुभिरौषधैश्चिकित्सां कुर्वन्ति । एवं च सत्ययमप्यश्वस्तदंशजातमन्वेवेन्कामयमानोऽनु प्रायेणावप्लवते । यथा विनष्टद्रव्यमचिन्वन्पुरुषो जले पुनः पुनर्मज्जन्नुत्तिष्ठति तद्वत् । एवं च सत्यध्वर्युः प्लावयतीति यत्तेनाप्सु प्रविष्टमश्वावयवजातं तत्सर्वं संपादितवाम्भवति । प्रकारान्तरेण प्लावनविधिं स्तौति- बहु॒ वा अश्वो॑ऽमे॒ध्यमुप॑गच्छति । यद॒प्सु प॑ल्पूलय॑ति । मेध्य॑मे॒वैना॑न्करोति, इति । अश्वः खलु पृथिव्यां यत्र क्वाप्यशुचिप्रदेशे विपरिवर्तमानो बहुविधममेध्यमयज्ञार्हमुच्छिष्टादिकमुपगच्छति, अतोऽध्वर्युः प्रक्षालनेनाश्वान्यज्ञयोग्यानेव करोति । कल्पः-“अथ दक्षिणं योग्यं युनक्ति- वा॒युर्वा॒ त्वा॒ मनु॑र्वा त्वा गन्ध॒र्वाः स॒प्तवि॑ ँशतिः । ते अग्रे॒ अश्व॑मायुञ्ज॒न्ते अ॒स्मिञ्ज॒यमार्धुः” इति । योग्यं रथयोक्तुमर्हमश्वम् । वायुश्च मनुश्च पञ्चविंशतिसंख्याका गन्धर्वाश्चेति मिलित्वा सप्तविंशतिसंख्याका ये पुरुषास्ते सर्वेऽग्रेऽस्मत्तः पूर्वं रथे संयोजितवन्तस्ते पुनः सर्वे पृष्ठसंमार्जनाद्युपचारैणास्मिन्नश्वे वेगं संपादितवन्तः । वायुस्त्वामयोजयन्मनुस्त्वामयोजयदिति पृथग्वाक्यकरणं तयोर्मुख्यत्वज्ञापनार्थम् । अहं युनज्मीत्यभिप्रायः । अहं युनज्मीति । पाठं परित्यज्य वायुर्वा त्वेति पाठस्याभिप्रायमाह- वा॒युर्वा॒ त्वा॒ मनु॑र्वा॒ त्वेत्या॑ह । ए॒ता॰ वा ए॒तं दे॒वता॒ अग्रे॒ अश्व॑मयुञ्जन् । ताभि॑रे॒वैना॑न्युनक्ति । सर्व॑स्यो जित्यै, इति । योजयितॄणां देवानामनुग्रहाद्यज्ञस्योत्कर्षेण जयो भवा[...] विधत्ते-