तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 154, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.३.५) १२५ यजु॑षा युनक्ति॒ व्यावृत्यै॑ (३), इति । अनुप् छन्दस्तादृग्रूपोऽपि वायुर्वा त्वेति मन्त्रो यजुर्वेदपठित्वा- द्यजुरित्युपचर्यते । लौकिके रथे मन्त्रमन्तरेणाश्वयोजनादत्र समन्त्रकत्वेन व्यावृत्तिर्भवति । कल्पः-“अथास्य पृष्ठं मर्मृज्यते- अपांनपादाशुहे॑म॒न्य ऊ॒र्मिः क॒कुद्मान्प्रतूर्तिर्वा॒जसा॑तम॒स्तेना॒यं वाजं॑ सेत्” इति । मर्मृज्यते पुनः पुनः संमार्ष्टि । हेऽपांनपात्प्लवनकाले जलस्य कालुष्यापादनादविनाशयितराशुहेमंस्तीव्रगन्तस्तादृश हेऽश्व जल य ऊर्मिः ककुद्वान्ककुदिवोन्नतः प्रतूर्तिर्निमज्जन प्रसक्तस्योपद्रवस्य प्रकर्षेण हिंसको वाजसातमः सस्योपकारित्वेनातिशयेनान्नप्रदस्तेन त (त्व) त्पृष्ठलग्नेनोर्मिणाऽस्माकं वाजमन्नं सेत्साधय । विधत्त- अ॒पांनपादाशुहे॑म॒न्निति॑ संमा॒र्ष्टि । मे॒ध्याने॒वैना॑न्करोति । अथो॒ स्तौत्ये॒वैना॑ना॒जि ँस॑रिष्य॒तः, इति । पृष्ठसंमार्जनेन शोधितत्वाद्यागयोग्यत्वम् । किंच धावनार्थायः सप्तदशशरपातपरिमिताया भूमेरवधिराजिस्तं प्रति सरिष्यन्ति गमिष्यन्ति तान्गमिष्यतोऽश्वान्पृष्ठसंमार्जनरूपणोपलालनेनस्तौत्येव प्रोत्साहयत्येव । कल्पः-“अथ रथमभिप्रेति- विष्णो॑ः क्रमो॑ऽसि॒ विष्णो॑ः क्रा॒न्तम॑सि॒ विष्णो॒र्विक्रान्तमसि, इति । तदेतद्यजमानकर्म । तथाचाऽऽपस्तम्ब-“विष्णोः क्रमऽसीति रथं यजमानोऽभ्येति इति । यजमानस्य मम हे प्रथम प्रक्रम त्वं विष्णोर्व्यापनशीलस्य जगदीशवरस्य त्रिविक्रमावतारस्य प्रक्रमोऽसि प्रथमपदप्रक्षेपेण जितो भूलोकोऽसि । हे द्वितीयप्रक्रम त्वं क्रान्तं विष्णोर्द्वितीयपदप्रक्षेपेण जितमन्तरिक्षमसि । हे तृतीयप्रक्रम त्वं विक्रान्तं विष्णोः पराक्रमेण जितं त्रिविष्टपमसि । विधत्ते- विष्णु॑क्र॒मान्क्रम॑ते । विष्णु॑रि॒व भू॒त्वेमाँल्लो॒कान॒भिज॑यति॒, इति । कल्पः-“अथ रथस्य पक्षसी संमृशत्यङ्कौ न्यङ्कावभितो रथं यौ ” इति । पक्षसी पार्श्वौ ।