तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 156, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.३.५) १२७ यजेत वाजपेयेन स्वाराज्यार्थीत्यसौ गुणः । नाम वा गुणता तन्त्रयोगाद्गुणफलद्वये ॥ साधारणयजेः कर्मकरणत्वेन तन्त्रता । त्रिकद्वयं विरुद्धं स्यात्तन्त्रतायां फलं प्रति ॥ उपादेयविधेयत्वगुणत्वाख्यत्रिकं यजेः । उद्देश्यानूक्तिमुख्यत्वत्रिकं तस्य गुणं प्रतिं ॥ त्यक्त्वा तन्त्रं तदावृत्तौ वाक्यं भिद्येत तेन सः । वाजपेयेति शब्दोऽपि कर्मनामाग्निहोत्रवत् ।। (इति) । वाजपेयेन स्वाराज्यकामो यजेतेत्यत्र वाजपेयशब्देन गुणो विधीयते । अन्नवाची वाजशब्दः । तच्चान्नं पेयं सुराद्रव्यम् । तच्चात्र गुणः । सुराग्रहाणामनुष्ठेयत्वात् ननु गुणत्वे वाजपेयगुणवता यागेन स्वाराज्यं भावयेदित्येवं मत्वर्थलक्षणा प्रसज्यते । मैवम् । सकृदुच्चरितस्य यजेतेत्याख्यातस्य वाजपेयगुणे स्वाराज्यफले च तन्त्रेण संबन्धाङ्गीकाराद्वाजपेयद्रव्येण स्वाराज्याय यजेतेत्येवमुभयसंबन्धः । ननु गुणसंबन्धे सति वाजपेयेन गुणेन यागं कुर्यादिति यजेः कर्मकारकत्वं भवति। फलसंबन्धे तु यागेन स्वाराज्यं संपादयेदिति करणकारकत्वम् । ततः कथमुभयसंबन्ध इति चेन्नायं दोषः । यजेः साधारणत्वेन द्विरूपत्वसंभवात् । यजेतेत्यत्र प्रकृत्या याग उक्तः प्रत्ययेन भावनोक्ता । तयोस्तु समभिव्याहारात्संबन्धमात्रं गम्यते । तच्च कर्मत्व करणत्वयोः साधारणम् । न खलु तत्र कर्मत्वस्यैव करणत्वस्यैव वा साक्षादभिधायिका काचिदसाधारणविभक्तिः श्रूयतेऽतः साधारणस्य यजेरुभाभ्यां गुणफलाभ्यां युगपत्संबन्धे सति यथोचितं संबन्धविशेषः पर्यवस्यति । एवं तन्त्रेण संबन्धाङ्गीकरणे वाजपेयद्रव्येण यागं कुर्यादित्यस्यार्थस्य लभ्यमानत्वाद् गुणविधित्वेऽपि नास्ति मत्वर्थलक्षणा । यद्युद्भिदादिष्वप्येवं गुणविधिः स्यात्तर्हि तान्यपि वाक्यान्यत्रोदाहृत्य तदीयः सिद्धान्तः पुनः-राक्षिप्यतामिति प्राप्ते ब्रूमः । यजेस्तन्त्रणोभयसंबन्धे सति विरुद्धत्रिकद्वयापत्तिः स्यात् । उपादेयत्वं विधेयत्वं गुणत्वं चेत्येकं त्रिकम् । उद्देश्यत्वमनुवाद्यत्वं मुख्यत्वं चेत्यपरं त्रिकम् । तत्रोद्देस्यत्वादयः स्वाराज्यफलनिष्ठाधर्मा उपादेयत्वादयस्त्रयः साधनभूतयजिनिष्ठाः । फलमुद्दिश्य यजिरुपादीयते, फलमनूद्य याजिर्विधीयते । फलं प्रधानं यजिरुपसर्जनम् । फलस्योद्देश्यत्वं नाम मानसापेक्षाविषयत्वाकारः । यजेरुपादेयत्वं नामानुष्ठीयमानत्वाकारः। तावुभौ मनःशरीरोपाधिकौ धर्मौ । अनुवाद्यत्वविधेयत्वधर्मौ तु शब्दोपाधिकौ । ज्ञातस्य कथनमनुवादः । अज्ञातस्यानुष्ठेयस्य कथनं विधिः । फलयागयोः साध्यसाधनरूपतया प्रधानत्वोपसर्जनत्वे । एवं