तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 168, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.३.६) १३९ छन्दो॑भिरे॒वैनां॑ ' सुव॒र्गं लो॒कं ग॑मयति (५), इति । गायत्री त्रिष्टुब्जगत्यनुष्टुबिति च्छन्दसां चतुष्टयम् । उदङ्मुखत्वेनाऽऽवृत्तिं विधत्ते- प्रवा ए॒तेऽस्माल्लो॒काच्च्य॑वन्ते (न्ते) । य आ॒जिं धाव॑न्ति । उद॑ञ्च॒ आव॑र्तन्ते । अ॒स्मादे॒व तेने॑ लो॒कान्नर्य॑न्ति, इति । कल्प:-“रथविमोचनीयं जुहोत्या मा वाजस्य प्रसवो जगम्यात्' इति पाठस्तु- आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दा द्यावा॑पृथि॒वी वि॒श्वशं॑भू । आ मांऽऽगन्तां॑ पि॒तरा॑ मा॒तरा॑ चाऽऽमा॒ सोमो॑ अ॒मृत॑त्वा य॑गम्यात्, इति । वाजस्यान्नस्य प्रसव उत्पत्तिर्मां प्रत्याजगम्यादागच्छतु । द्यावापृथिव्यौ च विश्वशंभू कृत्स्नस्य जगतः सुखं भावयन्तौ (न्त्यौ) मामागच्छताम् । पितरा मातराऽस्मदीयः पिता च मा प्रत्यागन्तां चिरजीवित्वाय समागच्छताम् । किंच सोमश्चामृतत्वाय मम देवत्वजन्मने मां प्रत्यागम्यादागच्छतु । अपाम सोमममृता अभूमेति ह्यन्यत्र श्रुतम् । विधत्ते- र॒थ॒वि॒मो॒च॒नी॒यं जु॑होति॒ प्रति॑ष्ठित्यै, इति । रथविमोकेनाश्वानामायासं परिहृत्य स्वयं प्रतिष्ठितो भवति । मन्त्रे वाजप्रसवोक्तेरभिप्रायमाह- आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दित्या॑ह । अन्नं॒ वै वाज॑: । अन्न॑मे॒वाव॑रुन्धे, इति । इतरैः षोडशरथैर्धावद्ध्यः कृष्णलदानं विधातुं प्रस्तौति-- य॒था लो॒कं वा ए॒त उर्जय॑न्ति । य आ॒जिं धाव॑न्ति (६), इति । ये रथान्तरवर्तिनं आजिं धावन्ति, एते यथा लोकं यथास्थानमुञ्जयन्ति यस्मिन्यस्मिन्स्थाने यों यों धावत्यसावसौ तत्तत्स्थानं जयतीत्यर्थः । विधत्ते--