तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 173, कुल 345 में से
संदर्भ में पढ़ें१४४ (१.३.७) तैत्तिरीयब्राह्मणम् यदेकं तदाऽपि किं मुष्टिरेव किंवा संख्येवेति संशयः । चोदकप्राप्त- मुभयमस्तीत्याद्यः पक्षः प्राप्नोति । चतुर्भिर्मुष्टिः सप्तदशशरावपूरणसर्थस्य चरोरनिष्पत्तेः स पक्षो न युक्तः। तर्हि मुष्टिसंख्ये द्वे अपि बाध्यते इति द्वितीयः पक्षोऽस्त्विति चेन्मैवम् । एकतरबाधेनैव पूरणाभावपरिहारे सिद्धे सति द्वयोर्बाधे गौरवप्रसङ्गात् । नन्वत्रोपदिष्टेन शरावद्रव्येणातिदिष्टं मुष्टिद्रव्यं बाध्यते । तथा सप्तदशसंख्यया चतुःसंख्या बाध्यत इत्युभयबाधोऽवश्यंभावी । मैवम् । भिन्नविषयत्वेन बाधासंभवात् । शरावसप्तदशसंख्ये यागसंबद्धे, मुष्टिचतुःसंख्ये तु निर्वापसंबद्धे इति विषयभेदः। कथं तर्ह्यत्र बाधप्रसङ्गः । अन्यथाऽनुपपत्त्येति वदामः । अनुपपत्तिश्च पूरणासंभवेन दर्शिता । पूरणं चैकबाधेनाप्युपपद्यते मुष्टिबाधे यथोचितं चतुःसंख्योपेतैः कुडवादिभिः पूर्तिः स्यात् । चतुःसंख्याबाधे यथोचितमधिकसंख्योपेतैर्मुष्टिभिः पूर्तिर्भविष्यति । एवं तर्ह्य कलोप इति तृतीयः पक्षोऽस्तु । तत्र संख्या धर्मः । मुष्टिर्धर्मी । तथा सति मुष्टौ लुप्ते सति निराश्रयस्य धर्मस्यासिद्धेः संख्यालोपोऽप्यवश्यंभावी । संख्याया तु लुप्तायां मुष्टिः शक्नोत्यवस्थातुम्, तस्मात्संख्येव लुप्यतामिति प्राप्ते ब्रूमः। चतुःसंख्या तावन्न मुष्टिमात्रेऽन्वेति । कर्मकारकवांचि- द्वितीयाविभक्तयन्तस्य चतुःशब्दस्य सहकर्मकारकेण निर्वपतिधातुना सहान्वयात् । अतः संख्या न मुष्टिधर्मः। पार्ष्णिकान्वयेन तु मुष्टिविशेषणं भविष्यति । संख्यामुष्ट्योः क्रियासंबन्धे समान सत्यपि प्रथमश्रुतत्वात्साऽनुगृह्यते चरमश्रुतत्वेन दुर्बलो मुष्टिर्बाध्यत इति राद्धान्तः। इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके तृतीयाध्याये षष्ठोऽनुवाकः ॥ ६ ॥ अथ सप्तमोऽनुवाकः । अष्टम रथधावनमुक्तं नवमे यूपारोहणमुच्यते । कल्पः-“अथ यजमानं तार्प्यं परिधापयति- क्ष॒त्रस्योल्ब॑मसि, इति । क्ष॒त्रस्य॒ योनि॑रसि॒, इति दर्भमयं पत्नीम् ” इति । धृताक्तं वस्त्रं तार्प्यम् । क्षत्रस्य राजस्थानीयस्य यजमानस्य गर्भत्वेनोपचर्यमाणस्थोल्बमवरणमसि । उल्बवृतो गर्भ इति च्छन्दोगा आमनन्ति । हे दर्भमय पट क्षत्रस्य राजमहिषीस्थानीयस्य पत्नीशरीरस्य योनिरसि शीतनिवारणकारणमसि । तदेतत्परिधानद्वयं विधत्ते- तार्प्यं॑ यज॑मानं॒ परि॑धापयति । य॒ज्ञो वै तार्प्यम्॑ । य॒ज्ञेनै॒वैन॑ ँ