तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 174, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.३.७) १४५ सम॑र्धयति । द॒र्भ॒मयं॒ परि॑धापयति । प॒वित्रं॒ वै दर्भाः॑ । पु॒नात्ये॒वैन॑म् । वाजं॒ वा ए॒षोऽव॑रुरुत्सते । यो वा॑ज॒पेये॑न॒ यज॑ते । ओष॑धयः॒ खलु॒ वै वाजः॑ । यद्दर्भ॑मयं परि॒धाप॑यति (१) । वाज॑स्याव॑रुद्ध्यै, इति । तार्प्यस्य यज्ञस्य यज्ञसाधनत्वायज्ञत्वम् । एनं पत्नीदेहम् । वाजपेयया जिनोऽन्नावरोधकामिन ओषधिरुपदर्भमयेनान्नमवरुद्धं भवति । कल्पः-- "अथ जायामामन्त्रयते-- जाय एहि सुवो रोहाव, इति । रोहावहि सुवः, इति-इतरा प्रत्याह । अहं ना॑वु॒भयोः सुर्वे रोक्ष्या॑मि, इति यजमान " इति । स्पष्टार्थो मन्त्रः । एहीत्याह्वानस्य तात्पर्यमाह- जाय॒ एहि॒ सुवो॒ रोहा॒वेत्या॑ह । पत्न्या॑ एवैष॒ य॒ज्ञस्या॑न्वार॒म्भोऽन॑वच्छित्त्यै, इति । आह्व न (ने) न यजमानस्य यज्ञारम्भमनु पत्न्या अपि यज्ञारम्भे सति यज्ञोऽनबच्छिन्नो भवति । पूर्वमन्त्रैः स्वर्गत्त्वेन निरूपितस्याऽऽरोहणीयस्य यूपस्य चोदकप्राप्तं परिमाणपवदितुं परिमाणान्तरं विधत्ते- स॒प्तद॑शार॒त्निर्यू॒पो भ॑वति । स॒प्तद॒शः प्र॒जाप॑तिः । प्र॒जाप॑तेराप्त्यै॑, इति । चतुर्विंशत्यङ्गुलिपरिमितोऽरत्निः, सप्तदशसंख्याका अरत्नयः परिमाणं यस्य यूपस्येति विग्रहः । अन्यद्गुणद्वयं यूपस्य विधत्ते- तूप॒रश्च॑तुर॒श्रिर्भव॑ति, इति । इतरेषां यूपानामग्रे शृङ्गस्थानीयः काष्ठशेषोऽ णीयांश्र्चषाल- पतिमोकायामवशेष्यते सोऽस्य नास्तीति तूपरत्वम् । अष्टाश्रित्वमपवदितुं चतुरश्रित्वम् । चषालनामकस्य यूपकटकस्य दारुमयत्वापवादाय विधत्ते-