तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 178, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.३.७) १४९ ताड्यमानप्रदेशं विधत्ते-- शी॒र्ष॒तो घ्न॑न्ति । शी॒र्ष॒तो ह्यन्न॑म॒द्यते॑, इति । चतुर्दिक्षु हननं विधत्ते- दि॒ग्भ्यो घ्न॑न्ति । दि॒ग्भ्य ए॒वास्मा॒ अन्ना॑द्य॒मव॑रुन्धते, इति । कल्पः-“अत्रास्मै प्रत्यवरोहत आसन्दीं निदधाति तस्यां वस्ताजिनमा स्तृणाति वस्ताजिने शतमान ँ हिरण्यं दक्षिणं पादं हिरण्य उपावरोहयति- अ॒मृत॑मसि, इति । पुष्टि॑रसि प्र॒जनन॑मसि, इति सव्यं बस्ताजिने ; इति । हे हिरण्य त्वं विनाशरहितमसि । नह्यग्नौ प्रक्षिप्तमपि हिरण्यं काष्ठादिवद्विनश्यति । हे बस्ताजिन त्वं पुष्टि॒रसि । संवत्सरे बह्वपत्योत्पादकत्वात् । एतदेवाभिप्रेत्य प्रजननमसीत्युच्यते । हिरण्यऽवरोहं विधातुं प्रस्तौति- ईश्व॒रो वा ए॒ष परा॑ङ्प्र॒दध॑: । यो यूप॒ ँ रोह॑ति, इति । यूपमारूढो यजमानः पराङ्लोकाद्विमुखः प्रदधः प्रदग्धुं स्वात्मानं विनाशयितुमीश्वरः समर्थो भवति । अथवा प्रदधः प्रकर्षेण गन्तुमीश्वरो न पुरनावर्तेतेत्यर्थः । विधत्ते- हिर॑ण्यम॒ध्यव॑रोहति । अ॒मृतं॒ वै हिर॑ण्यम् । अ॒मृत॑ꣳसुवर्गो लो॒कः । अ॒मृत॑ ए॒व सु॑व॒र्गे लो॒के प्रति॑तिष्ठति, इति । हिरण्यस्य परिमाणं विधत्ते- श॒तमा॑नं भवति । श॒तायु॑: पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॑ये प्रति॑तिष्ठति, इति । मानशब्देन पणस्य विंशो भागोऽभिधीयंत । ततः पञ्चपणपरिमित्युक्तं भवति । शतसंख्याकाः संवत्सराः पुरुषस्याऽऽयुः । दशानां ज्ञानकर्मन्द्रियाणां मध्ये चक्षुरादीन्द्रियस्यैकैकस्य दशसु नाडीषु वृत्तिभेदेन शतेन्द्रियत्वम् ।