तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 179, कुल 345 में से
संदर्भ में पढ़ें१५० (१.३.७) तैत्तिरीयब्राह्मणम् बस्ताजिने वामपादप्रक्षेपं विधातुं प्रस्तौति- पु॒ष्ट्यै वा ए॒तद्रू॒पम् । यद॒जा । त्रिः सं॒व॒त्स॒रस्या॒न्यान्प॒शून्परि॒प्रजा॑यते, इति । संवत्सरे सकृत्प्रसवोपेतानन्यान्गावादिपशून्परित्यज्यसंवत्सरे त्रिरपत्यानि प्रसूतेऽतोऽस्याः पुष्टिरूपत्वम्। विधत्ते- ब॒स्ता॒जि॒नम॒ध्यर्व॑रोहति । पुष्ट्या॑मे॒व प्र॒जन॑ने॒ प्रति॑तिष्ठति (७), इति । परि॑धापय॑ति गोधूमा॑ जुहो॑ति॒ स्वं नैति॑ प्रत्यञ्चं॑ घ्नन्ति लो॒को नव॑ च । अथ विनियोगसंग्रहः- क्षत्रतार्प्यं क्षत्रदार्भ्यं परिधत्तोऽथ दंपती । जाय स्वाभ्याह्वयेद्धार्या रोहा तं प्रतीवक्ति सा ॥ अहं स्वाम्याहवाजश्च जुहुयाद् द्वादशाऽऽहुतीः । आयुर्दशभिरारोहेत्स्वयं बाहूद् ग्रहः सुवः ॥ सं भुवं प्रेक्षतेऽन्नाय चतुर्भिस्तु महर्त्विजः । दिग्भ्यो घन्त्यासपुटकैरमृत्पुष्टिद्वयात्पदे । स्वर्णवस्तत्वचोर्द्द्यात्पञ्चत्रिंशत्विहोदिताः ॥ (इति) । अथ मीमांसा । दशमाध्यायस्य चतुर्थपादे चिन्तितम्- तार्प्यमहतवस्त्रस्य बाधकं स्यान्न वाऽग्रिमः । गुह्याच्छादनकार्यैक्यादयोग्यत्वात्समुच्चयः ॥ इति । महाव्रते श्रूयते-तार्प्यं यजमानः परिधत्ते दर्भमयं पत्नीति । प्रकृतावहतं वासः परिधत्त इति । घृतार्क्तं वस्त्रं तार्प्यमित्युच्यते । ताभ्यां तार्प्यदर्भमयाभ्यां दंपत्योरहतं वस्त्रं बाध्यते । कुतः । परिधत्ते इत्यनेन प्रकृतिलिङ्गेन गुह्याच्छादनलक्षणस्य कार्यस्यैकत्वावगमात् । मैवम् । तार्प्यदर्भमयमयोर्मुखमाच्छादयितुमयोग्यत्वात् । परिधानं त्वत्रोपरितनं प्रावरणम् । तत्कार्यभेदा त्समुच्चयः । तृतीयाध्यायस्य प्रथमपादे चिन्तितम्-