भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 180, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 180

तैत्तिरीयब्राह्मणम् (१.३.७) १५१ भवेत्सप्तदशारत्निर्वाजपेयस्य यूपकः । उन्मानं द्रव्यगं वाजपेयस्याङ्गं पशोरुत ।। आनन्तर्यात्प्रकरणात्कर्माङ्गं षोडशिन्यदः । ऊर्ध्वपात्रे खादिरेऽग्रे संयुज्यान्वेति कर्मणा ।। यूपद्वारा पशोरङ्गं पशुद्वारा च कर्मणः। सौमिकत्वाद्वाजपेये यूपो नास्ति पशुं विना ।। (इति) । वाजपेयप्रकरणे श्रूयते सप्तदशारत्निर्वाजपेयस्य यूपो भवतीति । अत्र यूपद्रव्यगतं सप्तदशारत्निशब्दोदितं यदूर्ध्वमानं तद्वाजपेयकर्मणोऽङ्गम् । सप्तशारत्निशब्दवाजपेयशब्दयोरानन्तर्यात् । प्रकरणं चैक्यमनुगृह्यते । यदि कर्मणः साक्षादूर्ध्वं मानं न संभवत्तर्हि वाजपेयगतं खादिरमूर्ध्वं यत्षोडशिपात्रं तस्मिन्नेद उन्मानं संबध्य तद्द्वारा कर्मणाऽन्वेतीति प्राप्ते ब्रूमः । सप्तदशारत्निर्यूप इति सामानाधिकरण्याद्यूपेन साक्षात्संबध्यते । तस्य च यूपस्य पश्वङ्गत्वान्दुन्मानं यूपद्वारा पशोरङ्गं भवति । तस्यापि पशोर्वाजपेयाङ्गत्वात्पशुद्वारा कर्मणोऽङ्गम् । यद्यपि वाजपेययूपशब्दयोरानन्तर्यमस्ति तथाऽपि वाजपेयस्य सोमयागतया साक्षाद्यूपसंबन्धाभावात्पशुव्यवधानमभ्युपेयम् । वाजपेयस्येति षष्ठ्याः संबन्धमात्रवाचित्वेन व्यवहितसंबन्धमप्यसावभिधत्ते । देवदत्तस्य नप्तृप्रयोगवत् । यत्सप्तदशारत्निवाजपेयशब्दयोरानन्तर्यं यच्च प्रकरणं तदुभयं न विरुद्धम् । पश्वङ्गत्वेऽप्यन्ततो वाजपेयाङ्गत्वांगीकारात्। किंच पूर्वपक्षे यूपशब्देन षोडशिपात्र लक्षणीयम् । सिद्धान्ते तु नासौ दोषः । तत्रैवाष्टमपादे चिन्तितम्- वाचयेत्स्वामिनंज्ञानौवाचनीयो ज्ञ एव वा । अविशेषादुभौ ज्ञस्य स्वामित्वान्द्वाचयेदमुम् ।। (इति) । वाजपेये श्रूयते-कॢप्तीर्यजमानं वाचयतीति । आयुर्यज्ञेन कल्पतामि त्यादयो मन्त्राः कॢप्तयः । तत्र मन्त्रतदर्थाभिज्ञमनभिज्ञं चोभावपि वाचयेत् । विद्वांसं वाचयेदित्येवं विशेषस्याश्रवणात् । अनभिज्ञ तदैव शिक्षयित्वाऽपि वाचयितुं शक्यत्वादिति चेन्मैवम् । अध्ययनविधिबलादधीतवेदस्य विदितवेदार्थस्यैव यजमानत्वात् । तस्मादभिज्ञमेव वाचयेत् । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके तृतीयाध्याये सप्तमोऽनुवाकः ।। ७ ।।