तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 197, कुल 345 में से
संदर्भ में पढ़ें१६८ (१.४.१) तैत्तिरीयब्राह्मणम् प्रकरणेन तद्वदिति वाच्यम् । तस्यानारभ्याधीतत्वात् । तस्मादयं पुरुषार्थः । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे तृतीयप्रपाठके दशमोऽनुवाकः ।। १० ।। वेदार्थस्य प्रकाशन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।। इति श्रीमद्वीरबुक्कणसाम्राज्यधुरंधर श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे तृतीयः प्रपाठकः समाप्तः ।। ३ ।। (मूलक्रमेण-अष्ट. १ अध्या. ३ अनु. १० (२६) । (भाष्यक्रमेण- कां. १ प्रपा. ३ अनु. १० (२६) । अथ प्रथमकाण्डे चतुर्थप्रपाठकारम्भः । तत्र प्रथमोऽनुवाकः । यस्यनिःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।। तृतीये वाजपेयो यः स प्राधान्येन वर्णितः । पुनराधेयकं पिण्डपितृयज्ञश्च वर्णितः ।। सोमादिब्राह्मणे पूर्वं यन्नोक्तं तच्चतुर्थके । प्रवक्ष्यते ग्रहाश्चास्मिन्ननुवाके समीरिताः ।। तत्राऽऽदौ ग्रहाणां ग्रहणं विधत्ते- उ॒भये॑ वा ए॒ते प्र॒जाप॑तेरध्य॑सृज्यन्त । दे॒वाश्चासु॑राश्च । तान्न व्य॑जानात् । इ॒मेऽन्य इ॒मेऽन्य इति॑ । स दे॒वान् ५ शूर्न॑करोत् । तान॒भ्य॑पुणोत् । तान्प॒वित्रे॑णापुनात् । तान्पु॒रस्ता॑त्प॒वित्रे॑स्य॒ व्य॑गृह्णात् । ते ग्रहा॑ अभवन् । तद्ग्रहा॑णां ग्रह॒त्वम् (१) । दे॒वता॑ व ए॒ता यज॑मानस्य गृ॒हे गृ॒ह्यन्तै॑ । यद्ग्रहा॑: । वि॒दुरैनं॑ दे॒वाः । यस्यै॒वं वि॒दुष ए॒ते ग्रहा॑ गृ॒ह्यन्तै॑, इति॑ ।