तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 198, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.४.१) १६९ देवा असुराश्चेत्येते द्विविधा अपत्याविशेषाः प्रजापतेः सकाशादधिकत्वेन सृज्यन्त । सृष्टानां च तेषामतिबहुत्वेन संकीर्णत्वादिमेऽन्ये पृथग्भूता देवा इमे चान्ये पृथग्भूता असुरा इति प्रजापतिस्तद्विभागं न ज्ञातवान् । अतो विभागज्ञानाय देवान्सर्वानंशूनकरोत् । सोमलतावयवरूपाणि शरीराणि देवानां कृतवान् तानि लताशरीराणि स्वचिह्नत्वेन धृत्वा देवाव्यावृत्तत्वेन प्रजापतिना विज्ञाताः । तांश्च लतादेहानभिषुत्य दशापवित्रारूप्येण वस्त्रखण्डेन ऋजीषं यथा न संकीर्येत तथा रसं शोधयित्वा पवित्रस्य परस्तादूर्ध्वमवस्थि- तस्याधोभागे विविधमिन्द्रावायावादिदेवार्थं गृहीतवान् । त च रसा ग्रहा अभवन् । तस्माद्गृह्णन्त इति व्युत्पत्त्या रसानां ग्रहत्वं संपन्नम् । य एते ग्रहास्ता ता देवता भूत्वा ता एव यजमानस्य गृहे हविर्धाने गृह्यन्ते । अत एते ग्रहा ग्रहीतव्या इत्यर्थः । एवं महिमानं जानतो यस्य यजमानस्य ग्रहा एते गृह्यन्ते तमेनं यजमानं देवा विदुः । सम्यगनुष्ठितवानित्येवं देवलोके प्रसिद्धि गच्छतीत्यर्थः । सौमिकमन्त्रव्याख्यानरूपे षष्ठकाण्डे ऐन्द्रवायवादिग्रहविशेषा एव विहिता न तु ग्रहसामान्यम् । इह तु तद्विधीयत इत्ययमनुवाकस्तत्काण्डशेषः । ग्रहग्रहणं विधायोपांशु ग्रहस्य होमं विधत्ते- ए॒षा वै सोम॑स्याऽऽहु॑तिः। यदु॑पा॒ ॅ शुः॑। सोमे॑न दे॒वा ॅ स्त॒र्पयाणीति॑ खलु॒ वै सोमे॑न यजते। यदु॑पा॒ ॅ शुं जु॒होति॑। सोमे॑नै॒व तद्दे॒वा ॅ स्त॑र्पयति, इति। “वाचस्पतये पवस्व वाजिन्” इत्यनुवाकेन सिद्धो योऽयमुपांशुग्रह एषैव सोमस्य समन्ताद् धुतिः । अत्र हि पात्रस्थः सर्वोऽपि सोमो हूयते । न तु ग्रहान्तरवत्कियानप्यवशिष्यते । यजमानोऽपि सोमेन देवांस्तृप्तान्करोमीत्यभिप्रेत्य सोमयागे प्रवृत्तः तस्मादुपांशु जुहुयात् । तेन सम्पूर्णसोमेनैव देवांस्तर्पयति । अथेतरग्रहहोमं विधत्ते- यद॒ग्रग्राहा॑ञ्जु॒होति॑ (२)। दे॒वा एव तद्दे॒वान्ग॑च्छन्ति, इति। तेन ग्रहहोमेन लताशरीरधारिणो देवा एव दिव्यविग्रहधारिण इन्द्रावायावादिदेवानागच्छन्ति । ऊर्ध्वपात्रस्थाः सोमरसात्मका ये चमसास्तेषां होमं विधायानूर्ध्वं चतुरस्रपात्रस्थिताः सोमरसात्मका ये चमसास्तेषां होमं विधत्ते-