तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 199, कुल 345 में से
संदर्भ में पढ़ें१७० (१.४.१) तैत्तिरीयब्राह्मणम् य॒ज्ञेमृ॒साञ्जु॒होति॑ । तेनै॒वानु॑रूपेण॒ यज॑मानः सुव॒र्गं लो॒कमे॑ति, इति । ग्रहैरेव देवानां तुष्टत्वादद्यजमानस्य स्वर्गार्थत्वेनानुरूपश्चमसहोमः । अतः स्तनेवानुरूपेण यजमानः स्वर्गं लोकं प्राप्नोतीति । प्रश्नोत्तराभ्यां रसग्रहणाधाररूपाणि पात्राणि विधत्ते- किंन्वै॑तद॒ऽ आ॑सी॒दित्या॑हुः । यत्पात्रा॒णीति॑ । इ॒यं वा ए॒तदग्र॑ आसीत् । मृ॒न्मया॑नि॒ वा ए॒तान्य॑ सन् । तैर्दे॒वा न व्या॒वृ॑तमगच्छन् । त ए॒तानि॑ दारुम॒याणि॒ पात्रा॑ण्यपश्यन् । तान्य॑कुर्वत (३) । तैर्वै ते व्या॒वृ॑तमगच्छन् । यद्दा॑रुम॒याणि॒ पात्रा॑णि॒ भव॑न्ति । व्या॒वृ॑तमे॒व तैर्यज॑मानो गच्छति, इति । यज्ञशालायां दृश्यमानानि पात्राणीति यत्तदेतत्पात्रनिष्पत्तेः पुरा किं नुं नाम वस्त्वांसीदित्येवं पात्रोपादानभूतवस्तुप्रश्नः । एतानि पात्राणि मृन्मयान्येव दृष्टानि तस्मात्पात्रोत्पत्तेः पूर्वं तदुपादानं भूमरासीदित्यत्तरम् । मनुष्यर्थपाकशालायामपि मृन्मयपात्राणां विद्यमानत्वात्तैः पात्रैर्देवा मनुष्येभ्यो व्यावृतिं न प्राप्ता इति पुनः प्रश्नवादिनां वचनम् । ते देवा क्वचिदवस्थितान्येव दारुमयाणि पात्राणि दृष्ट्वा स्वार्थं स्वीकृत्य तैर्दारुमयैर्मनुष्येभ्यो व्यावृतिं प्राप्ता इत्युत्तरवादिनां वचनम् । तस्माद्दारुमयाणि पात्राणि कर्तव्यानि । तैर्यजमान इतरेभ्यो व्यावृतिं प्राप्नोति । . तत्र देवार्थानि दारुमयाणि पात्राणि · यानि सन्ति यानि चान्यद्द्रव्यसंग्रहार्थानि मृन्मयानि तदुभयं प्रशंसति- यानि॑ दारुम॒याणि॒ पात्रा॑णि॒ भव॑न्ति । अ॒मुमे॒व तैर्लो॒कम॒भिज॑यन्ति । यानि॑ मृ॒न्मया॑नि । इ॒ममे॒व तैर्लो॒कम॒भिज॑यति, इति । अथ प्रश्नोत्तराभ्यां स्थालीं मृन्मयानां दारुमयाणां ग्रहणहोम योर्व्यवस्थां विधत्त ब्रह्म॒वादि॑नो वदन्ति । काश्च॒तस्रः॑ स्था॒लीर्वी॑य॒व्याः॑ सोम॑ग्रह॒णीरि॑ति । दे॒वा वै पृश्नि॑मदुहन् (४) । तस्या ए॒ते