तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 202, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.४.२) १७३ अहा॒व्यग्ने॑ ह॒विरा॒स्ये॑ त । स्रु॒चीव॑ घृ॒तं च॒मू इ॑व॒ सोम॑: (१)। वा॒ज॒सनिं॑ ँ र॒यिम॒स्मे सु॒वीर॑म् । प्र॒श॒स्तं धे॑हि य॒शसं॑ बृ॒हन्त॑म्, इति । हेऽग्ने ते तवाऽऽस्ये मुखेऽहावीदं द्रव्यं हुतम् । यथा स्रुचि जुह्वादौ घृतं निहितं यथा वा चमू चमसेषु सोमो निहितस्तद्वत्तस्मादस्मे अस्मासु सुवीरं शोभनकर्मशूरं पुत्रं धेहि संपादय । कीदृशम् । वाजसनिमन्नदातारं रयिं धनवन्तं प्रशस्तं विद्यादिगुणयुक्तं यशसं यशस्विनं बृहन्तं महान्तं सर्वकार्यसमर्थम् । अथ द्वितीयं मन्त्रमाह- यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षण॑: । व॒शामे॒षा अ॑वसृ॒ष्टास॒ आहु॑ता: । की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे॑' । हृ॒दा म॒तिं ज॑नय॒ चारु॑म॒ग्नये॑, इति । यस्मिन्नग्नावश्वादय आहुता अश्वासः । अश्वमेधयागे अश्वा हुताः । ऐन्द्रमृषभमित्यादिषु विहितेषु कर्मसु ऋषभा हुताः । ऐन्द्रमुक्षाणमित्यादिषूक्षाणो हुताः । सेचनसमर्था उक्षाणः पुंगवगात्रा ऋषभाः। मैत्रावरुणीं वशामालभेतत्यादिषु विहितेषु वशा हुताः । सारस्वतं मेषमित्यादिषु मेषा हुता । ते च सर्वेऽवसृष्टासो यजमानेन समर्पिताः . तादृशायाग्नये हृदाऽन्त:करणेन चारुं मतिं कर्मानुष्ठानविषयत्वेन समीचीना बुद्धिं जनयाह संपादयामि । कीदृशायाग्नये ।- कीलालपेऽन्नरसपायिने । सोमयागस्थितानि पृष्ठानि यस्यासौ सोमपृष्ठस्तस्मै वेधसे विधात्रे । नाना॒ हि वां॑ दे॒वहि॑तं ँ॒ सदो॑ मि॒तम् । मा स ँ॑ सृ॑क्षाथां प॒र॒मे व्यो॑मन् । सुरा॒ त्वम॑सि॒ शुष्मि॒णी सोम॑ ए॒षः । मा मा॑ हि ँ॑ सी॒: स्वां योनि॑मावि॒शन् (२)। यदत्र॑ शि॒ष्ट ँ॑ रसि॑नः सु॒तस्य॑ । यदिन्द्रो॒ अपि॑बच्छची॒भिः । अ॒हं तद॑स्य॒ मन॑सा॒ शिवे॑न । सोमं॒ राजा॑नमि॒ह भ॑क्षयामि । कल्पः-“ब्राह्मणं परिक्रीणीयादुच्छेषणस्य पातारं नाना हि वां देवहित ँसदों मितं मा सँसृक्षाथां परमे व्योमन्सुरा त्वमसि सुष्मिणी सोम एष मा मा हिँसीः स्वां योनिमाविशन्यदत्र शिष्ट ँरसिनः सुतस्य