तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 275, कुल 345 में से
संदर्भ में पढ़ें२४६ (१.५.८) तैत्तिरीयब्राह्मणम् इन्द्र॒ वाजे॑षु नो अव । स॒हस्रं॑प्रधनेषु च (२) । उ॒ग्र उ॒ग्राभि॑रू॒तिभि॑ः, इति । ह इन्द्र त्वमुग्रः प्रतिकूलनिवारणे तीव्रः । सन्वाजेष्वन्नेषु सहस्रप्रधनेषु सहस्रसंख्याकेषु प्रकृष्टधनेषु च निमित्तभूतेषूग्राभीरूतिभिः प्रतिबन्धनिवारणाय तीव्रै रक्षणैर्नोऽस्मानव रक्ष । अथाष्टमीमाह- तमिन्द्रं॑ वाजयामसि । म॒हे वृ॒त्राय॒ हन्त॑वे । स वृषा॑ वृष॒भोऽभु॑वत्, इति । तथाविधगुणयुक्तमिन्द्रं वयं वाजयामसि गमयामो भक्त्या प्रेरयाम इत्यर्थः । किमर्थम् । महे वृत्राय हन्तवे महान्तं पापरूपं वैरिणं हन्तुम् । स चेन्द्रो वृषाऽ स्माकं कामानां वर्षयिता सन्वृषभोऽभुवच्छ्रेष्ठो भवतु । अथ नवमीमाह- इन्द्र॑ः स दाम॑ने कृ॒तः । ओजि॑ष्ठः स बले॑ हि॒तः । द्यु॒मनी श्लो॒की स सौ॒म्यः, इति । स तादृश इन्द्रो दामने दामकृत्ये बन्धने कृतः पाशैर्वशीकृत इत्यर्थः । स चेन्द्र ओजिष्ठोऽतिबलवान् । अत.एव बले हितो बलकृत्ये वैरि॑विनाशनेऽस्माभिर्भक्त्या प्रेरितः । स चेन्द्रो द्युम्नी धनवान् । श्लोकी कीर्तिमान् सौम्यो रमणीयः । अथ दशमीमाह- गि॒रा वज्रो॒ न संभृ॑तः । सब॑लो॒ अन॑पच्युतः । व॒व॒क्षुरु॒ग्रो अस्तृ॑तः (३), इति । बृह॒च्चास्तृ॑तः । इतिकृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणेप्रथमाष्टके पञ्चमाध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥ सोऽयमिन्द्रो गिरऽस्मदीयया स्तुतिरूपया वाचा वज्रो न वज्र इव संभृतः सम्यगस्माभिर्वशीकृतः । सबलो बलेन सैन्येन युक्तः । अनपच्युतः कदाचिदप्यपलायितः । ववक्षुर्युद्धभारं वोढुमिच्छुः । उग्रः शत्रूणां