तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 281, कुल 345 में से
संदर्भ में पढ़ें२५२ (१.५.९) तैत्तिरीयब्राह्मणम् अ॒स्मिंल्लो॒के यज॑मानः । अस्थि॑ च मा॒ सँ च॑ । अस्थि॑ चै॒व तेने॑ मा॒ सँ च॒ यज॑मानः स ँ स्कु॑रुते, इति । यस्मिन्नहनि देवता यजमानस्य समीपे निवसति तदहरुपवसथीयम् । अत एवान्यत्राऽऽम्नायते–“उ॑पा॒स्मिञ्छ्वो यक्ष्य॑माणे देवता वसन्ति” इति । अत्राप्यग्नीषोमीयानुष्ठानादूर्ध्वदिने यजमानः सोमेन यक्ष्यते । तस्मादिदमहरुपवसथीयम् । यस्मिन्नहनि यः पशुरालभ्यः स द्विदेवत्यः । तौ च देवावग्नीषोमौ । “यदग्नीषोमीयं पशुमालभते” इत्यन्यत्राऽऽम्नानात् । यजमानस्य शरीरमप्यस्मिन्मनुष्यलोकेऽस्थिमांसद्वयात्मकं ततो द्विदेवत्येन पशुना यजमानः स्वकीयमस्थि मांसं च संस्करुते । एतत्पशुदेवताप्रसङ्गेन सवनीयपशुदेवतामग्निरूपा- मनूबन्ध्याख्यपशुदेवतां मित्रावरुणरूपां च मिलित्वा प्रशंसति- ता वा ए॒ताः पञ्च॑ दे॒वता॑: । अ॒ग्नीषोमा॑व- ग्निर्मित्रावरु॑णौ । प॒ञ्च प॒ञ्ची वै यज॑मानः । त्वङ्मा ँ स ꣳ स्नावास्थि॑ म॒ज्जा । ए॒तमे॒व तत्प॑ञ्च॒धा विहि॑तमा॒त्मानं॑ वरु॑णपा॒शान्मु॑ञ्चति । भेष॒जता॑यै निर्वरु॑णत्वाय, इति । ता वा एताः पशुदेवताः पञ्चसंख्याकाः । कास्ता इति ता उच्यन्ते । उपवसथीयेऽह्नि द्वावग्नीषोमावस्य पशोर्देवौ परेद्युः सवनेष्वग्निः सवनीयपशोर्देवः । अन्ते मित्रावरुणावनूबन्ध्याख्यपशोर्देवौ । यजमानोऽ प्यवयवपञ्चकोपेतत्वात्पञ्ची । पञ्चभिस्त्वगादिभिः पञ्चीति समासे सति पञ्चपञ्ची । अतःपशुत्रये पञ्चदेवता यजमानः पञ्चावयवोपेतं स्वदेहं वरुणपाशान्मोचयति । अतस्तद्भजनमौषधसिद्धये भवति । सा च सिद्धिर्वरुणोपद्रवपरिहाराय भवति । तस्मादेताः पञ्च देवता भजनीयाः । अथ प्रातरनुवाकाख्य ऋक्समूहे छन्दोविशेषान्विधत्ते- त ꣳ स॒प्तभि॑श्छन्दो॑भिः प्रा॒तर॑ह्वयन् । तस्मा॑त्स॒प्तच॑तुरुत्तराणि॒ च्छन्दा॑ ꣳ सि प्रातरनुवा॒केऽनू॑च्यन्ते, इति । देवास्तमिन्द्रं प्रातः काले सप्तभिश्चन्दोभिराहूतवन्तः । तस्मात्कारणात्प्रातरनुवाके गायत्रीत्रिष्टुब्जगत्याख्यानि मुख्यानि च्छन्दांसि चतुर्भिरुत्तरैरुष्णिगनुष्टुब्बृहतीपङ्क्त्याख्यैश्छन्दोभिः सहितानि प्रैषमनुवक्तव्यानि । तांश्छन्दोविशेषयुक्ता ऋच ऐतरेयब्राह्मणेऽवगन्तव्यः।