तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 280, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.५.९) २५१ अ॑पाव॒धीँ स्वाहेति॑ । अ॒श॒न॒यापि॒पा॒से ह॒ वा उ॒ग्रं वच॑: । एन॑श्च वैरह॒त्यं च॒ त्वेषं॒ वच॑: । ए॒तमे॒व तच्च॑तु॒र्धा विहि॑तं पा॒प्मानं॒ यज॑मानोऽप॑हते, इति । तदेतद्यजमानवाक्यं पूर्वोक्तदेववाक्यवद्व्याख्येयम् । उपसदनुष्ठानप्रकारं विधायानन्तरमग्नीषोमीयपश्वनुष्ठानं विधातुं प्रस्तौति- तैऽभि॒नीयै॒वाह॑: प॒शुमाल॑भन्त । अह॑ ए॒व तद्दे॒वा अर्व॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे । तेना॑भि॒नीयै॒व रात्रे॑: प्राच॑रन् । रात्र्या॑ ए॒व तद्दे॒वा अर्व॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे (६), इति । अनुष्ठितापसदस्ते देवा अहरभिनीयेवास्तमयात्प्रागह्नो विशिष्टं कालं प्राप्यैवाग्नीषोमीयं पशुमालभन्त । योऽयमवर्तिं जीवनार्थवृत्तिप्रतिबन्धकं पाप्मानं मृत्युसदृशं तेन पश्वालम्भेनाह्नोऽपनीय देवा विनाशितवन्तः । अभिनीयैवाहानि पशुमुपक्रम्यैव तेन पशुना रात्रेः संबन्धिनि कालविशेषेऽनुष्ठितवन्तः । तेनानुष्ठानेन देवा रात्र्याः सकाशात्तं पाप्मानमपनीय नाशितवन्तः । अत्र प्रयाजपर्यन्तस्याहन्यनुष्ठेयं शेषो रात्रावनुष्ठेय इति । एतमर्थं सूत्रकारः स्पष्टमुदाजहार--“दिवा प्रयाजै । प्रचर्य” इति । तमिममनुष्ठानप्रकारं विधत्ते- तस्मा॑दभि॒नीयै॒वाह॑: प॒शुमाल॑भेत । अह॑ ए॒व तद्यज॑मानो॒ऽ- वर्तिं॑ पा॒प्मानं॒ भ्रातृ॑व्यान॒र्पनु॑दते । तेना॑भि॒नीयै॒व रात्रे॑: प्र॒चरे॑त् । रात्र्या॑ ए॒व तद्यज॑मानो॒ऽव॑र्तिं पा॒प्मानं॑ भ्रातृ॑व्यान॒र्पनु॑दते, इति । यस्माद्देवैरनुष्ठितं तस्माद्यजमानोऽपि तथाऽनुतिष्ठेत् । देववाक्यवद्यजमानवाक्यं व्याख्येयम् । तत्र मृत्युरूपः पाप्माऽत्र तु भ्रातृव्यरूप इति विशेषः । उक्तस्य पशोर्देवतासंबंधं विधत्ते- । स ए॒ष उ॑पवस॒थीयेऽह॑न्द्विदे॒व॒त्य॑: प॒शुराल॑भ्यते । द्वयं॒ वा