तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
तैत्तिरीयब्राह्मणम् (१.५.९) २५१ अ॑पाव॒धीँ स्वाहेति॑ । अ॒श॒न॒यापि॒पा॒से ह॒ वा उ॒ग्रं वच॑: । एन॑श्च वैरह॒त्यं च॒ त्वेषं॒ वच॑: । ए॒तमे॒व तच्च॑तु॒र्धा विहि॑तं पा॒प्मानं॒ यज॑मानोऽप॑हते, इति । तदेतद्यजमानवाक्यं पूर्वोक्तदेववाक्यवद्व्याख्येयम् । उपसदनुष्ठानप्रकारं विधायानन्तरमग्नीषोमीयपश्वनुष्ठानं विधातुं प्रस्तौति- तैऽभि॒नीयै॒वाह॑: प॒शुमाल॑भन्त । अह॑ ए॒व तद्दे॒वा अर्व॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे । तेना॑भि॒नीयै॒व रात्रे॑: प्राच॑रन् । रात्र्या॑ ए॒व तद्दे॒वा अर्व॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे (६), इति । अनुष्ठितापसदस्ते देवा अहरभिनीयेवास्तमयात्प्रागह्नो विशिष्टं कालं प्राप्यैवाग्नीषोमीयं पशुमालभन्त । योऽयमवर्तिं जीवनार्थवृत्तिप्रतिबन्धकं पाप्मानं मृत्युसदृशं तेन पश्वालम्भेनाह्नोऽपनीय देवा विनाशितवन्तः । अभिनीयैवाहानि पशुमुपक्रम्यैव तेन पशुना रात्रेः संबन्धिनि कालविशेषेऽनुष्ठितवन्तः । तेनानुष्ठानेन देवा रात्र्याः सकाशात्तं पाप्मानमपनीय नाशितवन्तः । अत्र प्रयाजपर्यन्तस्याहन्यनुष्ठेयं शेषो रात्रावनुष्ठेय इति । एतमर्थं सूत्रकारः स्पष्टमुदाजहार--“दिवा प्रयाजै । प्रचर्य” इति । तमिममनुष्ठानप्रकारं विधत्ते- तस्मा॑दभि॒नीयै॒वाह॑: प॒शुमाल॑भेत । अह॑ ए॒व तद्यज॑मानो॒ऽ- वर्तिं॑ पा॒प्मानं॒ भ्रातृ॑व्यान॒र्पनु॑दते । तेना॑भि॒नीयै॒व रात्रे॑: प्र॒चरे॑त् । रात्र्या॑ ए॒व तद्यज॑मानो॒ऽव॑र्तिं पा॒प्मानं॑ भ्रातृ॑व्यान॒र्पनु॑दते, इति । यस्माद्देवैरनुष्ठितं तस्माद्यजमानोऽपि तथाऽनुतिष्ठेत् । देववाक्यवद्यजमानवाक्यं व्याख्येयम् । तत्र मृत्युरूपः पाप्माऽत्र तु भ्रातृव्यरूप इति विशेषः । उक्तस्य पशोर्देवतासंबंधं विधत्ते- । स ए॒ष उ॑पवस॒थीयेऽह॑न्द्विदे॒व॒त्य॑: प॒शुराल॑भ्यते । द्वयं॒ वा
२५२ (१.५.९) तैत्तिरीयब्राह्मणम् अ॒स्मिंल्लो॒के यज॑मानः । अस्थि॑ च मा॒ सँ च॑ । अस्थि॑ चै॒व तेने॑ मा॒ सँ च॒ यज॑मानः स ँ स्कु॑रुते, इति । यस्मिन्नहनि देवता यजमानस्य समीपे निवसति तदहरुपवसथीयम् । अत एवान्यत्राऽऽम्नायते–“उ॑पा॒स्मिञ्छ्वो यक्ष्य॑माणे देवता वसन्ति” इति । अत्राप्यग्नीषोमीयानुष्ठानादूर्ध्वदिने यजमानः सोमेन यक्ष्यते । तस्मादिदमहरुपवसथीयम् । यस्मिन्नहनि यः पशुरालभ्यः स द्विदेवत्यः । तौ च देवावग्नीषोमौ । “यदग्नीषोमीयं पशुमालभते” इत्यन्यत्राऽऽम्नानात् । यजमानस्य शरीरमप्यस्मिन्मनुष्यलोकेऽस्थिमांसद्वयात्मकं ततो द्विदेवत्येन पशुना यजमानः स्वकीयमस्थि मांसं च संस्करुते । एतत्पशुदेवताप्रसङ्गेन सवनीयपशुदेवतामग्निरूपा- मनूबन्ध्याख्यपशुदेवतां मित्रावरुणरूपां च मिलित्वा प्रशंसति- ता वा ए॒ताः पञ्च॑ दे॒वता॑: । अ॒ग्नीषोमा॑व- ग्निर्मित्रावरु॑णौ । प॒ञ्च प॒ञ्ची वै यज॑मानः । त्वङ्मा ँ स ꣳ स्नावास्थि॑ म॒ज्जा । ए॒तमे॒व तत्प॑ञ्च॒धा विहि॑तमा॒त्मानं॑ वरु॑णपा॒शान्मु॑ञ्चति । भेष॒जता॑यै निर्वरु॑णत्वाय, इति । ता वा एताः पशुदेवताः पञ्चसंख्याकाः । कास्ता इति ता उच्यन्ते । उपवसथीयेऽह्नि द्वावग्नीषोमावस्य पशोर्देवौ परेद्युः सवनेष्वग्निः सवनीयपशोर्देवः । अन्ते मित्रावरुणावनूबन्ध्याख्यपशोर्देवौ । यजमानोऽ प्यवयवपञ्चकोपेतत्वात्पञ्ची । पञ्चभिस्त्वगादिभिः पञ्चीति समासे सति पञ्चपञ्ची । अतःपशुत्रये पञ्चदेवता यजमानः पञ्चावयवोपेतं स्वदेहं वरुणपाशान्मोचयति । अतस्तद्भजनमौषधसिद्धये भवति । सा च सिद्धिर्वरुणोपद्रवपरिहाराय भवति । तस्मादेताः पञ्च देवता भजनीयाः । अथ प्रातरनुवाकाख्य ऋक्समूहे छन्दोविशेषान्विधत्ते- त ꣳ स॒प्तभि॑श्छन्दो॑भिः प्रा॒तर॑ह्वयन् । तस्मा॑त्स॒प्तच॑तुरुत्तराणि॒ च्छन्दा॑ ꣳ सि प्रातरनुवा॒केऽनू॑च्यन्ते, इति । देवास्तमिन्द्रं प्रातः काले सप्तभिश्चन्दोभिराहूतवन्तः । तस्मात्कारणात्प्रातरनुवाके गायत्रीत्रिष्टुब्जगत्याख्यानि मुख्यानि च्छन्दांसि चतुर्भिरुत्तरैरुष्णिगनुष्टुब्बृहतीपङ्क्त्याख्यैश्छन्दोभिः सहितानि प्रैषमनुवक्तव्यानि । तांश्छन्दोविशेषयुक्ता ऋच ऐतरेयब्राह्मणेऽवगन्तव्यः।
तैत्तिरीयब्राह्मणम् (१.५.९) २५३ अथ वहिष्पवमानाख्यस्य स्तोत्रस्य प्रथमामृचं विधत्ते- तमे॑तयोप॒समेत्योपा॑सीदन् । उपा॑स्मै गायत नर॒ इति॑ । तस्मा॑दे॒तया॑ बहिष्पवमा॒न उप॑सद्यः (७), इति । ऐच्छन्ननय ँ स्तिष्ठन्ते॒ऽनूच्या॑नू॒च्यं स्रुवेणा॑घा॒रमा॒घा॒र्य रात्रिया॑ ए॒व तद्दे॒वा अवे॑र्ति पा॒प्मानं॑ मृ॒त्युम॑पजघ्निरे मि॒त्रावरु॑णौ॒ नवे॑ च । [जुहुवामेत ँह देवाथों जु॒होत्येतमेव तद्य॑जमान॒स्तैऽभिनीर्य॑ दे॒वा य॑जमानो॑ देवा॑ दे॒वा य॑जमानो॒ य॑जमानःप्राच॑रन्प्रच॑र॒दाल॑भन्तालभेत॒ मृत्युम॑पजघ्निरे मि॒त्रावरु॑णौ॒ भ्रातृ॑व्यान् (१)]। इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्याये नवमोऽनुवाकः ॥ ९ ॥ देवास्तमिन्द्रमुपास्मा इत्येतयर्चा समीपे प्राप्योपाविशन् । तस्मादेतयर्चा वहिष्पवमानाख्यः स्तोत्रविशेषः सामगैरारब्धव्यः । अत मीमांसा । नवमाध्यायस्य प्रथमपादे चिन्तितम्- मन्द्रादिकमपूर्वाय परायावान्तराय वा । फलादाद्यो नो समं तल्लक्षणा तु विशिष्यते ॥ (इति) । ज्योतिष्टोमे श्रूयते-“यावत्या वाचा कामयीत तावत्या दीक्षणीयायामनुब्रूयान्मन्द्र प्रायणीयायां मन्द्रतरमातिथ्यायामुपाँ शूपसत्सूच्चैरग्नीषोमीये” इति । अत्र ध्वनेरुच्चावचभावः । परमापूर्वप्रयुक्तस्तस्य फलवत्वादिति चेत् । मैवम् । अवान्तरापूर्वेऽपि समानं फलवत्वं परमापूर्वजननद्वारेण फलसंबन्धात् समाने च फलवत्वे संनिकृष्टलक्षणया निर्णयः । तथा हि-दीक्षणीयादिशब्दा अङ्गकर्मवाचिनः । न च मन्द्रत्वादिधर्माणां कर्मस्वरूपं प्रयोजकम् । अपूर्वप्रयुक्तेर्निर्णीतत्वात् । ततो दीक्षणीयादिशब्दैरपूर्व लक्षणीयम् । तत्र स्ववाक्यगतमवान्तरापूर्वं संनिकृष्टं तद्द्वारकं परमापूर्वं विप्रकृष्टम् । तस्मादवान्तरापूर्वप्रयुक्ता एते धर्माः । अश्वमेधगतत्रैधातवी- यायाम्यूहाभावःफलम् । तथा ह्याश्वमेधे समाम्नायते-“त्रैधातवीया दीक्षणीया भवति” इति । यदि परमापूर्वप्रयुक्तं स्यात्ततस्तस्योपकार- विशेषनिबन्धन इति तत्कार्यापन्नायां त्रैधातवीयायां भविष्यति । अथाऽग्नावैष्णवापूर्वप्रयुक्तस्तदा त्रैधातवीयायां तदपूर्वं न भवति किंत्वन्यदेवेति नास्त्यूहः । दशमाध्यायस्य सप्तमपादे चिन्तितम्-
२५४ (१.५.९) तैत्तिरीयब्राह्मणम् प्रायणीयातिथ्ययोः किं विकल्पः शंय्विडान्तयोः । नियमो वा विकल्पः स्यान्निषेधपरिसंख्यया ॥ शंय्विडान्तत्वावाक्याच्च नियमो विधिमात्रतः । नित्यानुवादो नञ्वाक्यं दोषबाहुल्यमन्यथा ॥ [इति] । ज्योतिष्टोमे श्रूयते-‘शंय्वन्ता प्रायणीया संतिष्ठते न पत्नीः संयाजयन्ति’ इति । इडान्ता आतिथ्याः संतिष्ठन्ते नानुयाजान्यजति” इति । प्रकृतौ यदा होता “तच्छंयोः” ति मन्त्रं जपति तदानीमध्वर्युः परिधीनग्नौ प्रक्षिपति । तदाह कल्पसूत्रकारः-“अनूच्यमाने शंयुवाक आहवनीये परिधीन्प्रहरति” इति । ततो हविःशेषेषु भक्षितेषु पत्नीः संयाजयन्तीति क्रमः । तथा प्रधानयागानारिष्टहोम- प्राशित्रादिभक्षणेडाभक्षणानूयाजसूक्तवाकशंयुवाका इत्यधस्तनः प्रयोगक्रमः । पत्नीसंयाजानामुपरि फलीकरणहोमप्रायश्चित्त- होमकपालोद्वासनानैरिष्टः समाप्यते । एवं स्थिते विकृतिरूपायाः प्रायणीयेष्टेः । शंयुवाकान्तत्वमातिथ्येष्टेरिडाभक्षणान्तत्वं च विकल्पितं स्यात् । कुतः । निषेधवाक्यविधिवाक्याभ्यां प्रकरणद्वयप्रतीतेः । तथा हि- शंय्वन्तत्वेडान्तत्वविधिनेवोपरितनपत्नीसंयाजानूयाजनिषेधे पुनर्निषेध वचनं परिसंख्यार्थम् । पत्नीसंयाजानूयाजव्यतिरिक्ते नास्ति निषेध इति परिसंख्या । तेन प्रकृतिवद्यथाप्राप्तं कपालोद्वासनान्तत्वमनयोरिष्ट्योः प्रतीयते । विधिवाक्येन च शंय्विडान्तत्वम् । तेन व्रीहियववद्विकल्प इति प्राप्ते ब्रूमः । विधिमात्रस्यात्राप्रवृत्तेः शंय्वन्तत्वमिडान्तत्वं च तयोः प्रतिनियतम् । पत्नीसंयाजाद्यभावस्त्वर्थसिद्धः । ततो नञ्पदयुक्तमुपरितनं प्रतिषेधवाक्यं नित्यानुवादः । पत्नीसंयाजाद्यकरणाल्लाघवं भवतीति । अन्यथा बहवोदोषाः प्रसज्येरन् । विकल्पे तावदष्टौ दोषाः प्रसिद्धाः । परिसंख्यायां च त्रयो दोषाः । विधिपरिसंख्याभ्यां वाक्यभेदोपसंहारोऽपरो दोषः । ततः शंय्विडान्तत्वं नियतम् । . तत्रैव शंग्विडे पूर्वे परे वा स्वेच्छयाऽथवा । परे एवाथवा पूर्वे एवाऽऽद्यो द्विविधश्रुतेः ॥ निषेधस्यार्थवत्त्वाय परे एवानुवादगीः । पूर्वैकवाक्यतां याति पूर्वे एवाविरोधतः ॥ [इति] । प्रायणीयातिथ्ययोरेवान्तत्वेन निर्णीतं शंग्विडे पुनः संदिह्येते । प्रकृतौ द्विविधे शंग्विडे पत्नीसंयाजेभ्यः पुरस्तादुपरिष्टाच्च विहिते । ते चात्र चोदकप्राप्ते । तत्र द्विविधश्रुतेरर्थे चोदकेनातिदिष्टे सति विशेषनियामकाभावादिच्छया स्वीकार्ये इत्येकः पक्षः । यदि प्रायणीया
तैत्तिरीयब्राह्मणम् (१.५.१०) २५५ पूर्वंशंय्वन्ताऽऽतिथ्या च पूर्वेडान्ता स्यात्तदानीमन्तत्वविधिनेव ताभ्यां शंय्विडाभ्यामूर्ध्वम्प्राप्तानां पत्नीसंयाजानामनूयाजानां च वारितत्वान्निषेधो व्यर्थः स्यात् । परयोःशंय्विडयोरन्तत्वेन ताभ्यां शंय्विडाभ्यां पूर्वप्राप्तानां तेषामनिवारणात्तन्निवारणाय सार्थको निषेधः तस्मात्परं एव शंय्विडे ग्राह्ये इति द्वितीयः पक्षः । निषेधोऽयं नित्यानुवाद इत्युक्तम् । स च पूर्वयोः शंय्विडयोरन्तत्वेऽ प्येकवाक्यतामापाद्यार्थ- वादत्वेनोपपद्यते । असंजातविरोधिन्यौ हि पूर्वे शंय्विडे । तस्मात्ते एव ग्राह्ये इति राद्धान्तः । तत्रैवान्यच्चिन्तितम्- उपसत्सु निषिद्धेभ्यः शिष्टं सर्वं किमाचरेत् । यावदुक्तमुताऽऽद्योऽस्तु चोदकस्यानिवारणात् ।। सौवाघारे पुनः श्रुत्या शिष्टस्य परिसंख्यया। अपूर्वार्थत्वतो वाऽन्त्योऽनुवादोऽत्र निषेधगीः ।। [इति] । ज्योतिष्टोमे विहितासूपत्सु पठ्यते-“अपयाजास्ता अननूयाजाः” इति । तत्र निषिद्धान्प्रयाजानूयाजान्वर्जयित्वाऽवशिष्टं चोदकप्राप्तमङ्गजातं सर्वमाचरणीयमिति प्राप्ते ब्रूमः । प्रकृतौ विहित एव सौवाघारः पुनरिह विधीयते । स च चोदकप्राप्तमन्यत्सर्वमङ्गजातं परिसंचष्टे । अन्यथा पुनर्विधानवैयर्थ्यात् । ननु पुनर्विधानं प्रतिप्रसवार्थम् । अत एव श्रुतिस्तत्र सौवाधारमभावशङ्कानिराकरणपूर्वकं विदधाति, “नान्यामाहुतिं पुरस्ताज्जुहुयाद्यदन्यामाहुतिं पुरस्ताज्जुहुयादन्यन्मुखं कुर्यात्स्रुवेणाऽऽघार- माघारयति” इति । अयमर्थः-सौवाघारः सर्वत्र यज्ञस्य मुखम् । तथा सति यदि कश्चिन्मन्द उपसत्प्रयोगादौ सौवाघारमहुत्वा तस्य स्थाने कांचिदन्यामाहुतिं जुहुयात्तदा मुखव्यत्यासेन प्रत्यवायं प्राप्नुयात् । तस्मात्सौवाधार आदौ कर्तव्य इति । नैतद्युक्तम् । चोदक- प्राप्तस्याऽऽघारस्य कारणमन्तरेणाकस्माद भावशङ्काया अयुक्तत्वात् । तस्मात्परिसंख्यार्थ एव पुनर्विधिः । आहुत्यन्तरनिन्दा तु तच्छेषभूतोऽर्थवादः । यदि परिसंख्या त्रिदोषेत्युच्यते तर्हि गृहमेधीयवदपूर्व कर्मस्तु । प्रयाजादिनिषेधो नित्यानुवादः । सर्वथा यावदुक्तमत्रानुष्ठेयम् । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥ अथ पञ्चमप्रपाठके दशमोऽनुवाकः । नवमे दीक्षणीयादीनि बहिष्पवमानोपक्रमान्तानि सोमाङ्गान्युक्तानि।
२५६ (१.५.१०) तैत्तिरीयब्राह्मणम् दशमे त्रिवृदादिस्तोमस्वरूपाणि सोमाङ्गान्यनूच्यन्ते । तत्राऽऽदौ चात्वालखननं सप्रमाणं विधत्ते- स स॑मु॒द्र उत्त॑रतः प्राज्वल॒द्भूम्य॑न्तेन॑ । ए॒ष वाव स स॑मु॒द्रः । यच्चा॑त्वा॒लः। ए॒ष उ॑ वे॒व स भूम्य॑न्तः । यद्वेद्य॑न्तः । तदे॑तत्त्रिश॒लं त्रि॑पूरु॒षम् । तस्मा॑तं॒ त्रि॑वित॒स्तं ख॑नन्ति, इति । योऽयं प्रसिद्धो लवणसमुद्रः सोऽयमुत्तरस्यां दिशि भूमेरन्तिमभागेन सह कदाचित्प्रज्वलितोऽभूत् । सोऽयमत्र देवयजनभूमौ संपाद्यते । योऽयं चात्वालारख्यो गर्तोऽस्ति स एष एवात्र समुद्रस्थानीयः । योऽयं वेदेरवसानदेशःसोऽयं भूमेरवसानभागः । "एतावती वै पृथिवी यावती वेदिः" इति भूमित्वं वेदेराम्नातम् । यत्समुद्रस्य पुरुषत्रयपरिमाणमूर्ध्वं प्रज्वलनं तदेतदत्र चात्वाले त्रिशलं शललीमृगसंबन्धिरोमत्रयपरिमितं भवति । तस्य च रोम्णो वितस्तिः । परिमाणं तद्रोमत्रमत्र पुरुषत्रयरूपेणोपचर्यते । तस्मात्तं चात्वालं वितस्तित्रयपरिमितं खनेयुः । तमेतं चात्वालमादित्य रूपेण प्रशंसति- स सु॑वर्णरज॒ताभ्यां॑ कु॒शीभ्यां॒ परि॑गृहीत आसीत् । तं यद॒स्या अध्यज॑नयन् । तस्मा॑दादि॒त्यः (१) । अथ॑ यत्सु॑वर्णरज॒ताभ्यां॑ कु॒शीभ्यां॒ परि॑गृहीत् आसी॑त् । साऽस्य॑ कौशि॒कता, इति । स चात्वालः परितः सुवर्णरजतनिर्मिताभ्यां शकलाभ्यां गृहीतोऽभवत् । स्तोत्रं कुर्वाणाः सामगाः स्तोत्रावृत्तिगणनार्थं यां काष्ठशलाकां प्रादेशमात्रपरिमितं भूमौ स्थापयन्ति सेयं कुशीत्युच्यते । तादृशं सुवर्णरजतनिर्मितं कुशीद्वयं चात्वालस्यान्तिके स्थापयित्वा तस्य चात्वालस्याहोरात्रनिष्पादकेनाऽऽदित्येन साम्यं संपावितवन्तः । यस्मादस्या भूमेरध्युपरि तं चात्वालमजनयंस्तस्मादयमदितेः संबन्धित्वाद्रादित्य इत्युच्यते । कुशीद्वयपरिगृहीतत्वाच्च कौशिक इत्यपि नाम । इत्थं चात्वालं विधाय त्रिवृदादिस्तोमान्विधातुमादौ त्रिवृत्स्तोमं प्रशंसति-
तैत्तिरीयब्राह्मणम् (१.५.१०) २५७ तं त्रि॒वृता॑ऽभि॒प्रास्तु॑वत । तं त्रि॒वृता॑ऽऽद॑दत । तं त्रि॒वृता॑ऽऽहर॑न् । याव॑ती त्रि॒वृतो॒ मात्रा॑, इति । त्रिवृता तिस्रो वृत्तस्तृचरूपावयवा यस्य स्तोमस्य सोऽयं स्तोमस्त्रिवृत् । तेन स्तोमेन देवास्तमादित्यं स्तुत्वा तं स्वाधीनत्वेन समादाय स्वापेक्षिते स्थाने समाहरन् । तस्य त्रिवृत्स्तोमस्य संबन्धिनी मीयतेऽवगम्यत इति मात्रा धनादिसंपद्यावती विद्यते तावती देवैर्लब्धेति शेषः । एवमन्यानपि त्रीन्स्तोमान्प्रशंसति- तं 'पञ्चद॒शेना॑भि॒प्रास्तु॑वत । तं 'पञ्चद॒शेना॑ऽऽद॑दत । तं प॑ञ्चद॒शेना॑ऽऽहर॑न् । याव॑ती पञ्चद॒शस्य॒ मात्रा॑ (२) । त ँ स॑प्तद॒शेना॑भि॒प्रास्तु॑वत । त ँ स॑प्तद॒शेना॑ऽऽ हर॑न् । याव॑ती स॒प्तद॒शस्य॒ मात्रा॑ । तस्य॑ सप्तद॒शेन॑ ह्रियमा॑णस्य॒ तेजो॒ हरो॑ऽपतत् । तमे॑कवि॒ ँ शेना॑भि॒प्रास्तु॑वत । तमे॑कवि॒ ँ शेना॑ऽऽद॑दत । तमे॑कवि॒ ँ शे ना॑ऽऽहर॑न् । याव॑त्येकवि॒ ँ शस्य॒ मात्रा॑, इति । एकस्मिंस्तृचे वर्तमानास्तिस्र ऋचो ब्राह्मणोक्तेनाऽऽवृत्तिविशेषेण पञ्चदशसंख्याका यस्मिन्स्तोमे संपाद्यन्ते सोऽयं पञ्चदशः । एवं सप्तदशैकविंशावपि । तत्र सप्तदशस्तोमेन स्तुत्वा यदाऽऽदित्य आह्रियते तदानीं तस्य तेजः कियदप्यधोऽपतत् । यद्यपि हरःशब्देनापि तेज एवाभिधीयते तथाऽपि पौनरुक्त्यपरिहाराय लेशो लक्ष्यते । अतः कियदपीति व्याख्यातम् । अन्यत्पूर्ववद्व्याख्येयम् । ते यत्त्रि॒वृता॑ स्तु॒वतै॑ (३) । त्रि॒वृ॑तैव तद्यज॑मान॒मार्द॑दते । तं त्रि॒वृतै॑व॒ हर॑न्ति । याव॑ती त्रि॒वृतो॒ मात्रा॑ । अ॒ग्निर्वै त्रि॒वृत् । याव॑द्वा अ॒ग्नेर्दह॑तो॒ धूम उ॒देत्यानु॒व्येति॑ । ताव॑ती त्रि॒वृतो॒ मात्रा॑ । अ॒ग्नेरे॒वैनं॑ तत् । मात्रा॒ 'सायु॑ज्य॒ ँ सलो॑कतां ग॑मयन्ति, इति । त उद्गातारो यदि सोमयागे त्रिवृता स्तोमेन स्तुवीरंस्तदानीं त्रिवृत्स्तोम सामर्थ्येनैव लोकविशेषे हरन्ति । तत्र त्रिवृत्स्तोमदेवताया
२५८ (१.५.१०) तैत्तिरीयब्राह्मणम् यावती भोग्यवस्तुसंपत्तिस्तावतीमयं यजमानः प्राप्नोति । अयमेवार्थः संग्रहेण पुनरपि स्पष्टी क्रियते । अग्निरेव त्रिवृत्स्तोमाभिमानी देवः । तस्य चाग्नेररण्यादिकं दहतो दहनवेलायां धूम उद्गत्यानुक्रमेण यावन्तं देशं विविधं व्याप्नोति तावती त्रिवृत्संबन्धिनी भोगभूमिः । तस्मादुद्गातार एनं यजमानमग्नेर्मात्रामग्निदेवतासंबन्धिनीं भोगवस्तुसंपत्तिं प्रापयन्ति तथैवाग्नेः सायुज्यं सहावस्थानं प्रापयन्ति । तथैवाग्नेः संबन्धिनीं सलोकतामेकलोकावस्थानं प्रापयन्ति । अग्निसमानभोग्यवस्तुप्राप्तिरुत्तमं फलम् अग्निसमीपेऽवस्थानं मध्यमम् । अग्निलोकेऽवस्थानमधमम् । एतच्चानुष्ठानश्रद्धातारतम्येन व्यवस्थापनीयम् । इत्थं त्रिवृत्स्तोमं विधायथ त्रीनूत्तरान्स्तोमान्विधत्ते - अथ॒ यत्पं॑ञ्चद॒शेन॑ स्तु॒वतै॑ । प॒ञ्च॒द॒शेनै॒व तद्यज॑मान॒मार्द॑दते (४) । तं प॑ञ्चद॒शेनै॒व हर॑न्ति । याव॑ती पञ्चद॒शस्य॑ मात्रा॑ । च॒न्द्रमा॒ वै पं॑ञ्चद॒शः । ए॒ष हि पं॑ञ्चद॒श्याम॑पक्षी॒यतै॑ । प॒ञ्च॒द॒श्यामा॑पूर्य॒तै । च॒न्द्रम॑स ए॒वैनं॑ तत् । मात्रा॒ ँसायु॑ज्य॒ग्ँ स॒लोक॑तां गमयन्ति । अथ॒ यत्स॑प्तद॒शेन॑ स्तु॒वतै॑ । स॒प्त॒द॒शेनै॒व तद्यज॑मान॒मार्द॑दते । त ँ स॑प्तद॒शेनै॒व हर॑न्ति (५) । याव॑ती सप्तद॒शस्य॑ मात्रा॑ । प्र॒जाप॑ति॒र्वै स॑प्तद॒शः । प्र॒जाप॑तेरे॒वैनं॑ तत् । मात्रा॒ ँसायु॑ज्य ँ स॒लोक॑तां गमयन्ति । अथ॒ यदैकवि ँ शेन॑ स्तु॒वतै॑ । एक॒वि ँ शेनै॒व तद्यज॑मान॒मार्द॑दते । तमैकवि ँ शेनै॒व हर॑न्ति । याव॑त्येकवि ँशस्य॑ मात्रा॑ । अ॒सौ वा आ॑दि॒त्य एक॑वि ँशः॑ । आ॒दि॒त्यस्यै॒वैनं॑ तत् (६) । मात्रा॒ ँसायु॑ज्य ँ स॒लोक॑तां गमयन्ति, इति । यस्मादेष चन्द्रमाः कृष्णपक्षस्य पञ्चदश्याममावास्यायामपक्षीयते शुक्लपक्षस्य पञ्चदश्यां पौर्णमास्यामापूर्यते । चन्द्रमाः पञ्चदशस्तोमाभिमानी देवः । “प्रजापतेराश्रावय” इत्यादिसप्त- दशाक्षरात्मकत्वात्सप्तदशस्तोमस्वामित्वम् । अन्यत्र “द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः”
तैत्तिरीयब्राह्मणम् (१.५.१०) २५९ इत्येकविंशस्तोमपूरकत्वेनाऽऽदित्यस्याऽऽम्नातत्वादादित्य एकविंशस्तो- मस्वामी। अन्यत्सर्वं पूर्ववद्व्याख्येयम्। पुरा याभ्यां कुशीभ्यां चात्वालो देवैः परिगृहीतस्तयोः कुश्योरपनयनं दर्शयति- ते कु॒श्यौ॑। व्य॑घ्नन्। ते अ॑होरा॒त्रे अ॑भवताम्। अह॑रेव सु॒वर्ण॑ऽभवत्। र॒ज॒ता रात्रि॑:। स यदा॑दि॒त्य उ॒देति॑। ए॒तामे॒व तत्सु॒वर्णां कुशी॑मनु॒समे॑ति। अथ॒ यद॑स्त॒मेति॑। ए॒तामे॒व तद्र॑ज॒तां कुशी॑मनु॒सं वि॑शति, इति। अथ ते देवाश्चात्वालसमीपे पूर्वं स्थापिते कुश्यौ वियुज्य हतवन्तः। परित्यक्तवन्त इत्यर्थः। ते च त्यक्ते कुश्यावहोरात्ररूपे अभूताम्। तत्सुवर्णकुश्या अह्नो रूपत्वादयमादित्य उद्यंस्तां कुशीमनु सम्यक्प्रवर्तते। रजतकुश्या रात्रिरूपत्वादादित्योऽस्तं गच्छंस्तां कुशीमनुप्रविशति। तदेवमनया पूर्वोक्त्या च कुशीस्तुत्या स्तुतिकाले स्तोत्रीयाणां गणनाय कुश्यः स्थापनीयाः पश्चादपनेया इति विधिरुन्नीयते। अथ चात्वालप्रसङ्गाद बुद्धिस्थे प्रदरे कंचिन्निषेधं पुरुषार्थं दर्शयति- प्र॒ह्लादो॑ ह॒ वै का॑याध॒वः। वि॒रोच॑न॒ ँस्वं पु॒त्रमुदा॑स्यत्। स प्र॑द॒रो॑ऽभवत्। तस्मा॑त्प्रद॒रादु॑द॒कं नाऽऽचा॑मेत् (७), इति। आदित्यः 'पञ्चदशस्य मात्रां स्तुवते॑ पञ्चदशेनैव तद्यज॑मान॒माद॑दते स॒प्तद॒शेनै॒व हर॒न्त्यादि॒त्यस्यै॒वैनं॑ तद्विंशति चत्वारिं च। इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्याये दशमोऽनुवाकः ॥ १० ॥ कयाधुसंज्ञायाः स्त्रियः पुत्रः प्रह्लादः स्वकीयं पुत्रं विरोचनं केनापि निमित्तेन कुपितो हस्तेनोद्धृत्य क्वचिद्भूमावपातयत्। स भूमिप्रदेशः प्रदरश्छिद्ररूपोऽभूत्। तस्य प्रदरस्याऽऽसुरत्वात्तत्र प्रविष्टमुदकं पुरुषो नाऽऽचामेत्। तथा चाऽऽपस्तम्बः स्मरति- "न वर्षधारास्वाचामेत्तथा न प्रदरोदके" इति।
२६० (१.५.११) तैत्तिरीयब्राह्मणम् इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके दशमोऽनुवाकः ॥ १० ॥ अथ पञ्चमप्रपाठक एकादशोऽनुवाकः । दशमे त्रिवृदादिस्तोमा विहिताः । एकादशे सवनीयपशुपुरोडाशा उच्यन्ते । यदुक्तं संहितायाः षष्ठे काण्डे-“तस्मादनुसवनं पुरोडाशा निरूप्यन्ते” इति । ते पुरोडाशा अत्र प्रपञ्च्यन्ते । तत्राऽऽदौ तावज्ज्योतिष्टोमे स्तोमानांमियत्तां दर्शयति- ये वै च॒त्वारः॒ स्तोमाः॑ । कृ॒तं तत् । अथ॒ ये पञ्च॑ । क॒लिः सः । तस्मा॑च्चतुष्टोमः । तच्चतु॑ष्टोमस्य चतुष्टो॒मत्वम्, इति । पूर्वोक्तास्त्रिवृत्पञ्चदशः सप्तदश एकविंश इत्येवंरूपाः स्तोमा ये सन्ति ते कृतयुगस्य स्वरूपभूताः । कृतयुगे धर्मस्य चत्वारः पादा विद्यन्ते । ये त्वन्येन केनचित्स्तोमेन सह पञ्च स्तोमास्तेषां कलियुगरूपत्वम् । तत्र तन्मध्यगतानां चतुर्णां कृतयुगार्थत्वेन विभागे सति क्लेरसाधारणस्तोम एक एव परिशिष्यते । धर्मश्च कलियुग एकपादेव । ततः कलिस्वरूपत्वेन पञ्चस्तोमपक्षस्य निन्दितत्वा- द्यतुष्टोमपक्षस्य एक कृतयुगस्वरूपत्वेन प्रशस्तत्वादयं सोमयागश्चतुष्टोम एव कर्तव्यः । चत्वारः स्तोमा अत्रेति व्युत्पत्या सोमयागस्य चतुष्टोमत्वं संपन्नम् । अथ प्रश्नोत्तराभ्यां स्तोमानां ज्योतिष्ट्वं संपादयति- तदा॑हुः । क॒त॒मानि॒ तानि॒ ज्योतीं॑षि । य ए॒तस्य॒ स्तोमा॑ इति॑ । त्रि॒वृत्प॑ञ्चद॒शः स॑प्तद॒श एक॑वि॒शः (१) । ए॒तानि॒ वाव तानि ज्योती॑षि । य ए॒तस्य॒ स्तोमाः॑, इति । ज्योतिष्टोमनाम्येत्तस्मिन्यागे यानि ज्योतींषि स्तोमाश्च प्रतीयन्ते । सामानाधिकरण्यात्तु स्तोमानामेव ज्योतिष्ट्वमवभासते । तत्र केचित्स्तोमाः पूर्वमुदाहृताः । इतः परं य एतस्य स्तोमा ज्योतिष्ट्वार्हास्तेषु च स्तोमेषु ज्योतींषि कानीत्येवं जिज्ञासवः पप्रच्छुः । ये पूर्वमुक्तास्त्रिवृदाद्याश्चत्वारः स्तोमास्त एवैतस्य यागस्य ज्योतींषि। एतैर्हि स्तोमैर्निष्पाद्यत्वेन ज्योतिर्भिरिव यागोऽवभास्यते । अत एव सप्तमकाण्डे समाम्नातम्- “तस्मात्तज्ज्योतिरुच्यते द्वौ स्तोमौ प्रातः सवनं वहतः” इत्यादि ।
तैत्तिरीयब्राह्मणम् (१.५.११) २६१ एवं चतुष्टोमत्वं स्तोमानां ज्योतिष्टोमत्वं चाभिधायोपाऽऽख्यायिकामुखेन सवनीयपुरोडाशान्प्रपञ्चयति- सो॑ऽब्रवीत् । स॒प्तद॒शेन॒ ह्रिय॑माणो॒ व्य॑लेशिषि । भि॒षज्य॑तमेति॑ । तम॒श्विनौ॑ धा॒ना भि॑रभिषज्य॒ताम् । पू॒षा क॑र॒म्भेण॑ भार॑ती परिवा॒पेण॑ । मि॒त्रावरु॑णौ पय॒स्य॑या, इति॑ । पूर्वस्मिन्ननुवाके तस्य सप्तदशेन ह्रियमाणस्य तेजो हरोऽपतदित्यादित्यस्य तेजोहानिराम्नाता । स आदित्यो देवान्प्रत्येवमब्रवीत् । सप्तदशस्तोमेन ह्रियमाणोऽहं तेजोवियोगादलेशिषि, अल्पोऽभूवंस्तस्मान्मां भिषज्यत । एवमादित्येन प्रार्थिता देवा अश्विपूषादयः स्वस्वपरिचितेनौषधेन चिकित्सांमकुर्वन् । धाना भृष्टयवाः । करम्भो यवपिष्टमाज्यसंयुक्तम् । परिवापो लाजाः। पयस्याऽऽमिक्षा । अथ प्रश्नोत्तराभ्यां धानादीनां चतुर्णां द्रव्याणां हविषामिन्द्रदेवताकत्वं दर्शयति- तदा॑हुः (२) । यद॒श्विभ्यां॑ धा॒नाः । पू॒ष्णः क॑र॒म्भः । भार॑त्यै परिवा॒पः । मि॒त्रावरु॑णयोः पय॒स्याऽर्थ॑ । कस्मा॑देतेषा॒ ह॒विषा॒मिन्द्र॑मे॒व य॑जन्तीति॑ । ए॒ता ह्यै॑नं दे॒वता॑ इति॑ ब्रूयात् । ए॒तैर्हविर्भि॑रभि॒षज्य॒ ँ स्स्तस्मा॒दिति॑, इति॑ । पूर्वोक्तरीत्या धानादीन्यश्विन्यादिदेवसंबन्धीनि द्रव्याणि । तथा सति होमकालेऽश्विन्यादिदेवताः परित्यज्य कस्मात्कारणादेतेषां हविषामिन्द्रदेवस्वामित्वं कृत्वा यजमाना यजन्तीत्येवं वेदवादिनः पप्रच्छ । अत्राभिज्ञ उत्तरमेवं ब्रूयात् । यस्मादेताः सर्वा देवता एनमिन्द्रमुपजीवन्तीति शेषः । तस्मादिन्द्रस्यैव धानादिहविः स्वामित्वं युक्तम्। एतैरैवेन्द्रस्वामिकैर्हविभिरश्विपूषादिदेवा आदित्यस्य चिकित्सां कृतवन्तः । अत एव सूत्रकार इन्द्रविषयमेव प्रैषमन्त्रमुदाजहार- सर्वेषां पुरोडाशानां जुह्वां देवतानि समवद्यत्युपभात सौविष्टकृतानि प्रातः प्रातः सवस्येन्द्राय पुरोडाशानामनुब्रूहि" इति । धानादिहविश्चतुष्टयं प्रशस्य पञ्चमं पुरोडाशाख्यं हविः प्रशंसति- तं वस॑वो॒ऽष्टाक॑पालेन प्रातः सव॒नेऽभि॑षज्यन् । रु॒द्रा
२६२ (१.५.११) तैत्तिरीयब्राह्मणम् एका॑दशकपालेन॒ माध्यं॑दिने॒ सव॑ने । विश्वे॑ दे॒वा द्वाद॑शकपालेन तृती॑यसव॒ने (३), इति । तमादित्यम् । न चात्रेन्द्रस्य स्तोतव्यत्वे सति भेषज्येना- ऽऽदित्यस्तुतिस्युक्तेति वाच्यम् । इन्द्रस्यैव मूर्त्यन्तरं स्वीकृत्याऽऽदित्यरूपेणावस्थितत्वात् । अथवाऽदितेः पुत्र इति व्युत्पत्त्याऽऽदित्यशब्देनेन्द्र एव विवक्षित इति गमयितव्यम् । अत्रोक्तार्थवादानुसारेण सवनत्रये विलक्षणपुरोडाश- प्राप्तावन्वयव्यतिरेकाभ्यां तद्वारयति- स यद॒ष्टाक॑पालाना॒न्प्रातः सव॑ने कु॒र्यात् । एका॑दशकपालानान्माध्यं॑दिने सव॑ने । द्वाद॑शकपाला ँ स्तृती॑यसवने । विलो॑म॒ तद्य॒ज्ञस्य॑ क्रियेत । एका॑दशकपालाने॒व प्रातः सव॑ने कुर्यात् । एका॑दशकपालानान्माध्यं॑दिने सव॑ने । एका॑दशकपाला ँ स्तृती॑यसवने । य॒ज्ञस्य॑ सलोम॒त्वाय॑, इति अत्र पुरोडाशार्थानि यानि कपालानि तेषां वैलक्षण्यं यज्ञस्य विलोमत्वमैकविध्यत्वं सलोमत्वं तदिदं पक्षद्वयं सूत्रकार आह-“अष्टौ पुरोडाशकपालान्येकादश माध्यंदिने द्वादश तृतीयसवने सवनेन्द्रानैकादशकपालाननुसवनमेके समामनन्ति” इति । पूर्ववदत्रापि प्रश्नोत्तराभ्यां पुरोडाशानामिन्द्रदेवताकत्वं दर्शयति- तदा॑हुः । यद्वसूं॑नां॒ प्रातः सव॑नम् । रु॒द्राणां॒ माध्यं॑दिनँ सव॑नम् । विश्वे॑षां दे॒वानां॑ तृती॑यसव॒नम् । अथ॒ कस्मा॑देतेषा॒ ह॒विषा॒मिन्द्र॑मेव य॑जन्तीति॑ । ए॒ता ह्ये॑नं दे॒वता॑ इति॑ ब्रूयात् । ए॒तैर्ह्यवि॒र्भि॑रभिषज्य॒ ँस्तस्मा॒दिति॑ (४), इति । एका॑वि ँश आहुस्तृती॑यसव॒ने प्रा॒तः सव॑नं पञ्च॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्याये एकादशोऽनुवाकः ॥ ११ ॥ धानादिवाक्यात्पुरोडाशवाक्यं व्याख्येयम् । यद्यपि न धानादयः पुरोडाशास्तथाऽपि पुरोडाशसाहचर्याच्छत्रिन्यायेन पुरोडाश इति व्यवहारः । यथैकस्मिन्नैव च्छत्रिणि सत्यापि च्छत्रिणो गच्छन्तीति सर्वेषु च्छत्रित्वव्यवहारस्तद्वत् । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके एकादशोऽनुवाकः ॥ ११ ॥
तैत्तिरीयब्राह्मणम् [१.५.१२] २६३ अथ पञ्चमप्रपाठके द्वादशोऽनुवाकः एकादशे सवनीयपुरोडाशः प्रपञ्चिताः । अथ द्वादशे सप्त च्छन्दांसि प्रपञ्च्यन्ते । तत्राऽऽदौ श्रायन्तीयवारवन्तीयनामनिरुक्तिद्वारा प्रशंसति- तस्या॒ वाचो॑ऽवपा॒दाद॑बिभयुः। तमे॒तेषु॑ स॒प्तसु॒ च्छन्द॑:- स्वश्रयन् । यदश्र॑यन् तच्छा॑य॒न्तीय॑स्य श्रायन्ती॒यत्वम्॑ । यदवा॑रयन् । यद्वा॑र॒वन्ती॑यस्य वारवन्ती॒यत्वम्॑ । इति । योऽयमादित्य आकाशमार्गे संचरति सोऽयमृधस्तात्पतिष्यतीत्येवं तस्याऽऽदित्यस्याधोदेशविषयात्पाताद्भीता देवास्तत्पातपरिहाराय तमादित्यमेतेषु गायत्र्यादिषु सप्तसु च्छन्दःसु स्थापितवन्तः। यस्माद्देवाश्छन्दांस्याश्रितवन्तस्तस्मात्तेषु च्छन्दःसु गीयमानस्य सामविशेषस्य श्रायन्तीयं नाम संपन्नम् । यस्माच्छन्दः स्वाहित्यं स्थापयित्वा तस्याधः पातं निवारितवन्तस्तस्मात्तेषु च्छन्दःसु गातव्यस्य सामविशेषस्य वारवन्तीयं नाम संपन्नम् । स्तोत्रकर्मसाधनानां श्रायन्तीयादिसाम्नामाधारत्वाच्छन्दांसि प्रशस्तानीत्यर्थः । तेषु च्छन्दःसु बृहतीं विशेषेण प्रशंसति- तस्या॒ वाच॑ ए॒वाव॑पा॒दाद॑बिभयुः। तस्मा॑ ए॒तानि॑ स॒प्त च॑तुरुत्त॒राणि॒ च्छन्दाँ॑स्युपा॑दधुः । तेषा॑मत्ति त्रीण्य॑रिच्यन्त । न त्रीण्युद॑भवन् (१) । स बृ॒ह॒तीमे॒वास्पृ॑शत् । द्वाभ्या॑म॒क्षरा॑भ्याम् । अ॒हो॒रा॒त्राभ्या॑मे॒व, इति । च्छन्दः स्वाहित्यं स्थापयित्वाऽपि तेषां च्छन्दसां न्यूनाधिकभावेन कार्यक्षमत्वाभावमाशङ्कमाना देवाः पुनरादित्यपाताद्भीताः सन्तस्तेष्वेव च्छन्दःसु कार्यक्षममेकं छन्दोऽन्विच्छन्तस्तानि सप्तापि च्छन्दांस्यादित्यसमीपे स्थापितवन्तः । चत्वार्युष्णिग- नुष्टुप्पङ्क्तिबृहत्येतान्युत्तराणि येषां गायत्रीत्रिष्टुब्जगतीत्येषां प्रसिद्धानां मुख्यच्छन्दसां तानि मुख्यच्छन्दांसि चतुरुत्तराणि तानि च मिलित्वा सप्तसंख्याकानि तेषां सप्तानां मध्ये त्रीणि पङ्क्तित्रिष्टुब्जगतीत्येतान्यत्यरिच्यन्त । यदा बृहतीं कृत्वा गानं क्रियते तदानीमेतेष्वक्षराण्यधिकानि भवेयुः । तर्थी त्रीणि गायत्र्युष्णिगनुष्टुबित्येतानि नोद्भवन्नोद्भूतानि बृहतीं पूरयितुं न
२६४ (१.५.१२) तैत्तिरीयब्राह्मणम् समर्थानि । कैश्चिदक्षरैर्न्यूनत्वात् । स च न्यूनाधिकभावः श्रुत्यैव दर्शयिष्यते । तदानीं स आदित्यस्तानि षडपि च्छन्दांसि परित्यज्य बृहतीमेवस्वकार्यक्षमियमित्थेवं स्पृष्टवान् । सा च बृहती स्वकार्येषु षट् त्रिंशदक्षरेषु द्वे एवाक्षरे अहोरात्ररूपतामापाद्य ताभ्यामादित्यस्योपकरोति । तावताऽधः प॑तिभीतिर्निवृत्ता । अथ प्रश्नोत्तराभ्यां बृहतीमहिमानं दर्शयति- तदा॑हुः । क॒तमा सा दे॒वाक्ष॑रा बृह॒ती । यस्यां॑ तत्प्र॒त्यति॑ष्ठत् । द्वाद॑श पौर्णमा॒स्य॑ः । द्वाद॒शाष्ट॑काः । द्वाद॑शामावा॒स्या॑ः । ए॒षा वाव सा दे॒वाक्ष॑रा बृह॒ती (२) । यस्यां॑ तत्प्र॒त्यति॑ष्ठ॒दिति॑, इति । बृहती द्विविधा-शब्दात्मिका देवतात्मिका चेति । तस्या अवयवभूतान्यक्षराणि च द्विविधानि- शब्दात्मकानि देवतात्मकानि च । न क्षरत्येभिर्द्विविधैरवयवैरिति व्युत्पत्या द्विविधा अप्यवयवा अक्षरशब्दवाच्याः । तत्र शब्दात्मकाक्षरावयवाः “पुनानः सोम” इत्यादिश्वृक्षु प्रसिद्धः । देवतारूपाक्षरावयवैर्युक्ता देवतारूपा या बृहती तस्यामादित्यमण्डलं प्रतिष्ठितम् । सा च बृहती तदवयवाश्च कीदृशीति पप्रच्छुः । तत्राभिज्ञ उत्तरं ब्रूते । पौर्णमास्यः कृष्णाष्टम्योऽमावास्याश्च संवत्सरगताः सर्वा मिलित्वा देवतारूपा अक्षरावयवाः । तत्संघारूपेयं बृहती देवताऽऽदित्यमण्डलस्याऽऽधारभूता । तया धारितमादित्यमण्डलमधो न पततीति स्तोत्रगानकाले भावनार्थमिदं देवतारूपं निरूप्यते । अथ देवतारूपाणां छन्दसां संवादमुखेन सर्वेषां प्रशस्तं बृहतीरूपत्वं संपादयति- यानि॑ च॒ च्छन्दा ँ'स्यत्यरि॑च्यन्त । यानि॑ च॒ नोद भ॑वन् । तानि॒ निर्वी॑र्याणि ही॒नान्य॑मन्यन्त । साऽब्र॑वीद् बृह॒ती । मामे॒व भू॒त्वा । मामुप॒स ँ' श्र॑ यतेति॑ । च॒तुर्भि॑रक्षरै॑रनु॒ष्टुब्बृ॑ह॒तीं नोद॑भवत् । च॒तुर्भि॑रक्षरैः प॒ङ्क्तिर्बृ॑ह॒तीमत्य॑रिच्यत । तस्या॑मे॒तानि॑
तैत्तिरीयब्राह्मणम् (१.५.१२) २६५ च॒त्वार्य॑क्ष॒राण्यप॑च्छि॒द्याऽऽद॑धात् (३) । ते बृ॒ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒सर्म॑श्रयताम्, इति । यानि पङ्क्त्यादीनि बृहत्या अधिकाक्षराणि यानि चानुष्टुबादीनि बृहतीं पूरयितुं न पर्याप्तानि तानि द्विविधान्यपि स्वमनस्येवममन्यन्त । वयं निर्वीर्याणि बृहतीकार्यं संपादयितुमसमर्थान्यतो हीनान्यधामानीति । तेषां खेदं दृष्ट्वा तत्परिहारोपायं सा बृहती देवताऽ ब्रवीत् । ह छन्दांसि यूयं मामेव भूत्वा प्राप्य मदीयामेवाक्षरसंख्यां धृत्वेत्यर्थः । ततो मामुपेत्य सम्यक्सेवध्वमिति । तत्रानुष्टुभो द्वात्रिंशदक्षरत्वाद् बृहत्याः षट्- त्रिंशदक्षरत्वाच्चतुर्भिरक्षरैरियमनुष्टुब्धृहतीं पूरयितुं न समर्था । पङ्क्तेः पञ्चभिः पादैरुपेतत्वादेकैकस्य पादस्याष्टाक्षरत्वे सति चत्वारिंशदक्षरा पङ्क्तिः संपद्यते । चतुर्भिरक्षरैः पङ्क्तिर्बृहत्या अधिका । तस्यां पङ्क्तौ विद्यमानान्येतानि चत्वार्यधिकाक्षराण्यपच्छिद्येयं बृहती न्यूनायामनुष्टुभि स्थापितवती । ततस्ते पङ्क्त्यनुष्टुभौ बृहत्यावेव भूत्वा तां बृहतीमुपेत्य सम्यगसेवेताम् । एकस्य न्यूनाधिकयुग्मस्य बृहतीत्वं संपादितम् । अथान्ययोर्युग्म्योरपि तत्संपादयति- अ॒ष्टाभि॑र॒क्षरै॑रु॒ष्णिग्बृ॑ह॒तीं नोद॑भवत् । अ॒ष्टाभि॑र॒क्षरै॑- स्त्रि॒ष्टुग्बृ॑ह॒तीमत्य॑रिच्यत । तस्या॑मे॒तान्य॒ष्टाव॒क्षरा॑ण्य प॑च्छि॒द्याऽऽद॑धात् । ते बृ॒ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒सर्म॑श्रयताम् । द्वाद॑शभि॑र॒क्षरै॒र्गाय॒त्री बृ॒ह॒तीनाद॑भवत् । द्वाद॑शभि॑र॒क्षरै॒र्जग॑ती बृ॒ह॒तीमत्य॑रिच्यत । तस्या॑मे॒तानि॒ द्वाद॑शा॒क्षरा॑ण्यप॒च्छिद्या॑ऽऽदधात् (४) । ते बृ॒ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒सर्म॑श्रयताम्, इति । उष्णिगष्टाविंशत्यक्षरा प्रसिद्धमन्यत् । अथानुसंधानार्थं रथरूपकं परिकल्पयति- सो॑ऽब्रवीत्प्र॒जाप॑तिः । छन्दा॑ ँ सि॒ रथो॑ मे भवत॒ । यु॒ष्माभि॑र॒हमे॒तमध्वान॒मनु॑संच॒राणीति॑ । तस्य॑ गाय॒त्री च॒ जग॑ती च प॒क्षाव॑भवताम् । उ॒ष्णिच् च॑ त्रि॒ष्टुप् च॑ प्र॒ष्टी॑ । अनु॒ष्टुप् च॑ प॒ङ्क्तिश्च॒ धुर्यौ॑ । बृ॒ह॒त्यै॑वोद्धिर॑भवत् । स ए॒तं
२६६ (१.५.१२) तैत्तिरीयब्राह्मणम् छन्दो॑रथ॒मास्था॑य । ए॒तमध्वा॑न॒मनु॒सम॑चरत् । ए॒त ँह॒ वै छन्दो॑रथ॒मास्था॑य । ए॒तमध्वा॑न॒मनु॒संच॑रति । येनै॑ष ए॒तत्संचर॑ति । य ए॒वं वि॒द्वान्त्सोमे॑न॒ यज॑ते । य उ॑ चैनमे॒वं वैद॑ (५), इति । अभवन्वाव सा देवाक्षरा बृ॒ह्त्य॑दधा॒द्द्वाद॑शा॒क्षरा॑ण्य- पृ॒च्छ॒द्यो॑द॒धादा॒स्थाय॒ षट् च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्याये द्वादशोऽनुवाकः ॥ १२ ॥ अग्नेः कृत्तिका यत्पुण्यं देवस्य॑ सवि॒तुर्ब्रह्मवादिनः कत्य॒तमेव दे॒वा वा आ॑यु॑ष॒ इन्द्रो॑ दधीचो दे॒वासु॑राः स प्र॒जाप॑तिः स स॑मु॒द्रो ये॑ वै च॒त्वार॒स्तस्या॑ वा॒चो द्वाद॑श । अग्नेः कृत्तिका॑ देवगृहा वा ऋ॒तम॑व॒र्ध्यामैव ति॒स्रः परा॑ची॒र्यवै च॒त्वारो॒ नव॑पञ्चाशत् । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमोऽध्यायः ॥ ५ ॥ स प्रजापतिरादित्यरूपेणाऽऽकाशमार्गे गन्तुमेवमुवाच । हे छन्दांसि गायत्र्यादीनि यूयं मदर्थं रथाकारं प्राप्नुत । रथाकारैर्युष्माभिरहमेत- माकाशाध्वानमनुदिनं संचराणीति । ततस्तस्य प्रजापतेर्गमनार्थं गायत्रीजगत्यौ पक्षौ रथस्य चक्रे अभवताम् । उष्णिक्त्रिष्टुभौ प्रष्ट्यावीषारूपे दीर्घकाष्ठे अभवताम् । अनुष्टुप्पङ्क्त्यौ धुरि योजनीयावश्वावभवताम् । बृह्त्येबोद्धिरूर्ध्वस्थापनीय पीठसमानोप- वेशनफलकरूपाऽभूत् । स प्रजापतिस्तादृशं रथमारुह्यानुदिनमेतन्मार्गं संचरति । यः पुमानेवं रथमनुसंदधानः सोमेन यजते यश्चैनं रथमेवं ध्यायति स एष उभयविधोऽपि पुरुषो येनाध्वनैष प्रजापतिरेतद् दृश्यमानं स्थानं संचरति तमेतमेवाध्वानं छन्दोरथामरूढोऽनुदिनं संचरति। अत्रैवं विद्वाञ्त्सोमेन यजत इति वाक्य एवं शब्देन देवासुरा इत्याद्यनुवाक- चतुष्टयोक्तः साङ्गः सोमयागाकारः परामृश्यते । अतोऽयं सोमयागस्य प्रयोगविधिर्द्रष्टव्यः। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥ अथास्य प्रपाठकस्य़ानुवाकार्थः संगृह्यते- नक्षत्राख्येष्टकाः मन्त्राः पञ्चमाद्ये समीरिताः ।
ब्राह्मणं राजसूयस्य प्रोक्तं षष्ठे च सप्तमे ॥
तैत्तिरीयब्राह्मणम् (१५.१२) २६७ नक्षत्रद्वारकः पुण्यः काल उक्तो द्वितीयेके ॥ हेयाहेयावहर्भागौ तृतीये समुदीरितौ । तुर्ये पात्रोक्तिरन्यस्मिन्मन्त्रा वपनगाः श्रुताः ॥ षष्ठे तद्ब्राह्मणं मन्त्रा इष्टकार्था द्वयोः श्रुताः॥ चतुर्षु नवमाद्येषु साङ्गः सोम उदीरितः ॥ औपानुवाक्यरूपः स्यात्पञ्चमोऽयं प्रपाठकः । ब्राह्मणं राजसूयस्य प्रोक्तं षष्ठे च सप्तमे ॥ अष्टमे संहितायां तु समन्त्रा विधयः श्रुताः। विधिव्याख्यानरूपत्वादनुब्राह्मणमुच्यते ॥ प्रतिप्रपाठकं तत्रानुवाका दश वर्णिताः । षष्ठस्याऽऽद्येऽनुमत्याद्या इष्टयोऽथ द्वितीयेके ॥ वरुणस्य प्रघासाः स्युस्तुर्ये शेषस्तु पञ्चमे ॥ साकमेधास्तु षष्ठे स्युस्तच्छेषः सप्तमे भवेत् । अष्टमे पितृयज्ञः स्यात्तच्छेषो नवमे स्मृतः ॥ दशमे त्र्यम्बकाणि स्युरिति षष्ठः समापितः । सप्तमाद्ये शुनासीरीयेन्द्रतुर्ये उभे तथा ॥ पञ्चाध्मीयमपामार्गहोमाश्चत्वार ईरिताः ॥ द्वितीये देविकादीनि तृतीये रत्निनां हविः ॥ तुर्ये हविर्देवसुवां पञ्चमे तु जलाहृतिः । षष्ठे स्याजलसंस्कारो दिग्विजयध्यानमुत्तरे ॥ अभिषेकोऽष्टमे प्रोक्तो रथारोहणमुत्तरे । दशमे सेव्यते सर्वैः सप्तमोऽयं प्रपाठकः ॥ अष्टमाद्ये हवींषि स्युः संसृपां दशपेयकः । द्वितीये वेष्टयोऽ यस्मिंश्चतुर्थे प्रयुजां हविः ॥ सौत्रामणिर्द्वयोः प्रोक्तः पवित्रा हस्तु सप्तमे । अभिषेच्योऽप्यष्टमे तु विशेषः साममन्त्रयोः ॥ शेषोऽभिषेकगेऽन्यस्मिन्दशमे तु द्विरात्रकः । क्षत्रस्य धृतिरित्येवमष्टमोऽयं प्रपाठकः । अक्षरार्थः संहितायां तन्मन्त्रविधिभिः सह ।
२६८ (१.६.१) तैत्तिरीयब्राह्मणम् व्याख्यातोऽवेक्ष्यतां तत्र काण्डोऽत्र समापितः ॥ वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे पञ्चमषष्ठसप्तमाष्टमप्रपाठकाः समाप्ताः ॥ ५ ॥ ६ ॥ ७ ॥ ८ ॥ इति श्रीराजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्रीवीरबुक्कराज- ज्ञापालकेन माधवामात्येन विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीय- तैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डः समाप्तः॥ १ ॥ (मूलक्रमेण-अष्ट.-१ अध्या. ५ अनु. १२ (४८) । (भाष्यक्रमेण- का. १ प्रपा. ८ अनु. ४२ (६८) । अथ प्रथमाष्टके षष्ठः प्रपाठकः । तत्र प्रथमोऽनुवाकः । अनु॑मत्यै पुरोडाश॑म॒ष्टाक॑पालं॒ निर्व॑पति । ये प्र॒त्यञ्च॑: शम्या॑या अ॒वशीर्य॑न्ते । तन्नैऋ॑तमेक॑कपालम् । इ॒यं वा अनु॑मतिः। इ॒यं निर्ऋ॑तिः । नैऋ॑ते॒न पूर्वे॑ण॒ प्रच॑रति। पा॒प्मान॑मे॒व निर्ऋ॑तिं पू॒र्वां निरव॑दयते । एक॑कपालो भव॑ति । एक॑धैव निर्ऋ॑तिं॒ निरव॑दयते । यदहु॑त्वा॒ गार्ह॑पत्य ईयुः (१)। रुद्रो भू॒त्वाऽग्नि॒रनूत्थाय॑ । अ॒ध्व॒र्युं च॒ यज॑मानं च ह॑न्यात् । वी॒हि स्वाहाऽऽहु॑तिं जुषा॒ण इत्या॑ह । आहु॑त्यै॒वैन॑ ँ शमयति । नार्ति॒मार्छ॒त्यध्व॒र्युर्न यज॑मानः। एकोल्मु॒कं न॑यन्ति । तद्धि निर्ऋ॑त्यै भा॒ग॒धेय॑म् । इ॒मां दिशं॑ नयति । ए॒षा वै निर्ऋ॑त्यै॒ दिक् । स्वाया॑मे॒व दिशि॒ निर्ऋ॑तिं निरव॑दयते (२) स्वकृ॑त इरि॑णे जुहोति प्र॒दरे॒ वा॑ । ए॒तद्वै निर्ऋ॑त्या आ॒यत॑नम् । स्व ए॒वाऽऽयत॑ने॒ निर्ऋ॑तिं
तैत्तिरीयब्राह्मणम् (१.६.१) २६९ नि॒रव॑दयते । ए॒ष ते॑ निर्ऋ॑ते भा॒ग इत्या॑ह । निर्दि॑श- त्ये॒वैना॑म् । भू॒तै ह॒विष्म॑त्यसीत्या॑ह । भूमि॑मे॒वोपाव॑र्तते । ञ्चेमम॒ हँस॒ इत्या॑ह । अ ँह॑स ए॒वैनं॑ मुञ्चति । अ॒ङ्गुष्ठाभ्यां॑ जुहोति(३)। अ॒न्तत॑ एव निर्ऋतिं॒ निर॑वदयते । कृ॒ष्णं वास॑: कृ॒ष्णतू॑षं दक्षि॑णा । ए॒तद्वै निर्ऋ॑त्यै रू॒पम् । रूपेणै॒व निर्ऋ॑तिं निर॑वदयते । अप्र॑तीक्षम॒ार्यन्ति॑ । निर्ऋत्या अ॒न्तर्हि॑त्यै स्वाहा॒ नमो॒ य इदं च॒कारेति॑ पुन॒रेत्य॑ गार्हपत्ये जुहोति । आहुत्या॑यैव नम॒स्यन्तो॒ गार्ह॑पत्यमु॒पाव॑र्तन्ते । आ॒नु॒म॒तेन॑ प्र॒चर॑ति । इ॒यं वा अनु॑मतिः (४) इ॒यमे॒वास्मै॑ रा॒ज्यमनु॑मन्यते । धे॒नुर्दक्षि॑णा । इ॒मामे॒व धे॒नुं कुरु॑ते । आ॒दि॒त्यं च॒रुं निर्व॑पति । उ॒भयी॑ष्वे॒व प्र॒जास्वा॒भिषि॑च्यते । दैवी॑षु च॒ मानु॑षीषु च । व॒रो दक्षि॑णा । व॒रो हि राज्यं॑ ँ समृद्ध्यै॑ । आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपालं॒ निर्व॑पति । अ॒ग्निः सर्वा॑ दे॒वता॑: । (५) । विष्णु॑र्य॒ज्ञः । दे॒वता॑श्चैव य॒ज्ञं चाव॑रुन्धे । वा॒म॒नो व॒ही दक्षि॑णा । यद्व॒ही । तेना॑ऽऽग्ने॒यः। यद्वा॑म॒नः । तेन॑ वै॒ष्ण॒वः समृद्धयै । अग्नीषोमीयमेका॑दशकपालं॒ निर्व॑पति । अग्नीषोमा॑भ्यां वा इन्द्रो॑ वृ॒त्रमह॑न्निति । यद॑ग्नीषोमी॒यमेका॑दशकपालं निर्व॑पति (६) । वार्त्र॑घ्नमे॒व विजि॑त्यै॒ हिर॑ण्यं दक्षि॑णा समृद्ध्यै॑ । इन्द्रो॑ वृ॒त्र ँह॒त्वा । दे॒वता॑भिश्चेन्द्रि॑येण च व्या॑र्ध्यत । स ए॒तमै॑न्द्रा॒ग्नमेका॑दशकपालमपश्यत् । तं निर॑वपत् । तेन॒ वै स दे॒वता॑श्चेन्द्रि॒यं चावा॑रुन्धे । यदै॑न्द्राग्नमेका॑दशकपालं॒ निर्व॑पति । दे॒वता॑श्चैव तेनै॑न्द्रि॒य च॒ यज॑मानोऽव॑रुन्धे । ऋ॒ष॒भो॒.वही दक्षि॑णा (७) । यद्व॒ही तेना॑ऽऽग्ने॒यः । यदृ॑ष॒भः । तेनै॑न्द्रः. समृद्धयै आ॒ग्ने॒यम॑ष्टाक॑पालं॒ निर्व॑पति । ऐ॒न्द्रं दधि॑ । यदा॑ऽऽग्ने॒यो
भव॑ति । अ॒ग्निर्वै य॒ज्ञमु॒खम् । य॒ज्ञमु॒खमे॒वर्धि॑ पु॒रस्ता॑द्धत्ते । यदै॒न्द्रं दधि॑ (८) । इ॒न्द्रि॒यमे॒वाव॑रुन्थे । ऋषभो व॒ही दक्षि॑णा । यद्व॒ही । तेना॑ऽऽग्ने॒यः । यदृ॑ष॒भः। तेनै॒न्द्रः समृ॑द्ध्यै । याव॑ती॒र्वै प्र॒जा ओष॑धीना॒महु॑ताना॒माशन॑न् । ताः परा॑भवन् । आ॒ग्र॒य॒णं भव॑ति हु॒ताद्या॑य । यज॑मान॒स्याप॑राभावाय (९) दे॒वा वा ओष॑धीषू॒र्जिम॑युः । ता इन्द्रा॒ग्नी उदै॑जयताम् । तावे॒तमै॑न्द्रा॒ग्नं द्वाद॑शकपालं निर॑वृणाताम् । यदै॑न्द्रा॒ग्नो भव॑त्यू॒र्जित्यै॑ । द्वाद॑शकपालो भव॑ति । द्वाद॑श॒ मासा॑: संवत्स॒रः । सं॒व॒त्स॒रेणै॒वास्मा॒ अन्न॒मव॑रुन्धे । वै॒श्व॒दे॒वश्च॒रुर्भव॑ति । वै॒श्व॒दे॒वं वा अन्न॑म् । अन्न॑ मे॒वास्मै॑ स्वदयति (१०) । प्र॑थ॒मजो व॒त्सो दक्षि॑णा॒ समृ॑द्ध्यै । सौ॒म्य ँश्या॑मा॒कं च॒रुं निर्व॑पति । सोमो॒ वा अ॑कृष्ट॒प॒च्यस्य॒ राजा॑ । अ॒कृष्ट॑प॒च्यमे॒वास्मै॑ स्वदयति । वासो॒ दक्षि॑णा । सौ॒म्य ँहि दे॒वत॑या॒ वास॑: समृ॑द्ध्यै । सर॑स्वत्यै च॒रुं निर्व॑पति । सर॑स्वते च॒रुम् । मि॒थु॒नमे॒वाव॑रुन्धे । मि॒थु॒नौ गा॒वौ दक्षि॑णा॒ समृ॑द्ध्यै । ए॒ति॒ वा ए॒ष य॒ज्ञमु॒खाद्योऽर्द्धा॑: । योऽग्नेर्देव॑ता॒या एति॑ । अ॒ष्टावे॒ तानि॑ ह॒वी ँ षि॑ भव॒न्ति । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्रोऽग्निः॑ । तेनै॒व य॒ज्ञमु॒खाद्योऽर्द्धा॒ द्या अ॒ग्नेर्देव॑ता यैर्नैति॑ (११), [इति १] ईयु॒र्निर्व॑दयते॒ऽङ्गुष्ठाभ्यां॑ जु॒होत्यनु॑मतिर्दे॒वता॑ निर्वप॑ति वही दक्षि॑णा यदै॒न्द्रं दध्य॑प रामावाय स्वदय॑ति गा॒वौ दक्षि॑णा समृ॑द्ध्यै षट् च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके षष्ठाध्याये प्रथमोऽनुवाकः ॥ १ ॥ अथ षष्ठप्रपाठके द्वितीयोऽनुवाकः । वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑तिः प्र॒जा असृ॑जत । ताः सृ॒ष्टा न