तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 285, कुल 345 में से
संदर्भ में पढ़ें२५६ (१.५.१०) तैत्तिरीयब्राह्मणम् दशमे त्रिवृदादिस्तोमस्वरूपाणि सोमाङ्गान्यनूच्यन्ते । तत्राऽऽदौ चात्वालखननं सप्रमाणं विधत्ते- स स॑मु॒द्र उत्त॑रतः प्राज्वल॒द्भूम्य॑न्तेन॑ । ए॒ष वाव स स॑मु॒द्रः । यच्चा॑त्वा॒लः। ए॒ष उ॑ वे॒व स भूम्य॑न्तः । यद्वेद्य॑न्तः । तदे॑तत्त्रिश॒लं त्रि॑पूरु॒षम् । तस्मा॑तं॒ त्रि॑वित॒स्तं ख॑नन्ति, इति । योऽयं प्रसिद्धो लवणसमुद्रः सोऽयमुत्तरस्यां दिशि भूमेरन्तिमभागेन सह कदाचित्प्रज्वलितोऽभूत् । सोऽयमत्र देवयजनभूमौ संपाद्यते । योऽयं चात्वालारख्यो गर्तोऽस्ति स एष एवात्र समुद्रस्थानीयः । योऽयं वेदेरवसानदेशःसोऽयं भूमेरवसानभागः । "एतावती वै पृथिवी यावती वेदिः" इति भूमित्वं वेदेराम्नातम् । यत्समुद्रस्य पुरुषत्रयपरिमाणमूर्ध्वं प्रज्वलनं तदेतदत्र चात्वाले त्रिशलं शललीमृगसंबन्धिरोमत्रयपरिमितं भवति । तस्य च रोम्णो वितस्तिः । परिमाणं तद्रोमत्रमत्र पुरुषत्रयरूपेणोपचर्यते । तस्मात्तं चात्वालं वितस्तित्रयपरिमितं खनेयुः । तमेतं चात्वालमादित्य रूपेण प्रशंसति- स सु॑वर्णरज॒ताभ्यां॑ कु॒शीभ्यां॒ परि॑गृहीत आसीत् । तं यद॒स्या अध्यज॑नयन् । तस्मा॑दादि॒त्यः (१) । अथ॑ यत्सु॑वर्णरज॒ताभ्यां॑ कु॒शीभ्यां॒ परि॑गृहीत् आसी॑त् । साऽस्य॑ कौशि॒कता, इति । स चात्वालः परितः सुवर्णरजतनिर्मिताभ्यां शकलाभ्यां गृहीतोऽभवत् । स्तोत्रं कुर्वाणाः सामगाः स्तोत्रावृत्तिगणनार्थं यां काष्ठशलाकां प्रादेशमात्रपरिमितं भूमौ स्थापयन्ति सेयं कुशीत्युच्यते । तादृशं सुवर्णरजतनिर्मितं कुशीद्वयं चात्वालस्यान्तिके स्थापयित्वा तस्य चात्वालस्याहोरात्रनिष्पादकेनाऽऽदित्येन साम्यं संपावितवन्तः । यस्मादस्या भूमेरध्युपरि तं चात्वालमजनयंस्तस्मादयमदितेः संबन्धित्वाद्रादित्य इत्युच्यते । कुशीद्वयपरिगृहीतत्वाच्च कौशिक इत्यपि नाम । इत्थं चात्वालं विधाय त्रिवृदादिस्तोमान्विधातुमादौ त्रिवृत्स्तोमं प्रशंसति-