तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 295, कुल 345 में से
संदर्भ में पढ़ें२६६ (१.५.१२) तैत्तिरीयब्राह्मणम् छन्दो॑रथ॒मास्था॑य । ए॒तमध्वा॑न॒मनु॒सम॑चरत् । ए॒त ँह॒ वै छन्दो॑रथ॒मास्था॑य । ए॒तमध्वा॑न॒मनु॒संच॑रति । येनै॑ष ए॒तत्संचर॑ति । य ए॒वं वि॒द्वान्त्सोमे॑न॒ यज॑ते । य उ॑ चैनमे॒वं वैद॑ (५), इति । अभवन्वाव सा देवाक्षरा बृ॒ह्त्य॑दधा॒द्द्वाद॑शा॒क्षरा॑ण्य- पृ॒च्छ॒द्यो॑द॒धादा॒स्थाय॒ षट् च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्याये द्वादशोऽनुवाकः ॥ १२ ॥ अग्नेः कृत्तिका यत्पुण्यं देवस्य॑ सवि॒तुर्ब्रह्मवादिनः कत्य॒तमेव दे॒वा वा आ॑यु॑ष॒ इन्द्रो॑ दधीचो दे॒वासु॑राः स प्र॒जाप॑तिः स स॑मु॒द्रो ये॑ वै च॒त्वार॒स्तस्या॑ वा॒चो द्वाद॑श । अग्नेः कृत्तिका॑ देवगृहा वा ऋ॒तम॑व॒र्ध्यामैव ति॒स्रः परा॑ची॒र्यवै च॒त्वारो॒ नव॑पञ्चाशत् । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमोऽध्यायः ॥ ५ ॥ स प्रजापतिरादित्यरूपेणाऽऽकाशमार्गे गन्तुमेवमुवाच । हे छन्दांसि गायत्र्यादीनि यूयं मदर्थं रथाकारं प्राप्नुत । रथाकारैर्युष्माभिरहमेत- माकाशाध्वानमनुदिनं संचराणीति । ततस्तस्य प्रजापतेर्गमनार्थं गायत्रीजगत्यौ पक्षौ रथस्य चक्रे अभवताम् । उष्णिक्त्रिष्टुभौ प्रष्ट्यावीषारूपे दीर्घकाष्ठे अभवताम् । अनुष्टुप्पङ्क्त्यौ धुरि योजनीयावश्वावभवताम् । बृह्त्येबोद्धिरूर्ध्वस्थापनीय पीठसमानोप- वेशनफलकरूपाऽभूत् । स प्रजापतिस्तादृशं रथमारुह्यानुदिनमेतन्मार्गं संचरति । यः पुमानेवं रथमनुसंदधानः सोमेन यजते यश्चैनं रथमेवं ध्यायति स एष उभयविधोऽपि पुरुषो येनाध्वनैष प्रजापतिरेतद् दृश्यमानं स्थानं संचरति तमेतमेवाध्वानं छन्दोरथामरूढोऽनुदिनं संचरति। अत्रैवं विद्वाञ्त्सोमेन यजत इति वाक्य एवं शब्देन देवासुरा इत्याद्यनुवाक- चतुष्टयोक्तः साङ्गः सोमयागाकारः परामृश्यते । अतोऽयं सोमयागस्य प्रयोगविधिर्द्रष्टव्यः। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥ अथास्य प्रपाठकस्य़ानुवाकार्थः संगृह्यते- नक्षत्राख्येष्टकाः मन्त्राः पञ्चमाद्ये समीरिताः ।