तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 318, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.७.३) २८९ ऐ॒न्द्रा॒वै॒ष्ण॒वमेका॑दशकपालं॒ यदृ॑ष॒भो दधा॑ति पू॒षा प॒शून्प्रज॑नयति॒ हिर॑ण्यं॒ दक्षि॑णा दक्षि॒णैकं॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके सप्तमाध्याये द्वितीयोऽनुवाकः ॥ २ ॥ अथ सप्तमप्रपाठके तृतीयोऽनुवाकः । र॒त्निना॑मे॒तानि॑ ह॒वी ॅ र्षि॑ भवन्ति । ए॒ते वै रा॒ष्ट्रस्य॑ प्रदा॒तारः॑ । ए॒ते पादा॒तारः॑ । य ए॒व रा॒ष्ट्रस्य॑ प्रदा॒तारः॑ । ये पादा॒तारः॑। त ए॒वास्मै॑ रा॒ष्ट्रं प्रय॑च्छन्ति । रा॒ष्ट्रमे॒व भ॑वति । यत्स॒माहृ॒त्य निव॑पेत् । अर॑त्निनः स्युः । य॒थाय॒थं नि॒र्व॑पति रत्न॒त्वाय॑ (१) । यत्स॒द्यो निव॑पेत् । याव॑तीमे॒केन॑ ह॒विषा॒ऽऽशिष॒मव॑रुन्धे । ताव॑तीमव॑रुन्धीत । अन्व॒हं नि॒र्व॑पति । भूय॑सीमे॒वाऽशिष॒मव॑रुन्धे । भूय॑सो य॒ज्ञक्रतू॒नुपै॑ति । बा॒र्ह॒स्प॒त्यं च॒रुं निव॑पति॒ ब्रह्म॑णो गृ॒हे । मुख॑त ए॒वास्मै॒ ब्रह्म॑ स ॅ श्य॑ति । अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्रम॒न्वार॑म्भयति । शि॒तिपृ॑ष्ठो दक्षि॑णा॒ समृ॑द्ध्यै (२) । ऐ॒न्द्रमेका॑दशकपाल ॅ रा॑ज॒न्य॑स्य गृ॒हे । इ॒न्द्रि॒यमे॒वाव॑रुन्धे । ऋ॒ष॒भो दक्षि॑णा॒ समृ॑द्ध्यै । आ॒दि॒त्यं च॒रुं म॑हि॒ष्यै गृ॒हे । इ॒यं वा आदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठति । धे॒नुर्दक्षि॑णा॒ समृ॑द्ध्यै । भगा॑य च॒रुं वा॑वा॒ता॑यै गृ॒हे । भग॑मे॒वा- स्मि॒न्दधा॑ति । बिचि॑त्तगर्भा पष्ठौ॒ही दक्षि॑णा॒ समृ॑द्ध्यै (३) नैर्ऋ॒तं च॒रुं प॑रिवृ॒क्त्यै गृ॒हे कृ॒ष्णानां॑ व्रीही॒णां न॒ख निर्भि॑न्नम् । पा॒प्मान॑मेव॒ निर्ऋ॑तिं॒ निर॑वदयते । कृ॒ष्णाकु॑टा दक्षि॑णा॒ समृ॑द्ध्यै । आ॒ग्ने॒यम॒ष्टाक॑पाल ॅ सेना॒न्यो॑ गृ॒हे । सेना॑ मे॒वास्य॒ स ॅ श्य॑ति। हिर॑ण्यं॒ दक्षि॑णा॒ समृ॑द्ध्यै । वा॒रु॒णं द॑शकपाल ॅ सू॒तस्य॑ गृ॒हे । व॒रु॒णस॒वमे॒वाव॑रुन्धे । म॒हानिर॑ष्टो॒ दक्षि॑णा॒ समृ॑द्ध्यै । मा॒रु॒त ॅ स॒प्तक॑पालं ग्रा॒म॒ण्यो॑