तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 326, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.७.८) २९७ आ॒त्मनः॑ पूर्वे॑ऽभिषि॒च्या इत्या॑हुः (२) । सोमो॒ राजा॒ वरु॑णः । दे॒वा धर्म॑सु॒व॑श्च॒ ये । ते ते॒ वाचँ॑ सुवन्तां॒ ते त॑ प्रा॒णँ॑ सु॑वन्ता॒मित्या॑ह । प्रा॒णाने॒वाऽऽत्मनः॑ पूर्वा॑न॒भिषि॑ञ्चति । यद्ब्रू॒यात् । अ॒ग्नेस्त्वा॒ तेज॑सा॒ऽभिषि॑ञ्चामीति॑ । तेज॒स्ये॑व स्या॑त् । दुश्चर्मा॑ तु भ॑वेत् । सोम॑स्य त्वा द्यु॒म्नेना॒ऽभिषि॑ञ्चामीत्या॑ह । सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः (३) । स्वयै॒वैनं॑ दे॒वत॑या॒ऽभिषि॑ञ्चति । अ॒ग्नेस्तेज॑सेत्या॑ह । तेज॑ ए॒वास्मि॑न्दधाति । सूर्य॑स्य॒ वर्च॑सेत्या॑ह । वर्च॑ ए॒वास्मि॑न्दधाति । इन्द्र॑स्येन्द्रि॒येणेत्या॑ह । इ॒न्द्रि॒यमे॒वास्मि॑न्दधाति । मि॒त्रावरु॑णयोर्वी॒र्ये॑णेत्या॑ह । वी॒र्य॑मे॒वास्मि॑न्दधाति । म॒रुता॒मोज॑सेत्या॑ह (४) । ओज॑ ए॒वास्मि॑न्दधाति । क्ष॒त्राणां॒ क्ष॒त्रप॑तिरसीत्या॑ह । क्ष॒त्राणा॑मे॒वैनं॑ क्ष॒त्रप॑तिं करोति । अति॑दि॒वस्पा॒हीत्या॑ह । अत्य॒न्यान्या॒हीति॒ वावैतदा॑ह । स॒माव॑वृ॒त्रन्नध॑रागुदी॑ची॒रित्या॑ह । रा॒ष्ट्रमे॒वास्मि॑न्ध्रु॒वम॑कः । उ॒च्छेष॑णेन जुहोति । उ॒च्छेष॑णभागो॒ वै रुद्रः॑ । भा॒ग॒धेये॑नैव रु॒द्रं निर॑वदयते (५) । उद॑ङ्परे॒त्याग्नी॑ध्रे जुहोति । ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑मे॒व दि॒शि रु॒द्रं निर॑वदयते । रुद्र॒ यत्ते॒ क्रयी॑परं॒ नामेत्या॑ह । यद्वा अ॑स्य॒ क्रयी॑परं॒ नाम॑ । तेन॑ वा ए॒ष हि॑नस्ति॒ यँ॑ हि॑न॒स्ति । तेनै॒वैनँ॑ सह श॑मयति । तस्मै॑ हु॒तम॑सि य॒मेष्ट॑मसीत्या॑ह । य॒मादे॒वास्य॑ मृ॒त्युमप॑जयते (६) । प्रजा॑पते॒ न त्वदे॒तान्य॒न्य इति॒ तस्यै॑ गृ॒हे जु॑हुयात् । यां कामये॑त रा॒ष्ट्रम॑स्यै प्र॒जास्या॒दिति॑ । रा॒ष्ट्रमे॒वास्यै॑ प्र॒जा भ॑वति । पू॒र्णम॑ये॑नाध्व॒र्यु॒रभिषि॑ञ्चति । ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॒न्त्वषि॑ दधाति । औदु॑म्बरेण रा॒जन्यः॑ । ऊर्ज॑मे॒वास्मि॑न्न॒न्नाद्यं॑ दधाति । आश्व॒त्थेन॒ वैश्यः॑ ।