भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 325, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 325

२९६ (१.७.८) तैत्तिरीयब्राह्मणम् यत्पा॒र्थानि॑ जु॒होति॑ । रा॒ष्ट्रमे॑व भव॑ति । बा॒र्हस्प॒त्यं पूर्वे॑- षामुत्त॒मं भव॑ति । ऐ॒न्द्रमुत्त॑रि॒षां प्रथ॒मम् । ब्रह्म॑ चै॒वास्मै॑ क्ष॒त्रं च॑ स॒मीची॑ दधाति । अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्रं प्रति॑ष्ठापयति (४) । षट् पु॒रस्ता॑दभिषे॒कस्य॑ जु॒होति॑ । षडु॑प॒रिष्टा॑त् । द्वाद॑श संप॑द्यन्ते । द्वाद॑श॒ मासा॑: संवत्स॒रः । संवत्स॒रः खलु॒ वै दे॒वानां॒ पूः । दे॒वाना॑मे॒व पुरं॒ मध्य॑तो॒ व्यर्व॑सर्पति । तस्य॒ न कुत॑श्च॒नोप॑व्याधो भव॑ति । भू॒ताना॑मे॒वैष्टी॑र्जु॒होति॑ । अत्रा॑त्र॒ वै मृ॒त्युर्जाय॑ते । यत्र॑ य॒त्रैव मृ॒त्युर्जाय॑ते । तत॑ ए॒वैन॒मव॑यजते । तस्मा॑द्राजसूये॑नेजा॒नः । सर्व॒मायु॑रेति । सर्वे॒ ह्य॑स्य मृ॒त्यवो॒ऽवैर॑ष्टाः । तस्मा॑द्राजसूये॑नेजा॒नो नाभि॑चरि॒तवै॒ प्रत्य॑गैनमभि॒चार॑: स्तृणुते (५) । रु॒न्धे॒ स॒म॑र्ष्ट्या असिच्यत स्थापयति जायते पञ्च च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके सप्तमाध्याये सप्तमोऽनुवाकः ॥ ७ ॥ अथ सप्तमप्रपाठकेऽष्टमोऽनुवाकः । सोम॑स्य॒ त्विषि॑रसि॒ तवै॑व मे॒ त्विषि॑र्भूया॒दिति॑ शार्दूलच॒- र्मोप॑स्तृणाति । यैव सोमे॒ त्विषि॑ः । या शार्दूले । तामे॒वा व॑रुन्धे । मृ॒त्योर्वा ए॒ष वर्ण॑: । यच्छार्दू॒लः । अ॒मृतं॒ ँ हिर॑ण्यम् । अ॒मृत॑मसि मृ॒त्योर्मा॑ पा॒हीति॑ हिर॑ण्यमु॒पास्य॑ति । अ॒मृत॑मेव मृ॒त्योरन्त॑र्धत्ते । श॒तमा॑नं भवति । (१) । श॒तायु॑: पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॑ये प्रति॑तिष्ठति । द्वि॒द्योन्मा॑ पा॒हीत्यु॒परि॑ष्टा॒दधि॑निदधाति । उ॒भयत॑ ए॒वास्मै॒ शर्म॑ दधाति । अवै॑ष्टा दंदशूका॒ इति॑ क्लीब ँ सीसेन॑ विध्यति । दंदशूका॑ने॒वाव॑यजते । तस्मा॑त्क्ली॒बं दंद॒शूकाद् ँशूकाः । निर॑स्तं॒ नमु॑चेः॒ शिर॒ इति॑ लोहिताय॒सं निर॑स्यति । पा॒प्मान॑मेव॒ नमु॑चिं॒ निर॑वदयते । प्रा॒णा