तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 324, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.७.७) २९५ तिस्रो॒ वै श॑र॒व्या॑: । प्र॒तीची॑स्ति॒रश्च्यूनूची॑: । ताभ्य॑ ए॒वैनं॑ पा॒न्ति॒ । दिग्भ्यो॒ मा पा॒तेत्या॑ह । दिग्भ्य॑ ए॒वैनं॑ पा॒न्ति॒ । विश्वा॑भ्यो मा ना॒ष्ट्राभ्य॑: पा॒तेत्या॑ह । अप॑रिमितादे॒वैनं॑ पा॒न्ति॒ । हिर॑ण्यवर्णावु॒षसां॑ वि॒रोक॒ इति॑ त्रि॒ष्टुभा॑ बा॒हू उद्गृ॑ह्णाति । इ॒न्द्रियं॒ वै वी॒र्यं॑ त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व वी॒र्य॑मु॒परिष्टा॑दा॒त्मन्ध॑त्ते (८)॥ व्यावृ॑त्यै दात्रमसीत्या॑हा॒मृतं॑ हिर॑ण्यमेकशतो गमयन्त्याह॑ ब्राह्मणा ना॒ष्ट्राभ्य॑: पा॒तेत्या॑ह च॒त्वारि॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके सप्तमाध्याये षष्ठोऽनुवाकः ॥ ६ ॥ अथ सप्तमप्रपाठके सप्तमोऽनुवाकः । दिशो॒ व्यास्था॑पयति । दि॒शाम॒भिजित्यै॑ । यद॑मु॒प्रका॑मेत् । अ॒भिदि॒शौ ज॑येत् । उत्तु मा॑द्येत् । मन॑सा॒नुप्रक्रा॑मति । अ॒भिदि॒शौ ज॑यति । नोन्मा॑द्यति । स॒मिध॒माति॑ष्ठेत्याह । तेज॑ ए॒वाव॑रुन्धे (१) । उ॒ग्रा मा ति॑ष्ठेत्याह । इ॒न्द्रि॒यमे॒वाव॑रुन्धे । वि॒राज् मा ति॑ष्ठेत्याह । अन्नाद्य॑मे॒वाव॑रुन्धे । उदी॑ची॒ मा ति॑ष्ठेत्याह । प॒शूने॒वाव॑रुन्धे । ऊ॒र्ध्वा मा ति॑ष्ठेत्याह । सु॒वर्ग॑मे॒व लो॒कम॒भिज॑यति । अनू॒र्जिही॑ते सु॒वर्ग॑स्य लो॒कस्य॒ सम॑ष्ट्यै (२) मारु॒त ए॒ष भ॑वति । अन्नं॒ वै म॒रुतः॑ । अन्न॑- मे॒वाव॑रुन्धे । एक॑वि ँशतिकपालो भवति॒ प्रति॑ष्ठित्यै । योऽर॑ण्येऽनुवा॒क्यो॑ ग॒णः । तं म॑ध्य॒त उप॑दधाति । ग्रा॒म्यैरे॒व प॒शुभि॑रार॒ण्यान्प॒शून्परि॑गृह्णाति । तस्मा॑द् ग्रा॒म्यैः॑ प॒शुभि॑रार॒ण्याः प॒शवः॒ परि॑गृहीताः । पृ॒थिवै॒न्यः॑ । अ॒भ्य॑षिच्यत (३) स रा॒ष्ट्रं नाभ॑वत् । स ए॒तानि॑ पा॒र्था॒न्य॑पश्यत् । ता॒न्य॑जुहोत् । तैर्वै स रा॒ष्ट्रम॑भवत् ।