तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 323, कुल 345 में से
संदर्भ में पढ़ें२९४ (१.७.६) तैत्तिरीयब्राह्मणम् गृह्णा॑ति । व॒रु॒ण॒स॒वमे॒वाव॑रुन्धे । एक॑या गृह्णाति । एक॑धैव यज॑माने वी॒र्यं॑ दधाति । क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॑ योनि॑रसीति॑ ता॒र्प्यं चोष्णीषं॑ च॒ प्रय॑च्छति सयोनित्वा॒य॑ । एक॑शतेन दर्भपुञ्जी॒लैः पव॑यति । श॒तायु॒र्वे पुरु॑षः श॒तवी॑र्यः । आ॒त्मैक॑शतः (४) यावा॑ने॒व पुरु॑षः । तस्मि॑न्वी॒र्यं दधाति । दध्या॑शयति । इ॒न्द्रि॒यमे॒वाव॑रुन्धे । उ॒दुम्बर॑माशयति । अन्नाद्य॒स्याव॑रुद्ध्यै । शष्पा॑ण्याशयति । सुरा॑बलिमे॒वैनं॑ करोति । आ॒विदे॑ ए॒ता भ॑वन्ति । आ॒विद॑मे॒वैनं॑ गमयन्ति (५) । अ॒ग्निरे॒वैनं॑ गार्ह॑पत्येनावति । इन्द्र॑ इन्द्रि॒येण॑ । पू॒षा प॒शुभि॑: । मि॒त्रावरु॑णौ प्राणापा॒नाभ्या॑म् । इन्द्रो॑ वृ॒त्राय॑ वज्र॒मुद॑यच्छत् । स दिव॑समलिखत् । सौ॒र्य॒म्णः पन्था॑ अभवत् । स आर्विन्ने॒ द्यावा॑पृथि॒वी धृत॑व्र॒ते इति॑ द्यावा॑पृथि॒वी उपा॑धावत् । स आ॒भ्यामे॒व प्रसू॑त॒ इन्द्रो॑ वृ॒त्राय॒ वज्रं॒ प्राह॑रत् । आर्विन्ने॒ द्यावा॑पृथि॒वी धृत॑व्र॒ते इति॒ यदाह॑ (६) । आ॒भ्यामे॒व प्रसू॑तो यज॑मानो॒ वज्रं॒ भ्रातृ॑व्याय॒ प्रह॑रति । आर्विन्ना दे॒व्यादि॑तिर्वि॒श्वरू॑पीत्याह । इ॒यं वै दैव्यादि॑तिर्वि॒श्वरू॑पी । अ॒स्यामे॒व प्रति॑तिष्ठति । आ॒विन्नो॒ऽयम॒सावा॑मुष्या॒यणो॒ऽस्यां विश्य॑स्मिन्न॒राष्ट्र इत्या॑ह । विशै॒वैनं॑ ꣳ 'रा॒ष्ट्रेण॒ समर्धयति । म॒हते क्ष॒त्राय॑ म॒हते आधि॑पत्याय म॒हते॑ जान॑राज्या॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । ए॒ष वो॑ भरतो॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॑ ꣳ राजेत्या॑ह । तस्मा॒त्सोम॑राजानो ब्राह्म॒णाः (७) । इन्द्र॑स्य॒ वज्रो॑ऽसि वार्त्र॒घ्न इति॒ धनुः॒ प्रय॑च्छति॒ विजि॑त्यै । श॒त्रुबाध॑नाः स्थेतीषून्॑ । श॒त्रूने॒वास्य॑ बाधन्ते । वा॒त॒ मा प्रत्य॒ञ्चं पा॑त॒ मा ति॒र्यञ्च॒मन्व॑ञ्चं मा पा॒ते त्या॑ह ।