तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 329, कुल 345 में से
संदर्भ में पढ़ें३०० (१.७.१०) तैत्तिरीयब्राह्मणम् मासी॑द् सुषदा॒ मासी॒देत्या॑ह । यथा॒ यजु॑रे॒वैतत् । मा त्वा॑ हि ँ सीन्मा॒ मा॑ हि ँ सी॒दित्याहि॑ ँसायै । निष॑साद धृतव्र॑तो वरु॑णः प॒स्त्या॑ । स्वासाम्रा॑ज्याय सुक्रतु॒रित्या॑ह । साम्रा॑ज्यमे॒वैन॑ ँ 'सुक्रतुं करोति । ब्रह्मा ँ ३ त्व ँ राज॒न्ब्रह्मा॑ऽसि सवि॒ताऽसि॑ स॒त्यस॑व इत्या॑ह । स॒वि॒तार॑मे॒वैन॑' ँस॒त्यस॑वं करोति (२) । ब्रह्मा ँ ३ त्वँ राज॒न्ब्रह्माऽसीन्द्रो॑ऽसि स॒त्यौजा॒ इत्या॑ह । इन्द्र॑मे॒वैन॑ ँ स॒त्यौज॑सं करोति । ब्रह्माँ२ त्व ँराजन्ब्रह्माऽसि॑ मित्रो॑ऽसि सु॒शेव॒ इत्या॑ह । मि॒त्रमे॒वैन॑' ँसु॒शेषं॑ करोति । ब्रह्माँ३ त्व ँ राज॒न्ब्रह्माऽसि॒ वरु॑णोऽसि स॒त्यध॑र्मेत्याह । वरु॑णमे॒वैन॑ ' ँ स॒त्यध॑र्माणं करोति । स॒वि॒ताऽसि॑ स॒त्यस॑व् इत्या॑ह । गा॒य॒त्रीमे॒वैतेना॒भिव्याह॑रति । इन्द्रो॑ऽसि स॒त्यौजा॒ इत्या॑ह । त्रि॒ष्टुभ॑मे॒वैतेना॒भिव्याह॑रति (३) । मित्रो॑ऽसि सु॒शेव् इत्या॑ह । जग॑तीमे॒वैतेना॒भिव्याह॑रति । स॒त्यमे॒ता दे॒वता॑: । स॒त्यमे॒तानि॒ च्छन्दा ँसि । स॒त्यमे॒वाव॑रुन्धे । वरु॑णोऽसि स॒त्यध॑र्मेत्या॑ह । अ॒नु॒ष्टुभ॑मे॒वैतेना॒भिव्याह॑रति । स॒त्यानृ॒ते वा अनु॑ष्टुप् । स॒त्यानृ॒ते वरु॑णः । स॒त्यानृ॒ते ए॒वाव॑रुन्धे (४) । नैन॑ ँस॒त्यानृ॒ते उ॑दि॒ते हि ँस्तः । य ए॒वं वेद॑ । इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ स्फ्यं प्रय॑च्छति । वज्रो॒ वै स्फ्यः॑ । वज्रे॑णैवास्मा॒ अवर॒पर॑ ँर॒न्धय॑ति । एव ँहि तच्छ्रेय॑: । यद॑स्मा ए॒ते रध्ये॑युः । दिशो॒ऽभ्य॑य ँ राजा॑ऽभूदि॒ति प॒ञ्चाक्षान्प्रय॑च्छति । ए॒ते वै सर्वे॑याः । अ॒प॒राजि॑यिनमेवैनं करोति (५) । ओदनमुद् ब्रु॑वते । प॒र॒मे॒ष्ठी वा ए॒षः । यदौद॑नः । प॒र॒मामे॒वैन॑ ँ श्रियं॑ गमयति । सुश्लोका ३ ँ सुर्मङ्गला ३ ँ सत्य॑राजा३नित्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । श्यौन॒:शेप॒माख्या॑पयते ।