तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 330, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् ˙ (१.८.१) ३०१ वरु॑णपा॒शादे॒वैनं॑ मुञ्चति । प॒रःश॒तं भ॑वति । श॒तायुः॑ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॑ये प्रति॑ [ति]ष्ठति । मा॒रु॒तस्य॑ चैक॑वि ँ शतिकपालस्य वैश्वदे॒व्यै॑ त्वाऽऽमिक्षा॑या ऽअ॒ग्नये॑ स्विष्ट॒कृते॑ स॒मव॑द्यति । दे॒वता॑भिरे॒वैन॑मुभ॒यतः॑ परि॑गृह्णाति । अपांनप्त्रे॒ स्वाहौजोन॑प्त्रे॒ स्वाहा॒ऽग्नये॑ गृह॒पत॑ये॒ स्वाहेति॑ ति॒स्र आहुती॑र्जुहोति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒ प्रतिति॑ष्ठति (६) । दे॒वैरित्या॑ह स॒त्यस॑वं करोति त्रि॒शुभ॑मे॒वैतेना॑भि॒व्याह॑रति स॒त्यानृ॒ते ए॒वाव॑रुन्धे करोति श॒तेन्द्रि॑यः॒ षट् च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके सप्तमाध्याये दशमोऽनुवाकः ॥ १० ॥ एतद्ब्राह्मणानि धात्रे रत्निनां देवसु॒वाम॒र्थेऽतो॒ देवी॒र्दिशः सो॒मस्येन्द्र॑स्य मि॒त्रों दश॑ ॥ १० ॥ एतद्ब्राह्मणानि वैष्णवं त्रिकपालमन्नं वै पू॒षा वाऽऽशा॒स्थेस्या॑ह दि॒यु॒र्दह॑परं॒त्यब्र॑ह्माँ२स्त्वं॒ राज॑श्व॒र्तुः षष्टिः ॥ ६४ ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके सप्तमोऽध्यायः ॥ ७ ॥ अथ प्रथमाष्टकेऽष्टमोऽध्यायः । तत्र प्रथमोऽनुवाकः । वरु॑णस्य सु॒षुवा॒णस्य॑ दश॒धेन्द्रि॑यं वी॒र्यं॑ परा॑पतत् । तत्स ँ सृ॒द्भिरनु॒सम॑सर्पत् । तत्स ँसृपा ँस ँसृ॒प्वम् । अ॒ग्निना॑ दे॒वेन॑ प्रथ॒मेऽह॑ न्नु॒ प्रा॒यु॑ङ्क्त । सर॑स्वत्या वा॒चा द्वि॒तीये॑ । स॒वित्रा प्र॑स॒वेन॑ तृ॒तीये॑ । पू॒ष्णा प॒शुभि॑श्चतु॒र्थे । बृह॒स्पति॑ना ब्रह्म॑णा पञ्च॒मे । इन्द्रे॑ण दे॒वेन॑ ष॒ष्ठे । वरु॑णेन स्वया॑ दे॒वत॑या स॒प्तमे (१) । सोमे॑न॒ राज्ञा॒ऽष्टमे॑ । त्वष्ट्रा॑ रू॒पेण॑ नव॒मे ।