तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 33, कुल 345 में से
संदर्भ में पढ़ेंश्रोत्रँ संधत्तं तन्मे जिन्वतं मनः संधत्तं तन्मे जिन्वतं वाचँ संधत्तं तां मे जिन्वतम्, इति । हे शुक्रामन्थिनौ युवां संजग्मानौ परस्परं संगतावेकमत्यं गता वा दिवो द्युलोकसहितया पृथिव्या च संगतावस्मदीयमायुः संधत्तं सम्यग्धारयतमभिवर्धयतमित्यर्थः । प्राण ऊर्ध्वगामी वायुः । अपानोऽधोगामी वायुः। व्यानो मध्यवायुः चक्षुः श्रोत्रे मनो वाक्चैत्येतानीन्द्रियाणि । एतेषु सर्वेषु पूर्ववद्व्याख्येयम् । ब्रह्म संधत्तमित्यत्रोत्तरवेदेः पश्चात्संधानम् । इह तु पुरस्तादिति विशेषः। आयु॑ः स्थ॒ आयु॑र्मे धत्तम् । आयु॒र्य॒ज्ञाय॑ धत्तम् । आयु॑र्य॒ज्ञप॑तये धत्तम् । प्रा॒णः स्थ॑: प्रा॒णं मे॑ धत्तम् । प्रा॒णं य॒ज्ञा ' धत्तम् (३) प्रा॒णं य॒ज्ञप॑तये धत्तम् । चक्षु॑: स्थ॒श्चक्षु॑र्मे धत्तम् । चक्षु॑र्य॒ज्ञाय॑ धत्तम् । चक्षु॑र्य॒ज्ञप॑तये धत्तम् । श्रोत्रँ॑ ̐ स्थः श्रोत्रं॑ मे धत्तम् । श्रोत्रं॑ य॒ज्ञाय॑ धत्तम् । श्रोत्रं॑ य॒ज्ञप॑तये धत्तम् । तौ दे॑वौ शुक्रामन्थिनौ । क॒ल्पय॑तं॒ दैवी॑र्विश॑: कल्प- य॑तं॒ मानु॑षीः (४) इष॒मूर्ज॑म॒स्मासु॑ धत्तम् । प्रा॒णान्प॒शुषु॑ । प्र॒जां मयि॑ च॒ यज॑माने च । कल्पः-“अथेनावध्वर्यु॑रभिमन्त्रयते-आयुःस्थ आयुर्मे धत्तमायुर्यज्ञाय धत्तमायुर्यज्ञपतये धत्तं प्राणः स्थः प्राणं मे धत्तं प्राणं यज्ञाय धत्तं प्राणं यज्ञपतये धत्तं चक्षुः स्थश्चक्षुर्मे धत्तं चक्षुर्यज्ञाय धत्तं चक्षुर्यज्ञपतये धत्तं श्रोत्र ̐ स्थः श्रोत्रं मे धत्तं श्रोत्रं यज्ञाय धत्तं श्रोत्रं यज्ञपतये धत्तं तौ देवौ शुक्रामन्थिनौ कल्पयतं दैवीर्विशः कल्पयतं मानुषीरिषमूर्जमस्मासु धत्तं प्राणान्पशुषु प्रजां मयि च यजमाने च” इति । हे शुक्रामन्थिनौ युवामायुःस्थ आयुषः स्वामिनौ भवथः । अतो मे ममाध्वर्योरायर्धत्तमभिवर्धयतम् । तथा यज्ञस्याप्यायुर्धत्तम् । समाप्तिरेव यज्ञस्याऽऽयुः । तथा यज्ञपतये यजमानस्याप्यायुरभिवर्धयतम् । एवं प्राणादिषु योज्यम् । तौ युवां प्राणादिस्वामिनौ शुक्रामन्थिनौ ग्रहद्वयाधिपती दैवी दैवीर्विशो देवसम्बन्धिनीः प्रजाः कल्पयतमस्मदनुकूलाः कुरुतम । तथा मनुष्यजातियुक्ताः प्रजाश्चास्मदनुकूलाः कुरुतम । किंचैतं व्रीह्याद्यन्नमूर्जं क्षीरादिरसं चास्मासु स्थापयतम् । पशुषु गवादिषु चिरजीवनहेतून्प्राणान्स्थापयतम् । मय्यध्वर्यौ चास्मिन्यजमाने च प्रजां पुत्रपौत्रादिरूपां स्थापयतम् । निर॑स्तः॒ शण्ड॑: निर॑स्तो॒ मर्क॑: ।