तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 48, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.१.३) १९ दे॒वा वा ऊर्जा॒ व्य॑भजन्त । तत॑ उदु॒म्बर॒ उद॑तिष्ठत् । ऊर्ग्वा उ॑दु॒म्बरः॑ । यदौदुम्बरः॒ संभारो॒ भव॑ति । ऊर्ज॑मे॒वाव॑रुन्द्धे, इति । देवाः सर्वे कदाचिदेकत्रोपविश्यान्नरसं विभक्तवन्तस्तदा तस्मिन्स्थाने पतितादन्नरसादुदुम्बरवृक्ष उदतिष्ठत् । तस्मादन्नरसस्यैवोदुम्बरत्वात्तत्संभारेणान्नरसं प्राप्नोत्येव । अथ तृतीयं संभारं विधत्ते- तृ॒ती॒यस्या॑मि॒तो दि॒वि सोम॑ आसीत् । तं गाय॒त्र्यह॑रत् । तस्य॑ प॒र्णम॑च्छिद्यत । तत्प॒र्णोऽभवत् । तत्प॒र्णस्य॑ पर्ण॒त्वम् । (१०) । यस्य॑ प॒र्णम॒यः सं॒भारो भव॑ति । सो॒म॒पी॒थ॒मे॒वा॒व॑रुन्द्धे॒ इति । इतो भूलोकादारभ्य गणनायामन्तरिक्षमतिक्रम्य परतो वर्तमाना या द्यौस्तृतीया तस्यां सोमवल्ली स्थिता । तं च सोमं गायत्री देवता तत्रत्यैः सोमरक्षकैः सह युद्धं कृत्वा समाहरत् । अयं च वृत्तान्तः “कद्रूश्च वै सुपर्णी च” इत्यनुवाके प्रपञ्चितः। सहसा समानीयमानस्य तस्य सोमस्यैकं पर्णं छिन्नं सद्भूमौ पतित्वा पलाशवृक्षोऽभवत् । पर्णजन्यत्वात्तस्य वृक्षस्य पर्णनाम संपन्नम् । सोमजन्यस्य तस्य संभरणेन सोमपानमेव प्राप्नोति । पुनरपि तमेव संभारं प्रशंसति- दे॒वा वै ब्रह्म॑न्वदन्त । तत्प॒र्ण उपा॑शृणोत् । सु॒श्रवा॒ वै नाम॑ । यत्प॑र्ण॒मयः॒ संभारो॒ भव॑ति । ब्र॒ह्म॒व॒र्च॒स॒मे॒वाव॑रुन्द्धे, इति । देवाः कदाचिदेकान्ते पलाशवृक्षच्छायायामुपविश्य परस्मिन्ब्रह्मणि संवादं कृतवन्तः । तत्सर्वं समीपे स्थितः पलाशवृक्षोऽऽशृणोत् । शोभनं वस्तु श्रुतवानिति व्युत्पत्त्या सुश्रवा इति नाम संपन्नम् । तस्मात्परं ब्रह्म श्रुतवतो वृक्षस्य संभरणेन ब्रह्मवर्चसमेव प्राप्नोति । अथ चतुर्थं संभारं विधत्ते-