तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 49, कुल 345 में से
संदर्भ में पढ़ें२० (१.१.३) तैत्तिरीयब्राह्मणम् प्र॒जाप॑तिर॒ग्निम॑सृजत । सोऽबिभे॒न्मा मा॑ धक्ष्यतीति॑ । त ँ श॒म्या॑ऽशमयत् (११) । तच्छ॒म्यै॑ शमित्त्वम् । तच्छमीम॒यः॑ सं॒भारो भ॒वति । शान्त्या॒ अप्र॑दाहाय, इति । प्रजापतिरग्निं सृष्ट्वा मामयमग्निः परातीति भीतः शमीशाखया ज्वालामशमयत् । शमयत्यनेनेति व्युत्पत्या शमीति नाम संपन्नम् । अतस्तत्संभारः पूर्वं विद्यमानस्य दाहस्योपशान्त्यै, इतः परमदाहाय च संपद्यते । अथ पञ्चमं संभारं विधत्ते- अ॒ग्नेः सृ॒ष्टस्य॒ यतः॑ । वि॒क॑ङ्क॒तं॒ भा आ॑र्च्छत् । यद्वै क॑ङ्क॒तः सं॒भारो भव॑ति । भा ए॒वाव॑रुन्द्धे, इति । प्रजापतिना सृष्टोऽग्निस्त्वरया गच्छन्विकङ्कतवृक्षमपश्यत् । तदा तदीयं तेजो वृक्षं प्राप्नोत् । अतस्तत्संभारं सति भा एव दीप्तिमेवावरुन्धे । अथ षष्ठं संभारं विधत्ते- सह॑दयो॒ऽग्निराधे॑य॒ इत्या॑हुः । म॒रुतो॒ऽद्भि॑र॒ग्निम॑तमयन् । तस्य॑ ता॒न्तस्य॒ हृद॑य॒माच्छि॑न्दन् । साऽश॑निरभवत् । यद॒शनि॑हतस्य वृ॒क्षस्य॑ सं॒भारो॒ भव॑ति । सह॑दयमे॒वाग्निमाध॑त्ते (१२), इति । उ॒र्शा अ॑भवन्नभवद्वल्मीके॑श्राम्यदप्र॑थयद्वैतसै बीभत्स॒त इत्या॑हू रुन्द्धे पर्ण॒त्वम॑शमयदच्छिन्द ँ॒स्त्रीणि॑ च ॥ ३ ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥ मरुतः कदाचिदग्निना सह विरोधे सति तमग्निमद्भिरतमयन्ग्लानिं प्रापयन् । ततो निष्क्लिन्नस्याग्नेर्हृदयमाच्छिन्दन् । तस्य हृदयमशनिरूपेणोद्भूत् । तस्मादशनिहतस्य वृक्षस्य संभारेण सहृदयोऽग्निराहितो भवति ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे प्रथमपाठके तृतीयोऽनुवाकः ॥ ३ ॥