तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 51, कुल 345 में से
संदर्भ में पढ़ें२२ (१.१.४) तैत्तिरीयब्राह्मणम् वाङ्मनसयोरनृतविषयत्वमपि क्वचिद् दृष्टम् । चक्षुस्तु पुरोवर्तिवस्तुनो याथात्म्यमेव पश्यतीति तत्सत्यस्वरूपम् । अत एव लोकेऽपि दूरदेशवृत्तान्तं पुरुषमुखादाकर्ण्य किं त्वमेव दृष्टवानुत श्रुतवानसीत्येवं सत्यत्वनिश्चयाय पृच्छन्ति । विचारार्था प्लुतिः । सोऽप्यहमेव दृष्टवानस्मीति यदा ब्रूते तदा तत्सत्यमिति निश्चिन्वन्ति । तस्माच्चक्षुर्निमित्तस्य सत्यत्वात्सत्यदेशेऽग्निराहितो भवति । यत्तु लोके शुक्तिरजतादिदर्शनं तच्च काचकामलादिदोषकृतमिति न कदाचिदपि चक्षुः सत्यं व्यभिचरति । इदानीं प्रसङ्गादाहिताग्नेः कंचिद्धर्मं दर्शयति- तस्मा॒दाहि॑ताग्नि॒र्नानृ॑तं वदेत् । नास्य॑ ब्राह्म॒णोऽना॑श्वान्गृ॒हे व॑सेत् । स॒त्ये ह्य॑स्या॒ग्निराहि॑तः, इति । यस्माच्चक्षुर्निमित्तत्वेनसत्यभूतेदेशेऽ यमग्निराहितस्तस्मादाहिताग्निः सत्यमेव वदेत् । न त्वनृतम् । सत्यानृतयोरेकत्र विरोधात् । गृहस्थस्य गृहे ब्राह्मणस्यानश्नतो यो निवासः सोऽप्यनृतसमानः । तस्मात्तं भोजयेदेव । देशविशेषं विधाय कालविशेषं विधत्ते- आ॒ग्ने॒यी वै रात्रिः॑ (२) आ॒ग्ने॒याः प॒शवः॑ । ऐ॒न्द्रमहः॑ । नक्तं॒ गार्ह॑पत्य॒माद॑धाति । प॒शूने॒वाव॑रुन्द्धे । दिवा॑ऽऽह॑वनी॒यम् । इ॒न्द्रि॒यमे॒वाव॑रुन्द्धे इति । रात्रावग्नेः प्रकाशाधिक्याद्रात्रिराग्नेयी । एतच्चाग्निहोत्रब्राह्मण एवोपपादितम्-“अग्निं वावाऽऽदित्यः सायं प्रविशति । तस्मादग्निर्दूरान्नक्तं ददृशे” इति । अग्नेः पशुप्रदत्वात्पशूनामाग्नेयत्वम् । एतच्चाग्न्युपस्थानब्राह्मणे देवैरभिहितम्“इममेवाग्नि ँ स्तवाम स नः स्तुतः पशून्पुनर्दास्यतीति । तेऽग्निमस्तुवन्स एभ्यः स्तुतो रात्रिया अध्यहरभिपशून्निराजत् ” इति । एवमिन्द्रस्याहः संबन्धो ब्राह्मणान्तराद् द्रष्टव्यः । तस्माद्रात्रौ गार्हपत्याधानेन पशून्प्राप्नोति । अहन्याहवनीयाधानेन्द्रियं प्राप्नोति । अहन्यपि विशेषं विधत्ते- अ॒र्धोदि॑ते॒ सूर्ये॑ आहवनी॒यमाद॑धाति । ए॒तस्मि॒न्वै लो॒के प्र॒जाप॑तिः प्र॒जा असृ॑जत । प्र॒जा ए॒व तद्यज॑मानः सृजते । अथो॑ भू॒तं चैव भवि॑ष्यच्च॒र्वरु॑न्द्धे (३), इति ।