तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 52, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.१.४) २३ लोक्यतऽवगम्यत इति व्युत्पत्त्या लोकशब्दः कालपरः । अर्धोदयकाले प्रजानां सृष्टत्वात्तत्राऽऽधानं प्रजाथं भवति । अपि चोदयस्यासंपूर्णत्वाद्वृतमतीतं रात्रिरूपं च भविष्यदागाम्यहश्चेत्युभयं प्राप्तं भवति । अथाऽऽधातव्यानामग्नीनां क्रमं निर्णेतुमाहवनीयस्य प्राथम्यं निराचष्टे- इडा॒ वै मान॒वी य॒ज्ञानूका॒शिन्या॑सीत् । साऽशृ॑णोत् । असु॑रा अ॒ग्निमाद॑धत॒ इति॑ । तद॑गच्छत् । त आह॑व॒नीय॒मग्र॒ आद॑धत । अथ॒ गार्ह॑पत्यम् । अथा॑न्वाहार्य॒पच॑नम् । साऽब्र॑वीत् प्रती॒च्यै॑षा ँ॒ श्रीर॑गात् । भ॒द्रा भू॒त्वा परा॑भविष्य॒न्तीति॑ (४) । यस्यै॒वम॒ग्निरा॑धीय॒ते । प्रती॒च्य॑स्य॒ श्रीरे॑ति । भ॒द्रोभू॒त्वा परा॑भवति॒, इति॑ । इडा नाम गोरूपा काचिद्देवता । सा च मनुसंबन्धिनी । तत्संबन्धश्च मानवी घृतपदी मैत्रावरुणीतीडोपाव्हानस्य ब्राह्मणे स्पष्टमाम्नातः- “मानवीत्याह मनुह्येतामग्रेऽपश्यत्” इति । सा चेडा यज्ञानूकाशिनी यज्ञतत्त्वप्रकाशनसमर्थाऽऽसीत् । सा कदाचिदसुराणामग्न्याधानवार्तां श्रुत्वा द्रष्टुं गता । दृष्ट्वा मनोः पार्श्वे समागत्यैवमुवाच-“असुराः प्रथमं पूर्वदिगवस्थितमाहवनीयमाधाय ततः पश्चिमदिगवस्थितं गार्हपत्यमाधाय दक्षिणदिगवस्थितमन्वाहार्यपचनं चाऽऽहितवन्तः । तथा चाऽऽधानस्कृतेन कंचित्कालं धनिका भूत्वा पश्चाद्विनाशं प्राप्स्यन्ति । एतेषां पश्चिमभिमुखत्वे प्रवृत्तत्वादेषां श्रीरपि प्रतीची प्रतिकूलगमना सती तेभ्योऽसुरेभ्यो निवर्तिष्यते' इति । अतोऽसुरवदिदानींतनस्या- ऽऽहिताग्नेरप्यन्तं पराभवो भवति । अथान्वाहार्यपचनस्य प्राथम्यं निराचष्टे-. साऽशृ॑णोत् । दे॒वा अ॒ग्निमार्द॑धत॒ इति॑ । तद॑गच्छत् । तैऽन्वाहार्य॒पच॑न॒मग्र॒ आद॑धत । अथ॒ गार्ह॑पत्यम् । अथा॑ऽऽहव॒नीय॑म् । साऽब्र॑वीत् (५) । प्राच्यै॑षा ँ॒ श्रीर॑गात् । भ॒द्रा भू॒त्वा सु॑व॒र्गं लो॒कमै॑ष्यन्ति । प्र॒जां तु न वैत्स्य॒न्त इति॑ । यस्यै॒वम॒ग्निरा॑धीय॒ते । प्राच्य॑स्य॒ श्रीरे॑त्ति । भ॒द्रो