तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 58, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.१.५) २९ ततस्तावूभावग्नी संकीर्णधर्मतया प्रजापतिर्विभाजं विभक्तुं नाशक्नोत् । ततस्तद्विभागाय स्वयं पूर्ववाडश्वो भूत्वा धर्मसांकर्यं परिहृत्य प्राञ्चं प्राग्देशनिवासयोग्यमाहवनीयं पूर्वमुद्वहत् । पूर्वदेशं प्रत्युद्धृत्य नीतवान् । पूर्ववाडित्यश्वविशेषः । सेनामध्य इतरेभ्योऽश्वेभ्यः । पूर्वं वहतीति वा पूर्वस्मिन्वयस्यत्यन्तबाल्य एव वहतीति वा पूर्ववाट् । अतस्तादृशमश्वमत्र पुरस्तान्नयेत् । तस्य च विभागक्षमत्वादेनयोरग्न्योः सैव विभक्तिर्विभागः संपद्यते । पूर्वदेशेऽवस्थित आहवनीयः पश्चिमदेशेऽवस्थितो गार्हपत्य इति विभागः । अपि च य धर्मसांकर्यपरिहारादेनावूभावग्नी भिन्नवीर्यावेव करोति । पत्नीसंयाजहोमाधारत्वलक्षणं वीर्यं गार्हपत्यस्यैव । आग्नेयादि- हविराधारत्वलक्षणमाहवनीयस्यैव । यदुक्तं सूत्रकारेण-“न कर्णदघ्नमत्युद्गृह्णाति” इति । तदिदं विधत्ते- यदु॑र्पर्युप॒रि शिरो॒ हरे॑त् । प्रा॒णान्वि॑च्छिन्द्यात् अधो॒ऽधः शिरो॑ हरति । प्रा॒णानां॑ गोपी॑थाय, इति । हस्तेनोद्धृत्याऽऽहवनीयं प्रति नीयमानमग्निं शिर उपर्युपरि शिरःसमीपवर्तिन्यूर्ध्वभागे धृत्वा यदि हरेत्तदा प्राणा विच्छिद्येरन् । अतः प्राणरक्षणाय शिरसः समीपवर्तिन्यधः प्रदेशे धृत्वा नयेत् । यदुक्तं सूत्रकारेण-“जानुदघ्न धारयमाणस्तृतीयमध्वनोऽग्नि ँ हरति नाभिदघ्ने तृतीयमास्यदघ्ने तृतीयम्” इति । तदेतदङ्गुल्याऽभिनयन्विधत्ते- इ॒यत्यग्रे॑ हरति । अथे॒यत्यथेय॑ति । त्रय इ॒मे लो॒काः । ए॒ष्वेवैनं॑ लो॒केषु॒ प्रति॑ष्ठितमाधत्ते, इति । इयति जानुदघ्ने । एवं नाभिदघ्नास्यदघ्नयोरपि । एतस्मादग्निप्रणयनात्पूर्वमग्नेर्विभागं विधत्ते- प्र॒जाप॑तिर॒ग्निम॑सृजत । 'सोऽबि॑भेत्प्र मां ध॑क्ष्य॒तीति॑ (७) । तस्य॑ त्रे॒धा म॑हि॒मानं॒ व्यौ॑हत् । शान्त्यै॒ अप्र॑दाहाय । यत्रे॒धाऽग्निराधी॒यते॑ । म॒हि॒मान॑मेवास्य॒ तद्व्यू॑हति । शान्त्यै॒ अप्र॑दाहाय, इति ।