तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 75, कुल 345 में से
संदर्भ में पढ़ें४६ (१.१.८) तैत्तिरीयब्राह्मणम् विध्यन्वयतोऽस्तोत्रं ब्रह्मोद्गाता तथा सति । विषयैक्याद्विकल्पोऽत्र षोडशिग्रहवन्मतः ॥ (इति) । आधाने वामदेव्यादिसाम्नां गानानि विहितानि । आधान एववेदमपरमाम्नायते-“उपवीता वा एतस्याग्नयो यस्याग्न्याधेये ब्रह्मा सामानि गायति” इति । उपशब्दः सामीप्यं ब्रूते । वीता विगताः कालविलम्बमन्तरेण परित्यक्ता इत्यर्थः । अनया निन्दया ब्रह्मणः सामगाननिषेध उन्नीयते । स निषेध उद्गातृविहितं वामदेव्यादिसामगानं स्तौति । ननु ब्रह्मणः सामगानमप्रसक्तम् । अतस्तन्निषेधोऽ त्यन्तमसंभावितत्वाच्छशविषाणवच्छून्यः । न हि वन्ध्यापुत्रो वा तद्वधो वा संभावयितुं शक्यते । तथा सति तादृशेन निषेधेन कथं स्तुतिरिति चेत् । वपोत्खेदवदिति ब्रूमः। स आत्मनो वपामुदखिद- दित्यनेनात्यन्तासंभावितार्थेन यथा प्राजापत्यस्य तूपरस्याजस्य विधिः स्तूयते तद्वदिति प्राप्ते ब्रूमः । नेदं वामदेव्यादि साम विधीनां स्तोत्रं भवितुमर्हति । विधीनामनेकत्वेन स्वस्वसंनिधिपठितैर- र्थवादैर्निराकाङ्क्षत्वेन च तदन्वयायोगात् । का तर्ह्यस्य वाक्यस्य गतिरिति चेत् । उच्यते ब्रह्मशब्दोऽत्र विप्रत्वजातिद्वारेणोद्गातारं ब्रूते । यस्य च गानं प्रसक्तं तस्मिन्निषेधे सति विधिनिषेधाभ्यामेकविषयाभ्यामुद्गातृगानं विकल्प्यते । (अथ) मीमांसा । एकादशाध्यायस्य तृतीयपादे चिन्तितम्- प्रतिकर्म पृथक्कार्यमाधानं यदि वा सकृत् । अन्याङ्गवत्पृथङ्गैवं स्वकालत्वसमत्वतः ॥ वसन्ते ब्राह्मणोऽग्निमादधीतेति विहितमाधानं प्रयाजाद्यङ्गवत्प्रतिकर्म पृथक्कार्यमिति चेत् । मैवम् । आधानस्य स्वातन्त्र्येण'वसन्तादिकाले विहिते तत्तत्कर्मकालेषु पृथगनुष्ठानायोगात् । स्वकालेऽनुष्ठितस्य सर्वैः कर्मभिः संबन्धः समानः । न च प्रकरणेन विशेषो नियन्तुं शक्यः । आधानस्यानारभ्याधीतत्वात् । “आहवनीये जुहोति” इत्यादिवाक्येन त्वैष्टिकपाशुकसौमिकदार्विकहोमेषु संबन्धः साधारणः प्रतिपाद्यते । तस्मात्तन्त्रेणानुष्ठेयम् । यद्यप्याधानं नेष्ट्यादिकर्मणां साक्षादङ्गं तथाऽपि पृथक्फलाभावादाहवनीयादिद्वारा कर्मोपकारित्वाच्चाङ्गत्वमभ्युपेत्येयं चिन्ता । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे प्रथमप्रपाठ केऽष्टमोऽनुवाकः ॥ ८ ॥