तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 74, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.१.८) ४५ ए॒ष्वे॒वैनं॑ लो॒केषु॒ प्रति॑ष्ठितमा॒धत्ते॒, इति॑ । हस्ते धृतस्याग्नेस्त्रिवारमूर्ध्वचलनेन लोकत्रयप्रतिष्ठा । तमेतं दूषयित्वा विनियोगान्तरं दर्शयति- तत्तथा॒ न का॒र्यम् । वीऽङ्गित॒मप्र॑तिष्ठितमाद॑धीत । उ॒द्धृत्यै॒वाऽऽधाया॑भिमन्त्र्यः । अवी॑ङ्गितमे॒वैनं॒ प्रति॑ष्ठितमाध॒त्ते, इति॑ । त्रिरूर्ध्वचलनेन वीङ्गितं विविधं चालितमप्रतिष्ठितमग्निमाहित- वान्भवोत् । तस्मात्तथोर्ध्वचलनं न कार्यम् । किंतु हस्ते सकृदुद्धृत्यैवाऽऽयतने तमग्निमाधाय पश्चात्सोऽग्निरनेन मन्त्रेण मन्त्रणीयः । तथा सति विविधचलनरहितं स्थिरत्वेन प्रतिष्ठितमग्निमाहितवान्भवति । विराडादिशब्दानां तात्पर्यं दर्शयति- वि॒राट् च॑ स्व॒राट् च॑ यास्तै॑ अग्ने शि॒वास्त॒नुव॒स्ताभि॑स्त्वाऽऽद॑ध॒ इत्या॑ह । ए॒ता वा अ॒ग्नेः शि॒वास्त॒नुव॑ः। ताभि॑रे॒वैन॒ ँ॒सम॑र्धयति, इति॑ । मन्त्रान्तरं विनियुङ्क्ते- यास्तै॑ अग्ने घो॒रास्त॒नुव॒स्ताभि॑र॒मुं ग॑च्छेति॑ ब्रूया॒द्यं द्वि॒ष्यात् । ताभि॑रे॒वैनं॑ परा॑भावयति (६), इति॑ । लो॒केऽसृ॑जत्तै॒नमाध॑त्तेऽन्वाहार्यप॒चनं॑ दे॒वाना॒मन्न॒मेनं॒ प्रति॑ष्ठित॒माध॑त्ते पञ्च॑ च । इति कृष्णयजुर्वेदीयतेत्तिरीयब्राह्मणे प्रथमाष्टके प्रथमाध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥ यं पुरुषमसौ यजमानो द्विष्यात्तं प्रत्येतं मन्त्रं ब्रूयात् । तथा सति ताभिरेव घोराभिस्तनुभिरेनं द्वेष्यं विनाशयति । अथ मीमांसा । दशमाध्यायस्याष्टमपादे चिन्तितम्- उन्नेयो ब्रह्मगानस्य निषेधो विहितस्तुतिः । विकल्पितो वा शून्योऽपि वपोत्खेद इव स्तुतिः ॥