तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 73, कुल 345 में से
संदर्भ में पढ़ें४४ (१.१.८) तैत्तिरीयब्राह्मणम् तामाशा॑स्ते, इति । प्राणशब्दस्य तात्पर्यं दर्शयति- 'वातः॑ प्रा॒ण इत्य॑न्वाहार्य॒पच॑नम् (४) । सप्रा॑णमे॒वैन॑माध॒त्ते, इति । स्वदितपितुशब्दयोस्तात्पर्यं दर्शयति- स्व॒दितं॑ तो॒काय॒ तन॑याय पि॒तुं प॑चेत्या॑ह । अन्न॑मे॒वास्मै॑ स्वदयति, इति । प्राचीं प्रेहीति पदद्वयस्य तात्पर्यं दर्शयति । प्राची॒मनु॑ प्र॒दिशं॑ प्रेहि वि॒द्वानित्या॑ह । विभ॑क्तिरे॒वैन॑योः सा । अथो॒ नाना॑वीर्यावे॒वैनौ॑ कुरुते, इति । येयं प्राच्यां दिशि गतिरयमेवैनयोराहवनीयगार्हपत्ययोर्विभागः । अपि च विभागे सति पूर्वोक्तरीत्या द्वयोः पृथक्सामर्थ्यं भवति । धेहीति पदस्याऽऽशीर्र्थत्वं दर्शयति- ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पद॒ इत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते, इति । अर्कशब्दस्य तात्पर्यं दर्शयति- अ॒र्कश्च॒रित्या॑हव॒नीय॑म् । अ॒र्को वै दे॒वाना॒मन्न॑म् (५) । अन्न॑मे॒वाव॑रुन्द्धे, इति । अर्चनीयत्वव्युत्पत्या देवानाम्नकारित्वादन्नप्राप्तिः । दीदिहिशब्दस्य समिन्धनार्थत्वं दर्शयति- तेन॑ मे दीदि॒हीत्या॑ह । समि॑न्ध ए॒वैन॑म्, इति । पूर्वपक्षहेतुत्वेन मंत्रस्य कंचिद्विनियोगं दर्शयति- आ॒न॒शे व्या॑न॒श इति॑ त्रि॒रुर्दि॒ङ्गय॑ति । त्र्य॑ इ॒मे लो॒काः॑ ।