तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 81, कुल 345 में से
संदर्भ में पढ़ें५२ (१.१.९) तैत्तिरीयब्राह्मणम् मथितस्याग्नेर्गार्हपत्याधानार्थमुद्धरणं विधत्ते- तं म॑न्थि॒त्वा प्राञ्च॒मुद्ध॑रति । सं॒व॒त्स॒रमे॒व तद्रेतौ॑ हि॒तं प्र॒जन॑यति, इति । अरणावुत्पन्नं मथितमग्निं कस्मिंश्चित्पात्रे प्राञ्चमुद्धरति, न तु प्रत्यञ्चम् । यथा लोके संवत्सरं गर्भे धत्ते रेतोऽन्ते प्रजनयति तद्वदेतद्भवति । ब्राह्मौदनिकेऽग्नौ गायत्र्यादिभिर्यः समिदाधानविधौ विधिरुक्तस्तमेव पक्षान्तरविधानाय पुनः परामृशति- अना॑हि॒तस्तस्या॒ग्निरित्या॑हुः । यः स॒मिधो॒ऽ ना॑धा॒या॒ग्निमाद॑धत॒ इति॑ । ताः सं॑वत्स॒रे पु॒रस्ता॒दाद॑ध्यात् । सं॒व॒त्स॒रादे॒वैन॑मव॒रुध्याऽऽध॑त्ते, इति । समिदाधानाभावे कृतमप्याधानमकृतमेव स्यादित्यभिज्ञा आहुः । तस्मादाधानात्पुरस्तात्संवत्सरपरिमिति काले समिदाधानं मुख्यः पक्षः। तमेतं मुख्यं पक्षमनूद्य तदसंभवेऽनुकल्पं विधत्ते- यदि॑ संवत्स॒रे नाऽऽद॑ध्यात् । द्वाद॒श्यां पु॒रस्ता॒दाद॑ध्यात् । सं॒व॒त्स॒रप्र॑तिमा॒ वै द्वाद॑श रात्र॑यः । सं॒व॒त्स॒रमे॒वाऽऽस्याहि॑ता भवन्ति, इति । आधानदिनमारभ्याधस्तनतिथिगणनायां या द्वादशसंख्यापूरणी तिथिस्तस्यां ताः समिध आदध्यात् । द्वादशानां रात्रीणां मासस्थानीयत्वेन मिलित्वा संवत्सरसादृश्यम् । पुनरप्यसंभवेऽनुकल्पान्तरं विधत्ते- यदि॑ द्वाद॒श्यां नाऽऽद॑ध्यात् । त्र्य॒हे पु॒रस्ता॒दाद॑ध्यात् । आहि॑ता ए॒वास्य॑ भवन्ति (१०), इति ।