तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 80, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.१.९) ५१ श्व आधा॑स्यमा॑नो ब्रह्मौद॒नं प॑चति । आ॒दि॒त्या वा इ॒त उत्त॑माः सु॑व॒र्गं लो॒कमा॑यन् । ते वा इ॒तो यन्तं॑ प्रति॒नुद॑न्ते । ए॒ते खलु॒ वावाऽऽदि॒त्याः । यद्ब्राह्म॑णाः । तैरे॒व स॒न्तवं॑ ग॑च्छति (८) । नैनं॒ प्रति॑नुदन्ते, इति । पुरा कदाचिदादित्या इतो भूलोकादुद्गततमाः स्वर्गं प्राप्ताः । ते चान्यं पुरुषमितः स्वर्गे गच्छन्तं प्रतिबध्नन्ति । भूलोकवर्तित्वात् । ब्राह्मणा एवादितिसंबन्धादादित्याः । अनेन ब्रह्मौदनेन तुष्टैस्तैर्ब्राह्मणैरादित्यैः सहस्वर्गप्राप्तौ संमतत्वं गच्छति । तत एनं न प्रतिबध्नन्ति । तस्य ब्राह्मौदनिकाग्नेः समिन्धनं तस्मिन्नरणिप्रतापनं च विधत्ते- ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । क्वा॑ सः । अ॒ग्निः कार्यः॑ । यो॑ऽ स्मै॑ प्र॒जां प॒शून्प्र॑ज॒नयतीति॑ । शल्कै॒स्ता ँ रात्री॒म् ग्निमि॑न्धीत । तस्मि॑न्नुपव्यु॒षम॑रणी॒ निष्ट॑पेत् । यथ॑र्ष॒भाय॑ वा॒शिता॒यावि॑च्छा॒यति॑ । ता॒दृगे॒व तत्, इति । आधातव्यो योऽग्निरस्मा आहिताग्नये प्रजां पशूंश्च संपादयति सोऽग्निः क्व कार्यः कुत्र संपादनीय इति ब्रह्मवादिनां प्रश्नः। तस्यैतदुत्तरम् । तस्यां रात्रौ निरन्तरं तस्मिन्काष्ठालैशैरग्निं समिन्ध्यऽग्नावुषः कालसमीपे मन्थनसाधनमरणिद्वयं निष्टपेन्निःशेषेण तपेत् । तेन स ब्राह्मौदनिकोऽग्निररण्योः प्रविशति । यथा लोके कस्मैचिदृषभाय प्रियाणि वाशितानि किकिटादिशब्दजातानि तदागमनाय विशेषेण संपादयति । तदरणिप्रतापनं तादृगेवेति द्रष्टव्यम् । अथ देशविशेषे मन्थनं विधत्ते- अपोदू॒ह्य भस्मा॒ग्निं मं॑न्थति (९) । सैव साऽग्नेः संत॑तिः, इति । ब्राह्मौदनिकाग्निसंबन्धिभस्मान्यपोदूह्य निःसार्य तस्मिन्स्थाने तप्ताभ्यामरणीभ्यामग्निं मन्थेत् । तस्मिन्स्थाने येयं मन्थनक्रिया सैव ब्राह्मोदनिकस्याग्नेरुत्पत्स्यमानेनाग्निना सह सा संततिः । तथाविधो विच्छेदाभावः।