तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 79, कुल 345 में से
संदर्भ में पढ़ें५० (१.१.९) .तैत्तिरीयब्राह्मणम् “समिधाऽग्निं दुवस्यत” इत्याद्या गायत्र्यः । “समिध्यमानः प्रथमोऽनु धर्मः” इत्याद्यास्त्रिष्टुभः । “त्वामग्ने समिधानम्” इत्याद्या जगत्यः । एताश्चोपरितनप्रपाठक आम्नास्यन्ते । गायत्रीब्राह्मणयोरेकमुखत्वं संबन्धः। अतः स्वकीयस्यैव गायत्रीछन्दसः प्रत्ययनस्त्वाय पुनः प्राप्तये गायत्रीभिर्ब्राह्मणास्याऽऽदध्यात् । एवमुत्तरयोर्वाक्ययोर्योज्यम् । समिद्धस्य ब्राह्मौदनिकाग्नेश्चिरावस्थानं विधत्ते- त ँसंव॑त्स॒रं गोपायेत॒ । सं॒व॒त्स॒र ँहि॒ रेतो॑ हि॒तं वर्ध॑ते, इति । यस्माल्लोके गर्भाशये स्थापितं रेतः संवत्सरं वर्धते तस्मादग्निरूपस्य गर्भस्य वृद्धये संवत्सरमभिरक्षेत् । यदुक्तं सूत्रकारेण-“यद्येन ँ संवत्सरेऽग्न्याधेयं नोपनमेद्ब्रह्मौदनं पक्त्वा समिध आधाय यदैवेनमुपनमेदथाऽऽदधीत” इति । तदिदं विधत्ते- यद्ये॑न ँसंवत्स॒रे नोप॒नमे॑त् । स॒मिधः॒ पुन॒राद॑ध्यात् । रेत॑ ए॒व तद्धि॒तं वर्ध॑मानमेति, इति । केनापि द्रव्यराहित्यादिना निमित्तेनास्य यजमानस्या- ग्न्याधेयप्राप्तिर्यदि न स्यात्तदा संवत्सरगोपिते तस्मिन्ब्राह्मौदनिकेऽग्नौ समिध आधाय तत्सिद्धिपर्यन्तं गोपायेत् । तेन गर्भाशये स्थापितं रेतः संवत्सरं वर्धते । तस्मादग्निरूपस्य गर्भस्य वृद्धये संवत्सरमभिरक्षेत् । तेन गर्भाशये स्थापितं वर्धमानं रेतः प्राप्नोति । ब्राह्मौदनिकस्य रक्षणकर्तुर्नियमविशेषं विधत्ते- न मा॒ ँसम॑श्नीयात् । न स्त्रिय॑मु॒पेयात् (७), इति । व्यतिरेकमुखेन नियमं प्रशंसति- यन्मा॒ ँसम॑श्नी॒यात् । यत्स्त्रिय॑मुपे॒यात् । निर्वी॑र्यः स्यात् । नैन॑म॒ग्निरुप॑नमेत्, इति । अग्न्याधेयं न प्राप्नुयादित्यर्थः । आधानदिनात्पूर्वदिने पुनर्ब्रह्मौदनं विधत्ते-