तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 78, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.१.९) ४९ यज्ञस्य परु पर्वावयवविशेषः पवित्ररूपः । तस्य च प्रादेशप्रमाणं तन्मन्त्रे समाम्नातम् -“त्रिवृत्पलाशे दर्भ इयान्प्रादेशसंमितः” इति । अतो यज्ञपर्वणा तुल्यत्वम् । किंच पुरुषविशेषे चक्षुःश्रोत्रादिज्ञानेन्द्रियसामर्थ्यं प्रादेशपरिमिते मुखे वर्तते । अतस्तेन वीर्येण तुल्यत्वम् । तासां समिधां शुष्कत्वं वारयितुं विधत्ते- आ॒र्द्रा भ॑वन्ति । आ॒र्द्रमि॑व॒ हि रेत॑: सि॒च्यते॑, इति । इवशब्द एवकारार्थः । समिधां वृक्षविशेषं विधत्ते- चित्रिय॑स्याश्व॒त्थस्याऽऽद॑धाति । चि॒त्रमे॒व भ॑वति, इति । अश्वत्थग्रामोऽश्वत्थचित्रक इत्युच्यते । योऽश्वत्थो ग्रामादेश्चिह्नीभूतस्तदीयाः समिध आदध्यात् । तेन विचित्रमेवैश्वर्यं भवति । समिदाधानार्थानृग्विंशेषान्विधत्ते- घृ॒तव॑तीभि॒राद॑धाति (५) । ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम॑ । यद् घृ॒तम् । प्रि॒येणै॒वैनं॒ धाम्ना॒ समर्धयति । अथो॒ तेज॑सा, इति । घृतशब्दो यास्वृक्षु स्थितस्ता घृतवत्यः । घृ॒तेना॑र्धयतातिथि॒मित्येवं घृतशब्दस्तत्र श्रूयते । घृतेन ज्वालाभिवृद्धेरग्नेर्घृतप्रियत्वम् । अतस्तेन घृतयुक्तेन मन्त्रेण समिध आदधानः प्रियेण स्थानेन समृद्धो भवति । अपि च तेजसा समृद्धो भवति । अधिकारिभेदादृग्व्यवस्थां विधत्ते- गा॒य॒त्रीभि॑र्ब्राह्म॒णस्याऽऽद॑ध्यात् । गा॒य॒त्रच्छ॑न्दा॒ वै ब्राह्म॒णः । स्वस्यै॒व च्छन्द॑सः प्रत्यय॒नुस्त्वार्य॑ । त्रि॒ष्टुभी॑ रा॒ज॒न्य॑स्य । त्रि॒ष्टुप्छ॑न्दा॒ वै रा॒ज॒न्य॑ः । स्वस्यै॒व च्छन्द॑सः प्रत्यय॒नुस्त्वार्य॑ (६) । जग॑तीभि॒र्वैश्य॑स्य । जग॑तीछन्दा॒ वै वैश्य॑: । स्वस्यै॒व च्छन्द॑सः प्रत्यय॒नुस्त्वार्य॑, इति ।