भारतकोश
संग्रह पर लौटें

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

तैत्तिरीयब्राह्मणम् (१.१.९) ४९ यज्ञस्य परु पर्वावयवविशेषः पवित्ररूपः । तस्य च प्रादेशप्रमाणं तन्मन्त्रे समाम्नातम् -“त्रिवृत्पलाशे दर्भ इयान्प्रादेशसंमितः” इति । अतो यज्ञपर्वणा तुल्यत्वम् । किंच पुरुषविशेषे चक्षुःश्रोत्रादिज्ञानेन्द्रियसामर्थ्यं प्रादेशपरिमिते मुखे वर्तते । अतस्तेन वीर्येण तुल्यत्वम् । तासां समिधां शुष्कत्वं वारयितुं विधत्ते- आ॒र्द्रा भ॑वन्ति । आ॒र्द्रमि॑व॒ हि रेत॑: सि॒च्यते॑, इति । इवशब्द एवकारार्थः । समिधां वृक्षविशेषं विधत्ते- चित्रिय॑स्याश्व॒त्थस्याऽऽद॑धाति । चि॒त्रमे॒व भ॑वति, इति । अश्वत्थग्रामोऽश्वत्थचित्रक इत्युच्यते । योऽश्वत्थो ग्रामादेश्चिह्नीभूतस्तदीयाः समिध आदध्यात् । तेन विचित्रमेवैश्वर्यं भवति । समिदाधानार्थानृग्विंशेषान्विधत्ते- घृ॒तव॑तीभि॒राद॑धाति (५) । ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम॑ । यद् घृ॒तम् । प्रि॒येणै॒वैनं॒ धाम्ना॒ समर्धयति । अथो॒ तेज॑सा, इति । घृतशब्दो यास्वृक्षु स्थितस्ता घृतवत्यः । घृ॒तेना॑र्धयतातिथि॒मित्येवं घृतशब्दस्तत्र श्रूयते । घृतेन ज्वालाभिवृद्धेरग्नेर्घृतप्रियत्वम् । अतस्तेन घृतयुक्तेन मन्त्रेण समिध आदधानः प्रियेण स्थानेन समृद्धो भवति । अपि च तेजसा समृद्धो भवति । अधिकारिभेदादृग्व्यवस्थां विधत्ते- गा॒य॒त्रीभि॑र्ब्राह्म॒णस्याऽऽद॑ध्यात् । गा॒य॒त्रच्छ॑न्दा॒ वै ब्राह्म॒णः । स्वस्यै॒व च्छन्द॑सः प्रत्यय॒नुस्त्वार्य॑ । त्रि॒ष्टुभी॑ रा॒ज॒न्य॑स्य । त्रि॒ष्टुप्छ॑न्दा॒ वै रा॒ज॒न्य॑ः । स्वस्यै॒व च्छन्द॑सः प्रत्यय॒नुस्त्वार्य॑ (६) । जग॑तीभि॒र्वैश्य॑स्य । जग॑तीछन्दा॒ वै वैश्य॑: । स्वस्यै॒व च्छन्द॑सः प्रत्यय॒नुस्त्वार्य॑, इति ।

प्रथमोऽनु धर्मः” इत्याद्यास्त्रिष्टुभः । “त्वामग्ने समिधानम्” इत्याद्या

५० (१.१.९) .तैत्तिरीयब्राह्मणम् “समिधाऽग्निं दुवस्यत” इत्याद्या गायत्र्यः । “समिध्यमानः प्रथमोऽनु धर्मः” इत्याद्यास्त्रिष्टुभः । “त्वामग्ने समिधानम्” इत्याद्या जगत्यः । एताश्चोपरितनप्रपाठक आम्नास्यन्ते । गायत्रीब्राह्मणयोरेकमुखत्वं संबन्धः। अतः स्वकीयस्यैव गायत्रीछन्दसः प्रत्ययनस्त्वाय पुनः प्राप्तये गायत्रीभिर्ब्राह्मणास्याऽऽदध्यात् । एवमुत्तरयोर्वाक्ययोर्योज्यम् । समिद्धस्य ब्राह्मौदनिकाग्नेश्चिरावस्थानं विधत्ते- त ँसंव॑त्स॒रं गोपायेत॒ । सं॒व॒त्स॒र ँहि॒ रेतो॑ हि॒तं वर्ध॑ते, इति । यस्माल्लोके गर्भाशये स्थापितं रेतः संवत्सरं वर्धते तस्मादग्निरूपस्य गर्भस्य वृद्धये संवत्सरमभिरक्षेत् । यदुक्तं सूत्रकारेण-“यद्येन ँ संवत्सरेऽग्न्याधेयं नोपनमेद्ब्रह्मौदनं पक्त्वा समिध आधाय यदैवेनमुपनमेदथाऽऽदधीत” इति । तदिदं विधत्ते- यद्ये॑न ँसंवत्स॒रे नोप॒नमे॑त् । स॒मिधः॒ पुन॒राद॑ध्यात् । रेत॑ ए॒व तद्धि॒तं वर्ध॑मानमेति, इति । केनापि द्रव्यराहित्यादिना निमित्तेनास्य यजमानस्या- ग्न्याधेयप्राप्तिर्यदि न स्यात्तदा संवत्सरगोपिते तस्मिन्ब्राह्मौदनिकेऽग्नौ समिध आधाय तत्सिद्धिपर्यन्तं गोपायेत् । तेन गर्भाशये स्थापितं रेतः संवत्सरं वर्धते । तस्मादग्निरूपस्य गर्भस्य वृद्धये संवत्सरमभिरक्षेत् । तेन गर्भाशये स्थापितं वर्धमानं रेतः प्राप्नोति । ब्राह्मौदनिकस्य रक्षणकर्तुर्नियमविशेषं विधत्ते- न मा॒ ँसम॑श्नीयात् । न स्त्रिय॑मु॒पेयात् (७), इति । व्यतिरेकमुखेन नियमं प्रशंसति- यन्मा॒ ँसम॑श्नी॒यात् । यत्स्त्रिय॑मुपे॒यात् । निर्वी॑र्यः स्यात् । नैन॑म॒ग्निरुप॑नमेत्, इति । अग्न्याधेयं न प्राप्नुयादित्यर्थः । आधानदिनात्पूर्वदिने पुनर्ब्रह्मौदनं विधत्ते-

तैत्तिरीयब्राह्मणम् (१.१.९) ५१ श्व आधा॑स्यमा॑नो ब्रह्मौद॒नं प॑चति । आ॒दि॒त्या वा इ॒त उत्त॑माः सु॑व॒र्गं लो॒कमा॑यन् । ते वा इ॒तो यन्तं॑ प्रति॒नुद॑न्ते । ए॒ते खलु॒ वावाऽऽदि॒त्याः । यद्ब्राह्म॑णाः । तैरे॒व स॒न्तवं॑ ग॑च्छति (८) । नैनं॒ प्रति॑नुदन्ते, इति । पुरा कदाचिदादित्या इतो भूलोकादुद्गततमाः स्वर्गं प्राप्ताः । ते चान्यं पुरुषमितः स्वर्गे गच्छन्तं प्रतिबध्नन्ति । भूलोकवर्तित्वात् । ब्राह्मणा एवादितिसंबन्धादादित्याः । अनेन ब्रह्मौदनेन तुष्टैस्तैर्ब्राह्मणैरादित्यैः सहस्वर्गप्राप्तौ संमतत्वं गच्छति । तत एनं न प्रतिबध्नन्ति । तस्य ब्राह्मौदनिकाग्नेः समिन्धनं तस्मिन्नरणिप्रतापनं च विधत्ते- ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । क्वा॑ सः । अ॒ग्निः कार्यः॑ । यो॑ऽ स्मै॑ प्र॒जां प॒शून्प्र॑ज॒नयतीति॑ । शल्कै॒स्ता ँ रात्री॒म् ग्निमि॑न्धीत । तस्मि॑न्नुपव्यु॒षम॑रणी॒ निष्ट॑पेत् । यथ॑र्ष॒भाय॑ वा॒शिता॒यावि॑च्छा॒यति॑ । ता॒दृगे॒व तत्, इति । आधातव्यो योऽग्निरस्मा आहिताग्नये प्रजां पशूंश्च संपादयति सोऽग्निः क्व कार्यः कुत्र संपादनीय इति ब्रह्मवादिनां प्रश्नः। तस्यैतदुत्तरम् । तस्यां रात्रौ निरन्तरं तस्मिन्काष्ठालैशैरग्निं समिन्ध्यऽग्नावुषः कालसमीपे मन्थनसाधनमरणिद्वयं निष्टपेन्निःशेषेण तपेत् । तेन स ब्राह्मौदनिकोऽग्निररण्योः प्रविशति । यथा लोके कस्मैचिदृषभाय प्रियाणि वाशितानि किकिटादिशब्दजातानि तदागमनाय विशेषेण संपादयति । तदरणिप्रतापनं तादृगेवेति द्रष्टव्यम् । अथ देशविशेषे मन्थनं विधत्ते- अपोदू॒ह्य भस्मा॒ग्निं मं॑न्थति (९) । सैव साऽग्नेः संत॑तिः, इति । ब्राह्मौदनिकाग्निसंबन्धिभस्मान्यपोदूह्य निःसार्य तस्मिन्स्थाने तप्ताभ्यामरणीभ्यामग्निं मन्थेत् । तस्मिन्स्थाने येयं मन्थनक्रिया सैव ब्राह्मोदनिकस्याग्नेरुत्पत्स्यमानेनाग्निना सह सा संततिः । तथाविधो विच्छेदाभावः।

५२ (१.१.९) तैत्तिरीयब्राह्मणम् मथितस्याग्नेर्गार्हपत्याधानार्थमुद्धरणं विधत्ते- तं म॑न्थि॒त्वा प्राञ्च॒मुद्ध॑रति । सं॒व॒त्स॒रमे॒व तद्रेतौ॑ हि॒तं प्र॒जन॑यति, इति । अरणावुत्पन्नं मथितमग्निं कस्मिंश्चित्पात्रे प्राञ्चमुद्धरति, न तु प्रत्यञ्चम् । यथा लोके संवत्सरं गर्भे धत्ते रेतोऽन्ते प्रजनयति तद्वदेतद्भवति । ब्राह्मौदनिकेऽग्नौ गायत्र्यादिभिर्यः समिदाधानविधौ विधिरुक्तस्तमेव पक्षान्तरविधानाय पुनः परामृशति- अना॑हि॒तस्तस्या॒ग्निरित्या॑हुः । यः स॒मिधो॒ऽ ना॑धा॒या॒ग्निमाद॑धत॒ इति॑ । ताः सं॑वत्स॒रे पु॒रस्ता॒दाद॑ध्यात् । सं॒व॒त्स॒रादे॒वैन॑मव॒रुध्याऽऽध॑त्ते, इति । समिदाधानाभावे कृतमप्याधानमकृतमेव स्यादित्यभिज्ञा आहुः । तस्मादाधानात्पुरस्तात्संवत्सरपरिमिति काले समिदाधानं मुख्यः पक्षः। तमेतं मुख्यं पक्षमनूद्य तदसंभवेऽनुकल्पं विधत्ते- यदि॑ संवत्स॒रे नाऽऽद॑ध्यात् । द्वाद॒श्यां पु॒रस्ता॒दाद॑ध्यात् । सं॒व॒त्स॒रप्र॑तिमा॒ वै द्वाद॑श रात्र॑यः । सं॒व॒त्स॒रमे॒वाऽऽस्याहि॑ता भवन्ति, इति । आधानदिनमारभ्याधस्तनतिथिगणनायां या द्वादशसंख्यापूरणी तिथिस्तस्यां ताः समिध आदध्यात् । द्वादशानां रात्रीणां मासस्थानीयत्वेन मिलित्वा संवत्सरसादृश्यम् । पुनरप्यसंभवेऽनुकल्पान्तरं विधत्ते- यदि॑ द्वाद॒श्यां नाऽऽद॑ध्यात् । त्र्य॒हे पु॒रस्ता॒दाद॑ध्यात् । आहि॑ता ए॒वास्य॑ भवन्ति (१०), इति ।

तैत्तिरीयब्राह्मणम् (१.१.१०) ५३ द्वि॒तीय॑मपच॒च्चतु॑र्थमपच॒द्दितीर॑तोऽधत्त सं॒मिताघृ॒तवती॑भिरा॒र्दधा॑ति रा॒जन्य॑:स्व॒स्य छन्द॑सः प्र॒त्यय॑न॒स्त्वो॑र्येयाद॒गच्छ॑ति । म॑न्थति रा॒त्र॑यश्च॒त्वारि॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके प्रथमाध्याये नवमोऽनुवाकः ॥ ९ ॥ पूर्ववद् व्याख्येयम् । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे प्रथमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥ अथ दशमोऽनुवाकः । नवमे ब्रह्मौदनाऽभिहितः । अथ दशमं पञ्चाग्न्याधानमभिधीयते । पूर्वं पञ्चमेऽनुवाके यत्रेधाऽग्निरधीयत इत्यग्नित्रयाधानपक्ष एवाभिहितः। इह तु पञ्चाग्न्याधानं विधातुमाख्यायिकामाह- प्र॒जाप॑तिः प्र॒जा असृ॑जत । स रि॑रिचा॒नोऽम॑न्यत । स तपो॑ऽतप्यत । स आ॒त्मन्वी॒र्य॑मपश्यत् । तद॑वर्धत । तद॑स्मा॒त्सह॑सो॒र्ध्वमसृ॑ज्यत । सा वि॒राड॑भवत् । तां दैवा॑सु॒रा व्य॑गृह्णत । सोऽब्रवीत्प्र॒जाप॑तिः । मम॒ वा ए॒षा (१) । दोहो॑ ए॒व यु॒ष्माक॒मिति॑, इति । प्रजापतिः प्रजाः सृष्ट्वा स्वकीयस्य वीर्यस्योपक्षयेण रिक्तोऽहमिति मत्वा वीर्यलाभाय स तपस्तप्त्वा स्वात्मनि किंचिद्वीर्यमपश्यत् । तच्च वीर्यं कालेनावर्धत । तत्प्रवृद्धं वीर्यं धारयितुमशक्यं सच्छीघ्रमेवास्मात्प्रजापतेरूर्ध्वं निर्गत्य केनचिद्रूपेण सृष्टमभूत् । सा सृष्टा निष्पन्ना विविधं राजमाना काचिद्गौरभवत् । तामुद्दिश्य देवाश्चासुराश्च वयमेवैतां गृह्णीम इत्येवं परस्परं विग्रहमकुर्वन् । तदा विग्रहशान्तये प्रजापतिरेवमब्रवीत् । एषा गौर्ममैवेति । युष्माकं तु दोहा एव क्षीराण्येवेति । सा ततः॒ प्राच्युद॑क्रामत् । तत्प्र॒जाप॑तिः पर्य॑गृह्णात् । अथ॑र्व पि॒तुं मे॑ गोपायेति॑ । सा द्वि॒तीय॒मुद॑क्रामत् । तत्प्र॒जाप॑तिः पर्य॑गृह्णात् । नर्य॑ प्र॒जां मे॑ गोपायेति॑ । सा तृ॒तीय॒मुद॑क्रामत् ।

५४ (१.१.१०) तैत्तिरीयब्राह्मणम् तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । शस्य॑ ँ॑प॒शून्मै॑ गोपा॒येति॑ (२) । सा च॑तु॒र्थमुद॑क्रामत् । तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । सप्र॑थ सभां॑ मे॑ गोपा॒येति॑ । सा प॑ञ्च॒ममुद॑क्रामत् । तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । अहे॑ बु॒ध्निय॒ मन्त्रं॑ मे गोपा॒येति॑ । अ॒ग्नीन्वाव सा तान्व॑क्रमत । तान्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । अथो॑ पा॒ङ्क्तमे॒व, इति । येयं गौः प्रजापतिना स्वार्थमेव स्वीकृता विराट् सा प्रजापतेः सकाशात्प्राङ्मुखी सत्युदक्रामत् . तदा प्रजापतिरथर्वेति मन्त्रेण तां विराजं परितो निरुद्धवान् । हेऽथर्व चतुर्थवेदप्रवर्तकाचार्यरूप दक्षिणाग्ने, यद्वा हिंसारहितं मे पितुं मदीयमन्रं गोपाय । एवमुत्तरेषु चर्तुषु योज्यम् । नरेभ्यो मनुष्येभ्यो हितो नर्यो गार्हपत्यः । ऋत्विग्भिः प्रशंसनीयरूपत्वाच्छंस्य आहवनीयः । प्रथया कीर्त्या सह वर्तमानत्वात्सप्रथः सभ्यः । अहिंसकत्वादबुध्ने मूले जगदादावुत्पन्नत्वादहिर्बुध्निय आवसथ्यः । ऋगादिर्भन्त्रः । इत्थं सैव विराट् तानग्नीन्पञ्चधा विवेक्तुं पञ्चवारं व्यक्रामत् । तान्यञ्चाग्नीन्प्रजापतिः परितः स्वीकृतवान् । अपि च क्रमेणावस्थानात्पञ्चसंख्यान्वयाद्वा पङ्क्तमेवैतावदग्निविषयां गृहीतवान् । इदानीं विधत्ते- पा॒ङ्क्तिर्वा ए॒षा ब्राह्म॑णे प्रवि॑ष्टा (३) । तामा॒त्मनोऽधि॑ निर्मि॑मीते । यद॒ग्निरा॑धी॒यते॑ । तस्मा॑दे॒ताव॑न्तो॒ऽग्नय॑ आधी॑यन्ते । पा॒ङ्क्त वा इद ँसर्व॑म् । पा॒ङ्क्तेनै॒व पा॒ङ्क्त ँ स्पृणोति, इति । पूर्वोक्तानामाथर्वंत्यादीनां मन्त्राणां ब्राह्मणेनाधीतत्वात्प्रजापति- प्रतिपाद्यत्वाद्वा पङ्क्तिर्विप्रे प्रविष्टा । तथा सत्यग्न्याधानेन तां पङ्क्तिं तस्मादुत्पादयति । तस्मादेतावन्तः पञ्चाग्नय आधातव्याः । यदिदं मनुष्यपश्वादिरूपं जगत्सर्वं पञ्चसंख्यॉपेतत्वात्पाङ्क्तम् । शिरो हस्तौ पादौ चेत्येवं मनुष्याणां पञ्चावयवाः । शिरसा पुच्छेन वा सह चत्वारः पादाः पशूनां पञ्चावयवाः। अतः पञ्चसंख्यायुक्तेनैवाग्निना पञ्चसंख्यायुक्तं जगत्प्रीणयति । अथ मन्त्राणां तात्पर्यं क्रमेण दर्शयति-

तैत्तिरीयब्राह्मणम् (१.१.१०) ५५ अथ॑र्व पि॒तुं मे॑ गोपायेत्या॑ह । अ॒न्नमे॒वैतेन॑ स्पृणोति । नर्य॑ प्र॒जां मे॑ गोपायेत्या॑ह । प्र॒जामे॒वैतेन॑ स्पृणोति । शस्य॑ ँ प॒शून्मे॑ गोपायेत्या॑ह (४) । प॒शूने॒वैतेन॑ स्पृणोति । स॒प्रथ॑ सभां मे॑ गोपायेत्या॑ह । स॒भामे॒वैतेनै॑न्द्रि॒य ँ स्पृ॑णोति । अ॒हे॑ बु॒ध्निय॒ मन्त्रं॑ मे गोपायेत्या॑ह । मन्त्र॑मे॒वैतेन॑ । श्रिय॑ ँ स्पृणोति, इति । मन्त्रे तानिन्द्रियावत इत्यभिधानादिन्द्रियप्रीतिः । सा हि श्रीरित्यभिधानाच्छ्रियः प्रीतिः । पञ्चानामग्नीनां पृथगुपयोगं दर्शयन्प्रशंसति- यद॑न्वाहार्यपच॑नेऽन्वाहार्यं॒ पच॑न्ति । तेन॒ सो॑ऽस्या॒भीष्ट॑: प्री॒तः । यद्गा'हपत्य॒ आज्य॑मधिश्रय॑न्ति संपत्नी॑र्य॒जय॑न्ति । तेन॒ सो॑ऽस्या॒भीष्ट॑: प्री॒तः । यदा॑हव॒नीये॑ जु॒ह्वति॑ (५) । तेन॒ सो॑ऽस्या॒भीष्ट॑: प्री॒तः । यत्स॒भायां वि॒जय॑न्ते । तेन॒ सो॑ऽस्या॒भीष्ट॑: प्री॒तः । यदा॑वस॒थेऽन्न॑ ँ हर॑न्ति । तेन॒ सो॑ऽस्या॒भीष्ट॑: प्री॒तः । तथा॑ऽस्य॒ सर्वे॑ प्री॒ता अ॒भीष्टा॒ आधी॑यन्ते, इति । दर्शपूर्णमासकर्मणि ऋत्विजामनु दक्षिणार्थं आह्नियत इत्योदनो ऽन्वाहार्यः । स च पच्यते यस्मिन्दक्षिणाग्नौ सोऽयमन्वाहार्यपचनः । तेनौदनपाकेनोपयुक्तत्वात्स दक्षिणाग्निरस्य यजमानस्याभीष्टोऽपि भवति । एतदीयपरिचर्यया प्रीतश्च भवति । एवमुत्तरत्रापि । गार्हपत्ये ह्याज्यं विलापयन्ति । देवपत्नीश्च संयाजयन्ति । अतः पत्नीसंबन्धाद् गृहपतिना संयुक्त इति गार्हपत्यः । प्रधानाहुति जुहोत्यस्मिन्नित्याहवनीयः । अथ सभाया मध्येऽधिदेवनमुद्धृत्येत्यादिना द्यूतविजयः सूत्रेऽभिहितः । तां द्यूतसभामर्हतीति सभ्यः । “तदन्नं संस्कृत्य सभासद्भ्य-उपहरन्त्यावसथे भुञ्जते” इति .सूत्रेऽन्नहरणमुक्तम् । तद् गृहमावसथः । तमर्हतीत्यावसथ्यः । तेनोक्तप्रकारेण सर्वेऽप्यग्नयोऽस्य यजमानस्य प्रीतिपूर्वकमभीष्टं संपादयन्त आहिता भवन्ति ।

५६ (१.१.१०) तैत्तिरीयब्राह्मणम् पूर्वोक्तैरथर्व पितुमित्यादिमन्त्रैरुपस्थानं विधत्ते- प्र॒वस॒न्मेष्य॒न्नेवमु॑पतिष्ठे॒तैक॑मे॒कम् । यथो॑ ब्राह्म॒णाय॑ गृ॒हेवा॒सिने॑ परि॒दाय॑ गृ॒हानेति॑ । ता॒दृगे॒व तत्, इति । आहिताग्निर्यदा देशान्तरं गमिष्यति तदा पूर्ववदुपतिष्ठेत । पूर्ववत्प्रजापतिर्विराजः क्रमेणाथर्व पितुमित्यादिमन्त्रैर्विराजं परिगृहीतवानित्यर्थवाद उक्तः । तेनार्थवादेनाऽऽधानकालीनस्यो- पस्थानस्य विधिरुन्नेयः । अत एव सूत्रकार आधानादूर्ध्वं पवमानेष्टिभ्यः पूर्वमेतदुवाच-“अथ विराट् क्रमैर्यजमान उपतिष्ठते, अथर्वपितुं मे गोपाय” इत्यादि । अत आधानाकालीनमुपस्थानं दृष्टान्तीकर्तुमेवमित्युक्तम् । यथा लोके गृहस्वामी कश्चिदन्यं कंचिद्ब्राह्मणं गृहरक्षार्थं वासयित्वा तस्मै ब्राह्मणाय गृहान्परिदाय त्वमेवमेवं रक्षेति बुद्धिप्रदानं कृत्वा ग्रामान्तरं गच्छति तादृगेव तदुपस्थानं द्रष्टव्यम् । उपस्थानान्तरं विधत्ते- पुन॑रा॒गत्योप॑तिष्ठते । साऽभा॒गेय॑मे॒वैषां॒ तत् । सा तर्त॑ ऊ॒र्ध्वाऽऽरो॑हत् । सा रो॑हि॒ण्य॑भवत् । तद्रो॑हि॒ण्यै रो॑हिणि॒त्वम् । रो॒हि॒ण्याम॒ग्निमाद॑धीत । स्व ए॒वैनं॒ योनौ॑ प्रति॑ष्ठित॒माध॑त्ते । ऋ॒ध्नोत्ये॑नेन (६), इति । एषा पशून्मे॑ गोपायेति॒ प्रवि॑ष्टा पशून्मे॑ गोपायेत्या॑हु जुहो॑ति तिष्ठ॑ते सप्त च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके दशमोऽनुवाकः ॥ १० ॥ ग्रामान्तरादागत्य पुनरप्याहिताग्नीनथर्व पितुमित्यादिमन्त्रै- रुपतिष्ठेत । ते च प्रत्येकमुपस्थानमन्त्राः संध्योपस्थानमन्त्रस्तु पञ्चधाऽ ग्नीन्व्यक्रामदित्यादिः । स चैवमुत्तरप्रपाठके पठिष्यते-‘ ‘पञ्चधाऽग्नीन्व्यक्रामत् । विराट् सृष्टा प्रजापतेः। ऊर्ध्वाऽऽरोहद्रोहिणी । योनिरग्नेः प्रतिष्ठितिः” इति । गेयमित्यादिना तदीयतात्पर्यमुच्यते । येयं प्रजापतिसृष्टा विराट् सेयं तदानीमेषामग्नीनां भागरहिताऽभूत् । अन्वाहार्यं पचन्त्याज्यमधिश्रयन्तीत्याद्युपयोगो यथाऽग्नीनामभिहितो न तथा विराजः कश्चिदुपयोग उक्तः । तस्मादभागत्वम् । सा च भागरहिता ततो देशादूर्ध्वा

अनुवाका दश प्रोक्ताः प्रथमेऽस्मिन्प्रपाठके।

तैत्तिरीयब्राह्मणम् (१.१.१०) ५७ भूत्वा दिवमारोहत् । आरुह्य च रोहिणीनक्षत्ररूपाऽभूत् । रोहनीति व्युत्पत्या रोहिणी नाम संपन्नम् । एवं च सति रोहिण्यामग्न्याधानेन स्वकारण एवाग्निः प्रतिष्ठित आहितोभवति । रोहिण्या विराड्- रूपेणाग्निकारणत्वात् । तथा च सत्युपयुक्तत्वाद्विराट् सभागा संपद्यते। आधाता च समृद्धिं प्राप्नोति। अत एव पूर्वत्र-यो रोहिण्यामग्निमाधत्ते । ऋध्नोत्येव' इति विहितम् । अत्र तु तद्विध्यनुवादेन विराण्मन्त्रः प्रशस्यते । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे प्रथमप्रपाठके दशमोऽनुवाकः॥ १० ॥ ब्रह्म॒ संध॑त्तं कृत्तिकासूद्ध॑न्ति द्वादशसु॑ प्र॒जाप॑तिर्वाचो॒ दैवा॑सुरा धर्मः शिर॒ इ॒मे वै श॑मीग॒र्भात्प्र॒जाप॑तिः स रिंरिचा॒नः स तपः स आ॒त्मन्वी॒र्यं॑ दश॑ ।। ब्रह्म॒ संध॑त्तं तौ दि॒व्यावथौ॑ शन्त्वा॒य प्राच्यैषां॒ यदु॒पर्य॑परि॒ यत्स॒द्यः सोऽश्वं॒ वारो॑ भू॒त्वा जग॑तीभिरशी॒तिः । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके प्रथमोऽध्यायः ॥ १ ॥ अस्य प्रपाठकस्य विनियोगसंग्रहः- अनुवाका दश प्रोक्ताः प्रथमेऽस्मिन्प्रपाठके। शुक्रामन्थिगता मन्त्रा आधाने कालनिर्णयः ॥ १ ॥ संभारविधिरोधानं तत्प्रकारस्तथेष्टयः ।। आधानमन्त्रव्याख्यानं ब्रह्मोदनविधस्तथा । पञ्चाग्निपक्ष इत्येवमनुवाका उदीरिताः ।। २ ।। वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थंश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।। ३ ।। इति श्रीमद्वीरबुक्कणसाम्राज्यधुरंधरश्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे प्रथमः प्रपाठकः समाप्तः ॥ १ ॥ (मूलक्रमेण-अष्ट० १ अध्या. १ अनु. १०) (भाष्यक्रमेण-का. १ प्रपा. १ अनु. १०) ।

५८ (१.२.१) तैत्तिरीयब्राह्मणम्

अथ द्वितीयप्रपाठकारम्भः । तत्र प्रथमोऽनुवाकः । यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।। १ ।। आद्ये प्रपाठके प्रोक्तो विधिराधानगोऽखिलः । गवामयनशेषोऽयं द्वितीयेऽस्मिन्नुदीर्यते ।। २ ।। आद्यानुवाक आधाने ये मन्त्रा नोदिताः पुरा । ते सर्वेऽप्यभिधीयन्ते पूर्वशेषो भवेत्ततः ।। ३ ।। उ॒द्धन्यमा॑नमस्या अमे॑ध्यम् । अप॑ पा॒प्मानं॑ यज॑मानस्य हन्तु । शिवा न॑ः सन्तु प्र॒दिश॒श्चत॑स्रः । शं नौ॑ मा॒ता पृ॑थि॒वी तो॒कसा॑ता । कल्पः-‘‘उद्धन्यमानमस्याः अमेध्यमप पाप्मानं यजमानस्य हन्तु शिवा नः सन्तु प्रदिशश्चतस्रः शं नो माता पृथिवी तोकसाता, इति प्राचीनप्रवणं देवयजनमुद्धत्य’’ इति । अस्याः पृथिव्याः संबन्धि यत्स्थानं निष्ठीवनादिभिरुपहतत्वादमेध्यं यज्ञायोग्यं तदिदानीमुद्धन्यमानं सद्यजमानस्य पाप्मानमपहन्तु । प्राच्यादिचतस्रः प्रकृष्ट दिशो नोऽस्मान्प्रति शिवाः सुखप्रदाः सन्तु । तोकसाता तोकसातयेऽपत्यलाभाय पृथिवी माता नोऽस्माकं शं सुखं करोतु । शं नौ॑ दे॒वीर॒भिष्ट॑ये । आपो॑ भवन्तु पी॒तये॑ । शं योर॒भिस्र॑वन्तु नः॒ । कल्पः-‘‘शं नो देवीरभिष्टय आपो भवन्तु पीतये शं योरभिस्रवन्तु नः, इत्यद्भिरवोक्ष्य’’ इति । आपो देवीरिमा जलदेवता नोऽस्माकमभिष्टयेऽभीष्टप्राप्त्यर्थं पीतये पानाय शं भवन्तु सुखप्रदा भवन्तु । किंच नोऽस्माकं शं सुखं संपादयितुर्दुःखं पृथक्कर्तुं चाभिस्रवन्तु सर्वतः प्रवर्तन्ताम् । वै॒श्वा॒न॒रस्य॑ रू॒पम् । पृ॒थि॒व्यां परि॑स्र॒सा । स्यो॒नमावि॑शन्तु नः॒ (१) ।

तैत्तिरीयब्राह्मणम् (१.२.१) ५९ कल्पः-"सप्त पार्थिवा संभारानाहरत्येवं वानस्पत्यान्यञ्च पञ्च वा भूयसो वा पार्थिवान्संभारानाहरेदिति वाजसनेयकम्। वैश्वानरस्य रूपं पृथिव्यां परिस्रसा स्योनमाविशन्तु नः, इति सिकताः" इति। विश्वेषां नराणां हितकारी वैश्वानरोऽग्निस्तस्याग्नेः स्वरूपं पृथिव्यां परिस्रसा परितः पारयन्त्यः सिकताः स्योनं सुखं यथा भवति तथा नोऽस्माकं देवयजनमाविशन्तु। यदि॒दं दि॒वो यद॒दः पृ॑थि॒व्याः। सं॒ज्‍ज्ञा॒ने रोद॑सी संब॑भूवतुः। ऊषा॒न्कृ॒ष्णम॑वतु कृ॒ष्णमूषाः॑। इ॒होभयो॑र्य॒ज्ञिय॒मार्ग॑मिष्ठाः। कल्पः-"यदिदं दिवो यददः पृथिव्याः संजज्ञान रोदसी संबभूवतूरूपाङ्कृष्णमवतु कृष्णमूषा इहोभयोर्यज्ञियमागमिष्ठा इत्यूषान्" इति। आहरतीत्येवं सर्वत्रानुवर्तते। दिवः संबन्धि यदिदमूषररूपं पृथिव्यां स्थापितं पृथिव्याः संबन्धि यददः कृष्णरूपं चन्द्रमसि स्थापितं तत्र यद्रूपद्वयं संजज्ञानेसम्यगवगच्छन्त्यौ रोदसी द्यावापृथिव्यौ संबभूवतुः परस्परसंगते अभूताम्। तत्र यत्कृष्णरूपं द्यावापृथिवीरूपमस्ति तदेतदूषान्दिवः स्वरूपभूतानवतु रक्षतु। ते चोषास्तत्कृष्णमवन्तु। उभयोर्द्यावापृथिव्योः संबन्धि यज्ञियं यज्ञयोग्यमंशद्वयमिह देवयजन आगमिष्ठा आगच्छतु। ऊ॒तीः कृ॑ण्‍वा॒णो यत्पृ॑थि॒वीमच॑रः। गु॒हाका॑रमाखु॒रूपं॑ प्र॒तीत्य॑। तत्ते॑ न्य॒क्तमि॒ह संभ॑रन्तः। श॒तं जी॑वेम श॒रदः॑ सवी॑राः। कल्पः-“ऊतीः कुर्वाणो यत्पृथिवीमचरो गुहाकारमाखुरूपं प्रतीत्य तत्तं न्यक्तांमेह संभरन्तः शतं जीवम शरदः सवीरा इत्याखुकरषिम्" इति। हेऽग्नेत्वामाखुरूपं मूषरूपं स्वीकृत्य गुहाकारं पर्वतगुहाया आकारो यथा भवति तथोतीर्बिलानि कुर्वाणः पृथिवीमचरो भूम्यां चरितवानसीति यत्तत्तत्र न्यक्तं निगूढं ते त्वदीयं सारमिह देवयजने संभरन्तः संपादयन्तो वयं सवीराः पुत्रभृत्यसहिताः शरदः शतं शतसंख्याकान्संवत्सराञ्जीवेम। ऊर्जं॑ पृथि॒व्या र॒समाभ॑रन्तः। श॒तं जी॑वेम श॒रदः॑ पु॒रूचीः॑ (२)। व॒म्रीभि॑रनु॒वित्तं॑ गुहा॑सु। श्रोतं॑ त उ॒र्व्यर्ब॑धिरा भवामः।

६० (१.२.१) तैत्तिरीयब्राह्मणम् कल्पः-“ऊर्जं पृथिव्या रसमाभरन्तः शतं जीवेम शरदः पुरूचीर्वम्रीभिरनुवितं गुहासु श्रोत्रं त उव्य॓बधिरा भवाम इति वल्मीकवपाम्” इति । पृथिव्या रसः सारमूर्जं क्षीरादिवत्समानं वल्मीकवपारूपं संभरन्तो वयं शतं शरदो जीवेम । कीदृशीः शरदः पुरूचीः पुरूणि बहूनि भोग्यान्यञ्चन्ति संपादयन्तीति पुरूच्यस्तादृशीः । कीदृशं रसं गुहासु, भूच्छिद्रेषु वम्रीभिः पिपीलि- कासदृशीभिरनुवित्तमनुक्रमेण लब्धम् । हे उर्वि तच्छ्रोत्रं त्वदीयंश्रोत्रस्थानीयां वल्मीकवपामाहृत्य वयमबधिरा अनुपहतश्रोत्रेन्द्रिया भूयास्म । प्र॒जाप॑तिसृष्टानां प्र॒जाना॑म् । क्षु॒धोप॑हत्यै सु॒वितं॑ नो अस्तु । उ॒प॒प्रभि॑न्न॒मिष॒मूर्जं॑ प्र॒जाभ्यः॑ । सूदं॑ गृ॒हेभ्यो॒ रस॒माभ॑रामि । कल्पः-“प्रजापतिसृष्टानां प्रजानां क्षुधोपहत्यै सुवितं नो अस्तु, उपप्रभिन्नमिषमूर्जं प्रजाभ्यः सूदं गृहेभ्यो रसमाभरामि, इति सूदम्” इति । या प्रजापतिसृष्टाः प्रजास्तासां क्षुन्निवारणाय नोऽस्मत्सं-बन्धीदं कर्दमरूपं सुवितं सुष्ठु प्राप्तमस्तु । येयमिडन्नं या चोर्ग्रसः, उभयं प्रजाभ्यः प्रजार्थमुपप्रभिन्नमत्यन्तसामीप्यं यथा भवति तथैकीभूतं तादृशं सूदरसं पङ्करूपं गृहेभ्यो वह्नीनामायतनार्थमाहरामीहाऽऽनयामि । यस्य॑ रू॒पं बिभ्र॑दि॒मामवि॑न्दत् । गुहा॒ प्रवि॑ष्टा ँस॑रिर॒स्य मध्ये॓ । तस्ये॒दं विह॑तमा॒भ॑रन्तः । अच्छं॑बट्का॒रम॒स्यां वि॑न्धेम (३) । कल्पः-“यस्य रूपं बिभ्रदिमामविन्दुद्गुहा प्रविष्टा ँसरिरस्य मध्ये तस्येदं विहतमाभरन्तोऽच्छंवटकारमस्यां विधेम, इति वराहविहतम् ” इति । पुरा प्रजापतिर्यस्य वराहस्य रूपं बिभ्रद्धार्यमाण इमां पृथिवीमविन्ददलभत। कीदृशीं सरिरस्य मध्ये प्रलयकालीनजलस्यान्तर्गुहा गोप्यं स्थानं पातालरूपं प्रविष्टाम् । अयमर्थस्त्रिरात्रब्राह्मणे स्पष्टमाम्नातः-“आपो वा इदमग्ने सलिल- मासीत्तस्मिन्प्रजापतिर्वायुर्भूत्वाऽचरत्स इमामपश्यत्तां वराहो भूत्वाऽहरत्” इति । तस्य वराहस्य विहतं पोत्रोत्खातमिदं मृद्द्रव्यमाभरन्त आनयन्तो वयमस्यां पृथिव्यामच्छंबट् कारं वैयर्थ्यं यथा न भवति तथा विधेम कर्माण्यनुतिष्ठेम । यत्पु॑र्य॒पश्य॒त्सरि॒रस्य॒ मध्ये॓ । उ॒र्वीम॑पश्य॒ज्जग॑तः प्रति॒ष्ठाम् ।

तैत्तिरीयब्राह्मणम् (१.२.१) ६१ तत्पुष्कर॒स्याऽऽय॑त॒नाद्धि जा॒तम् । प॒र्णं पृ॑थि॒व्याः प्रथ॑न ँ हरामि । कल्पः-“यत्पर्यपश्यत्सरिरस्य मध्य उर्वीमपश्यज्जगतः प्रतिष्ठाम् तत्पुष्करस्याऽऽयतनाद्धि जातं पर्णं पृथिव्याः प्रथन ँहरामीति पर्णम् ” (इति) । जगतः स्थावरजङ्गमरूपस्य प्रतिष्ठामाधारभूतामुर्वी लब्धकामः प्रजापतिः सरिरस्य मध्ये प्रलयकालीनजलस्यान्तर्यत्पुष्करपर्णमपश्यत् । तथा च पूर्वमाम्नातम्-“सोऽपश्यत्पुष्करपर्णं तिष्ठत् ” इति । तत्पुष्करस्य पर्णं हरामि । देवयजनभूमौ नयामि । कीदृशम् । आयतनाद्धि जलमध्ये निमग्नादाधारादुत्पन्नम् । हि शब्दो ब्राह्मणप्रसिद्धिं सूचयति । तञ्च ब्राह्मणं पूर्वमेवोक्तम्-“सोऽमन्यत । अस्ति वै तत् । यस्मिन्निदमधितिष्ठति ” इति तादृशाधारादिदमुत्पन्नम् । तथा पृथिव्याः प्रथमभूमेर्विस्तारस्थानम् । एतदपि पूर्वत्राऽऽम्नातम्-“तत्पुष्करपर्णे प्रथयत्” इति । याभि॒र्दृ॑ ँह॒ज्जग॑तः प्रति॒ष्ठाम् । उ॒र्वीमि॒मां वि॒श्वज॑नस्य भ॒र्त्रीम् । ता न॑ः शि॒वाः शर्क॑राः सन्तु॒ सर्वा॑ः । कल्पः-“याभिर्दृ ँहज्जगतः प्रतिष्ठामूर्वीमिमां विश्वजनस्य भर्त्रीम्, ता नः शिवाः शर्कराः सन्तु सर्वा (इति शर्कराः)” इति । जगतः स्थावरादेः प्रतिष्ठामाश्रयभूतां विश्वजनस्य भर्त्रीं सस्यादिद्वारा सर्वजनस्य पोषयित्रीमिमामुर्वी याभिः शर्कराभिर्दृ ँ हद्दृढीकृतवान्प्रजापतिः । एतदपि पूर्वमुक्तम्- “ता ँ शर्कराभिर्दृ ँ हत्” इति । तास्तादृश्यः शर्कराः क्षुद्रपाषाणोऽस्मदर्थं सुखप्रदाः सन्तु । अ॒ग्नेरेत॑श्च॒न्द्र ँहिर॑ण्यम् । अ॒द्भ्यः संभू॑त॒ममृतं॑ प्र॒जासु॑ । तत्संभर॑न्नुत्त॒रतो॑ नि॒धाय॑ (४)। अ॒ति॒प्रय॑च्छन्दुरि॒तं त॑रेयम् । कल्पः-“अग्नेरेतश्चन्द्र ँ हिरण्यमद्द्भ्यः संभूतममृतं प्रजासु तत्संभरन्नुत्तरतो निधायातिप्रयच्छन्दुरितं तरेयमिति हिरण्यम्' इति । तद्धिरण्यं तत्संभरन्संपादयन्नग्नेर्बीभत्सानिवारणायोत्तरपार्श्वे तद्धिरण्यं निधाय द्वेष्याय रजतमतिप्रयच्छन्नहं दुरितं दुर्गतिं तरेयम् । अश्वो॑ रूपं कृ॒त्वा यदश्व॑त्थेऽति॑ष्ठः । सं॒व॒त्स॒रं दे॒वेभ्यो॑ नि॒लाय॑ । तत्ते॒ न्य॑क्त॒मिह संभर॑न्तः । श॒तं जी॑वेम श॒रदः॑ सवी॑राः ।

कल्पः-“अश्वो रूपं कृत्वा यदश्वत्थेऽतिष्ठः संवत्सरं देवेभ्यो निलाय तन्ते न्यक्तमिह संभरन्तः, शतं जीवेम शरदः सवीरा इत्यश्वत्थम्” इति । हेऽग्ने त्वं यद्यदाऽ श्वः संस्तदीयं रूपं च सम्यक्कृत्वा देवेभ्यो निलाय ऽपक्रम्य संवत्सरं निरन्तरमश्वत्थे स्थितवानसि । तत्तदा ते त्वदीयं न्यक्तमश्वत्थे निगूढं तेजः सारमिह यज्ञभूमौ संभरन्तः संपादयन्तो वयं सवीराः पुत्रभृत्यसहिताः शतं शरदो जीवेम । ऊर्ज॑: पृथि॒व्या अध्युत्थि॑तोऽसि । वन॑स्पते शतव॑ल्शो॒ विरो॑ह । त्वया॑ व॒यमिष॒मूर्जं॒ मद॑न्तः । रा॒यस्पोषे॑ण॒ समि॒षा मंदेम । कल्पः-“ऊर्जः पृथिव्या अध्युत्थितोऽसि वनस्पते शतवल्शो विरोह त्वया वयमिषमूर्जं मदन्तो रायस्पोषेण समिषा मदेमेत्युदुम्बरम्” इति । हे वनस्पत उदुम्बरवृक्ष ऊर्जा रसनिमित्तात्तत्सिद्ध्यै पृथिव्या अध्युत्थितोऽसि भूमेरूपरि प्ररूढोऽसि । अतोऽस्माभिश्छिन्नोऽपि पुनः शतवल्शः शतशाखायुक्तो विरोह विशेषेण प्रादुर्भव । त्वयोपकृता वयमिषमन्नमूर्जं रसं च मदन्तो हर्षपुरःसरं प्राप्नुवन्तो रायस्पोषेण धनपुष्ट्या समीचीनेनान्नेन युक्ता मदेम पुनरपि हृष्या स्म । गा॒य॒त्रिया हि॒यमा॑नस्य॒ यत्ते॑ (५) पर्णमप॑तत्तुतीय॑स्यै दि॒वोऽधि॑ । सोयं प॒र्णः सोम॑प॒र्णाद्धि जा॒तः । ततो॑ हरामि सोम॑पीथस्याव॑रुद्ध्यै । दे॒वानां॑ ब्रह्म॒वादं॑ वद॑तां॒ यत् । उपा॑शृणोः सु॒श्रवा॒ वै श्रु॒तो॑ऽसि । ततो॒ मामावि॑शतु ब्रह्मवर्च॒सम् । तत्संभ॑र ँस्तदव॑रुन्धीय सा॒क्षात् । कल्पः-“गायत्रिया ह्रियमाणस्य यत्ते पर्णपतत्तृतीयस्यै दिवोऽधिसौऽयं पर्णः सोमपर्णाद्धि जातस्ततो हरामि सोमपीथस्यावरुद्ध्यै देवानां ब्रह्मवादं वदतां यदुपाशृणोः सुश्रवा वै श्रुतोऽसि ततो मामाविशतु ब्रह्मवर्चसं तत्संभरँस्तदवरुन्धीय साक्षादित्येताभ्यां पर्णम्” इति । हे सोम तृतीयस्यै दिवोऽधीमं लोकमारेभ्य गणनायां तृतीयस्य द्युलोकस्योपरिगायत्रिया ह्रियमाणस्य गायत्रीदेवतया बलादाह्रियमाणस्य ते तव यत्पर्णं भूमावपतत्सोऽयं पर्णः पलाशवृक्षः स च सोमपर्णाज्जात इति पर्णनामधेयेनैव प्रसिद्धः । ततस्तस्मात्कारणात्सोमपीथस्थस्यावरुद्ध्यै सोमपानस्य सिद्धये हरामि त्वामिहाऽऽनयामि । किं च पलाशवृक्षच्छायायामुपविश्य ब्रह्मवादं वदतामात्मविषयं संवादं कुर्वतां

तैत्तिरीयब्राह्मणम् (१.२.१) ६३ देवानां संबन्धं ब्रह्मवादं यद्यस्मात्कारणात्त्वमुपाशृणोः समीपे स्थित्वा श्रुतवानसि । अत एव सुश्रवा इति नाम्नैव त्वं श्रुतोऽसि प्रसिद्धोऽसि तत्तस्मात्कारणात्त्वदानयने प्रवृत्तं मां ब्रह्मवर्चसमाविशतु । तत्तादृशं पर्णाख्यं संभरन्नहं ब्रह्मवर्चसं साक्षादवरुन्धीय विलम्बमन्तरेण प्राप्नुयाम्। यया॑ ते सृ॒ष्टस्याग्ने॑ । हे॒तिमश॑मयत्प्र॒जाप॑तिः । ता मि॒मामप्र॑दाहाय (६) । शमी॒ ँ शान्त्यै॑ हरा॒म्य॒हम् । कल्पः-“यया ते सृष्टस्याग्नेर्हेतिमशमयत्प्रजापतिस्तामिमामप्रदाहाय शमी ँ शान्त्यै हराम्यहमिति शमीम्” इति । हे शमीवृक्ष ते त्वदीयया यया शाखया प्रजापतिः स्वसृष्टस्याग्नेर्हेतिं प्रदाहरूपमायुधमशमयत्तामिमां शमीं पूर्वस्य दाहस्य शान्त्या इत उर्ध्वमप्रदाहाय च हरामि यज्ञभूमावानयामि । यत्ते॑ सृ॒ष्टस्य॑ य॒तः । वि॒कङ्क॑तं॒ भा आ॒र्च्छज्जा॑तवेदः । तया॑ भा॒सा संमि॑तः । उ॒रुं नौ॑ लो॒कमनु॑प्रभाहि । कल्पः-“यत्ते सृष्टस्य यतो विकङ्कतं भा आर्च्छज्जातवेदस्तया भासा संमित उरुं नो लोकमनुप्रभाहीति विकङ्कतम्' इति । हे जातवेदः प्रजापतिना सृष्टस्य यतः शीघ्रं गच्छतस्ते तव भा या दीप्तिर्विकङ्कतवृक्षमाच्छैत्प्राप्नोत्तया भासा संयुक्तः सन्नोऽस्मदर्थमुरुं विस्तीर्णं लोकं स्थानमनुप्रभाह्यनुक्रमेण प्रकाशय । यत्ते॑ ता॒न्तस्य॑ हृद॑य॒माच्छि॑न्द॒ञ्जात॑वेदः । म॒रुतो॒ऽद्- भिस्तम॑यि॒त्वा । ए॒तत्ते॒ तद॑श॒नेः संभ॑रामि । सा॒त्माग्ने॑ स॒हृद॑यो भवे॒ह । कल्पः-“यत्त तान्तस्य हृदयमाच्छिन्दञ्जातवेदो मरुतोऽद्भिरस्त- मयित्वैतत्ते तदशनेः संभरामि सात्मा अग्ने सहृदयो भवेहेत्यशनिहतस्य वृक्षस्य शकलानि त्वचो वा' इति । हे जातवेदः पुरा कदाचिन्मरुतो देवा विद्वेषादद्भिस्त्वदीयां तां ज्वालां तमयित्वा शमयित्वा म्लानिं प्रापय्य तान्तस्य म्लानिं प्राप्तस्य ते तव यद्धृदयमाच्छिन्दंस्तदेतत्ते हृदयमशनेः सकाशादहं संभरामि । छिन्नस्य हृदयस्याशनौ प्रविष्टत्वात् । ततः संभरणं युक्तम् । “साऽशनिरभवत्” इति ब्राह्मणं पुरोदाहृतम् । तस्य हृदयस्य मया संभृतत्त्वादिह देवयजने हेऽग्ने त्वं सात्मा सस्वरूपः सहृदयो हृदययुक्तश्च

६४ (१.२.१) तैत्तिरीयब्राह्मणम् भव । एतेषूक्तेषु सर्वेष्वपि मन्त्रेषूद्धन्तीत्याद्यनुवाकोक्तं तत्तद्ब्राह्मणमनु- संधेयम् । चि॒त्रिया॑दश्व॒त्थात्स॑म्भृ॑ता बृ॒हत्य॑: (७) । शरी॑रम॒भिस ँ॑ स्कृ॑ताः स्थ । प्र॒जाप॑तिना य॒ज्ञमु॒खेन॒ संमि॑ताः । ति॒स्रस्ति॒वृद्भि॑र्मिथु॒नाः प्र॒जात्यै॑ । कल्पः-“अथ ब्रह्मोदनशेष ँ स ँस्कृत्य तस्मिन्नाज्यशेषमानीय तस्मिँश्चित्रियाश्वत्थस्य तिस्रस्तिस्रः समिध आर्द्राः सपलाशाः प्रादेशमात्र्यस्तिभिकवत्यो विवर्तयन्ति- चित्रियादश्वत्थात्सम्भृता बृहत्यः शरीरमभिस ँस्कृताः स्थ प्रजापतिना यज्ञमुखेन संमितास्तिस्रस्ति- वृद्भिर्मिथुनाः प्रजापत्यै” इति । ग्रामतडागादिचिह्नभूतः प्रसिद्धोऽ- श्वत्थश्चित्रियः । हे समिधो यूयं चित्रियादश्वत्थात्सम्भूता मया संपादिताः । अत एव बृहत्यो महत्यः पूज्यास्तथा शरीरमभिसंस्कृताः स्थ । चरुगते महत्याज्ये विवर्तनेन कृत्स्नं स्वशरीरमभिव्याप्य संस्कारयुक्ता भवत । किं च प्रजापतिरूपेण यज्ञपुरुषमुखेन प्रादेशमात्रेण संमितास्तुल्यास्तादृश्यस्तिस्रः समिधस्त्रिवृद्भिर्भविष्यदाहवनीयतादि- रूपेण त्रिगुणैरग्निभिः सह प्रजात्यै मिथुनाः प्रजोत्पादनार्थं मिथुनीभूताः। अ॒श्व॒त्थाद्ध॒व्य॒वाहि॑द्वि जा॒ताम् । अ॒ग्नेस्त॒नूं य॒ज्ञिया ँ॑ संभ॑रामि । शा॒न्तयो॑नि॒ ँ श॒मीग॑र्भ॒म् अ॒ग्नये॑ प्र॒जन॑यित॒वै । कल्पः-“अश्वत्थाद्धव्यवाहाद्धि जातामग्नेस्तनूं यज्ञिया ँसंभरामि शान्तयोनि ँ शमीगर्भमग्नये प्रजनयितव इत्यायुर्मयि धेह्यायुर्यजमान इत्यरणी अभिमन्त्र्य” इति । आयुरित्यादिकः सौत्रो मन्त्रः । हव्यं वहतीति हव्यवाहोऽग्निस्तद्रूपोऽयमश्वत्थोऽश्वरूपं धृत्वाऽग्नेस्तस्मिन्वृक्षे प्रविश्य संवत्सरमवस्थितत्वात्तस्मादश्वत्थजातामुत्पन्नामरणिं संभरामि संपादयामि कीदृशमग्नेर्यज्ञिया तनूं लौकिकदाहपाकादिहेतुर्यज्ञिया तनूम्। अरणिरूपा तु या यज्ञार्हा शान्तयोनिं दाहप्रकाशाद्यनभिव्यक्त्या शान्तामग्न्युत्पादकत्वेन योनिश्श्व शमीगर्भं शमीवृक्षवेष्टिताश्वत्थ- वृक्षजन्यत्वेन शमीगर्भमीदृशीमरणिमग्नये प्रजनयितवेऽग्नेरुत्पादनार्थं संभरामीति पूर्वत्रान्वयः । ये अ॑श्व॒त्थः श॑मीग॒र्भः । आ॒रुरो॑ह॒ त्वे स चा॑ । तं त॑ हरामि॒ ब्रह्म॑ण (८) । य॒ज्ञियै॑: के॒तुभि॑: स॒ह ।

तैत्तिरीयब्राह्मणम् (१.२.१) ६५ कल्पः-“यो अश्वत्थः शमीगर्भ आरुरोह त्वे स चा तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिः सहेति शमीगर्भस्याश्वत्थस्यारणी आहरति” इति । अर्थक्रमादयं मन्त्रः पूर्वभावी द्रष्टव्यः । न ह्याहरणमन्तरेणा- भिमन्त्रयितुं शक्यते । रणे त्वे त्वयि निमित्तभूतायां सत्यां शमीगर्भोऽश्वत्थः स च तया शम्या समवेत आरुरोह समारुह्य प्रवृद्धस्तं तादृशमश्वत्थं ते त्वदर्थं ब्रह्मणा मन्त्रेण यज्ञियैः केतुभिर्यज्ञार्हैर्लाञ्छनै- रभिमन्त्रणादिवक्ष्यमाणसंस्कारैश्च सह हरामि यज्ञभूमावानयामि । यं त्वा॒ समभ॑रञ्जातवेदः । य॒था॒श॒री॒रं भू॒तेषु॒ न्य॑क्तम् । स संभृ॑तः सीद शि॒वः प्र॒जाभ्यः॑ । उ॒रुं नौ॑ लो॒कमनु॑नेषि वि॒द्वान् । कल्पः-“यं त्वा समभरं जातवेदों यथाशरीरं भूतेषु न्यक्तं स संभृतः सोद शिवः प्रजाभ्य उरुं नो लोकमनुनेषि विद्वानिति संभृत्य निदधाति” इति । हे जातवेदो यं त्वा त्वामृत्विजः समभरन्सम्भारयुक्तं कृतवन्तः । कीदृशं त्वां भूतेषु प्राणिषु यथाशरीरं तत्तच्छरीरमनतिक्रम्य न्यक्तमौदर्याग्निरूपेण निगूढं स तादृशस्त्वं संभृतः संभारैर्युक्तः प्रजाभ्यः शिवः प्रजानां सुखप्रदो भूत्वा सीदेह देवयजनस्थानमुपविश। विद्वान्सर्वलोकाभिज्ञस्त्वं नोऽस्मदर्थमुरु विस्तीर्णं लोकमनु- नेष्यनुक्रमेण । विद्वान्सर्वलोकाभिज्ञस्त्वं नोऽस्मदर्थमुरुं विस्तीर्णं लोकामनुनेष्यनुक्रमेण संपादय । प्र वे॒धसे॑ क॒वये॑ मे॒ध्याय॑ । वचो॑ व॒न्दारु॑ वृष॒भाय॑ वृष्णे॑ । यतो॑ भ॒यमभ॑यं तन्नो॑ अस्तु । अव॑ दे॒वान्य॑जे हे॒ड्यान्॑ । कल्पः-“दर्व्या ब्रह्मोदनादुद्धृत्य-प्र वेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे यतो भयमभयं तन्नो अस्तवव देवान्यजे हेड्यान्निति जुहोति” इति । वेधसे कर्मद्वारा जगतो धात्रे कवये विदुषे सर्वज्ञाय मेध्याय यज्ञयोग्याय वृषभाय देवश्रेष्ठाय वृष्णे कामानां वर्षयित्रे वह्नये वन्दारु वचो नमस्कारशीलं वाक्यमस्माभिः प्राऽऽरब्धम् । प्राणिनां यतो यस्मान्नरकाद्भयं तत्तस्मान्नोऽस्माकमभयमस्तु । हेड्यान्क्रोधयोग्यान- स्मद्विरोधिनो देवानवयजे विनाशयामि । यदुक्तं समिदाधानप्रतिपादके ब्राह्मणे-“गायत्रीभिर्ब्राह्मणस्या- ऽऽदध्यात्” इति, तत्र प्रथममाह-

६६ • (१.२.१) तैत्तिरीयब्राह्मणम् सु॒मिधा॒ऽग्निं दु॑वस्यत (९) घृ॒तैर्बो॑धय॒तार्ति॑थिम् । आऽस्मि॑न्-ह॒व्या जु॑होतन॒ इति॑ । हे ऋत्विजोऽनया प्रक्षिप्यमाणवा समिधाऽग्निं दुवस्यत प्रीणयत । अतिथिं वैश्वदेवान्ते समागतं ब्राह्मणमिव पूजनीयमेनमग्निं घृतैर्बोधयत दीपयत । अस्मिन्नग्नौ हव्या हवींष्याजुहोतन सर्वत्र जुहुत । अथ द्वितीयमाह- उप॑ त्वाऽग्ने ह॒विष्म॑तीः । घृ॒ताची॑र्यन्तु हर्यत् । जु॒षस्व॑ सु॒मिधो॒ मम॑, इति॑ । हे हर्यत भजनीय वह्ने हविष्मतीर्ब्रह्मौदनारख्यहविष्मत्यो घृताचीर्घृताच्यो घृतसंपृक्ता एताः समिधस्त्वामुपयन्तु । मम समिधो जुषस्व प्रीत्या सेवस्व । अथ तृतीयमाह- तं त्वा॑ सु॒मिद्भि॑रङ्गिरः। घृ॒तेन॑ वर्धयामसि । बृ॒हच्छो॑चा यविष्ठ्य, इति॑ । हेऽङ्गिरोऽङ्गसौष्ठवयुक्त वह्ने तं तादृशं सर्वकर्मसु प्रसिद्धं त्वां समिद्भिर्घृतेन च वर्धयामसि वयं वर्धयामः । हे यविष्ठ्य युवतमाग्ने बृहच्छोचा महत्त्वं यथा भवति तथा दीप्यस्व । यदुक्तं ब्राह्मणे--“त्रिष्टुग्मी राजन्यस्य” इति तत्र प्रथममाह- स॒मिध्यमा॑नः प्रथ॒मो नु धर्मः॑ । सम॒क्तुभि॑रज्यते वि॒श्ववा॑रः (१०) । शो॒चिष्के॑शो घृ॒तनि॑र्णिक्पाव॒कः । सु॒य॒ज्ञो अ॒ग्निर्यज॑थाय दे॒वान्, इति॑ । अयमग्निर्देवान्यजत्राय यष्टुमुक्तुभिर्घृताक्ताभिः समिद्भिः समज्यते सम्यगभिव्यज्यते दीप्यते । कीदृशोऽग्निः सर्वैर्यजमानैः सर्वत्र समिध्यमानः प्रथमो नु सर्वासां देवतानां मध्येऽवश्यं प्रथमभावी । अत एवान्यत्राऽऽम्नातम्-“अग्निरग्रे प्रथमो देवतानाम्” इति । धर्मो विश्वस्य धारयिता विश्ववारोऽनिष्टं सर्वं निवारयितुं समर्थः । शोचींषि ज्वाला केशस्थानीया । यस्यासौ शोचिष्केशः । घृतेन निर्णिज्यते । निःशेषेण

तैत्तिरीयब्राह्मणम् (१.२.१) ६७

बोध्यते धूमरहितज्वालायुक्तः क्रियत इति घृतनिर्णिग् । पावकः सर्वस्य शोधकः । सुयज्ञः शोभनज्योतिष्टोमादियज्ञहेतुः । अथ द्वितीयमाह- घृ॒तप्र॑तीको घृ॒तयो॑निर॒ग्निः । घृ॒तैः समि॑द्धो घृ॒तम॒स्यान॑न्नम् । घृ॒तपृ॒षो॒स्त्व॒ा सरि॑तो वहन्ति । घृ॒तं पिब॑न्त्सुय॒र्जा य॑क्षि दे॒वान्, इति । अयमग्निर्घृतप्रतीकः प्रतीकशब्दो मुखवाची "मुखं प्रतीकम्" इति वाजसनेयश्रुतेः । घृतं प्रतीकं मुखं यस्यासौ घृतप्रतीकः । तत्तदाहुतिषु घृतं पिबतीत्यर्थः । घृतमेव योनिर्ज्वालोत्पत्तिकारणं यस्येति घृतयोनिः । अत एव घृतैः समिद्ध सम्यक्प्रज्वलितः । अन्नमप्यस्य घृतमेव । हेऽग्ने घृतपृषो घृतबिन्दुयुक्ताः सरितस्त्वां वहन्ति । घृतवाहिनीषु नदीषु वायुना घृतबिन्दवस्तीरे प्रसरन्ति तादृशीषु नदीषु प्लवमानस्त्वं क्रीडस्वेत्यर्थः । तथाविधस्त्वमस्मद्दत्तं घृतं पिबन्सुयजाः शोभनेन यज्ञेन देवान्यक्षि पूजय । अत तृतीयमाह- आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णः । घृ॒तप्र॑तीको घृ॒तयो॑निरेधि । घृ॒तं पी॒त्वा मधु॒ चारु॒गव्य॑म् । पि॒तेव॑ पु॒त्रम॒भिर॑क्षतादि॒मम् (११), इति । हेऽग्ने हविषो जुषाणो हवींषि सेवमानो घृतप्रतीको घृतयोनिः सन्नायुर्दा एधि, अस्माकमायुष्प्रदो भव । तथा मधु मधुरं चारुगव्यं रमणीयं गोसम्बन्धिरसं घृतं पीत्वेमं यजमानमभिरक्षतात्सर्वतो रक्ष । यथा पिता पुत्रं रक्षति तद्वत् । यदुक्तं ब्राह्मणे-"जगतीभिर्वैश्यस्य " इति, तत्र प्रथममाह- त्वाम॑ग्ने स॒मिधा॒नं यवि॑ष्ठ । दे॒वा दू॒तं च॑क्रिरे हव्य॒वाह॑म् । उ॒रु॒ज्रय॑सं घृ॒तयो॑नि॒माहु॑तम् । त्वे॒षं चक्षु॑र्दधिरे चोद॒यन्व॑ति, इति । हे यविष्ठ युवतमाग्ने समिध्यमानं सम्यक्प्रकाशमानं त्वां देवाः सर्वे हव्यवाहं हविषां वोढारं दूतं चक्रिरे । अत एवान्यत्राऽऽम्नातम्-"अग्निर्देवानां दूत आसीत्" इति । उरुज्रयसमुरूणि

६८ (१.२.१) तैत्तिरीयब्राह्मणम् ज्रयांसि वैरिणामभिभवनानि यस्यासावुरुज्रयास्तादृशं घृतयोनिं घृतेनोत्पन्नज्वालमाहुतमाहुतिभिराराधितं त्वेषं दीप्यमानं त्वां चोदयन्वति विधायकवाक्ययुक्ते कर्मणि चक्षुर्दधिरे चक्षुः स्थानीयं कृतवन्तो देवाः । यथा लोके चक्षुषा रूपं स्पष्टं प्रकाश्यते तथा त्वया विधिवाक्योक्तानि कर्माणि संपाद्यन्त इत्यर्थः । अथ द्वितीयमाह- त्वाम॑ग्ने प्र॒दिव॒ आहु॑तं घृ॒तेन॑ सु॒म्नायवः॑ सु॒ष॒मिधा॒ समी॑धिरे । स वा॑वृधा॒न ओष॑धीभिरु॒क्षितः॑ । उ॒रु ज्रयां॑सि॒ पार्थि॑वा॒ विति॑ष्ठसे, इति । सुम्नं सुखमात्मन इच्छतीति सुम्नायव ऋत्विजस्ते प्रदिवे प्रकृष्टस्वर्गार्थं यद्वा प्रदिवः प्रकृष्टस्वर्गान्निमित्तभूतात् । हेऽग्ने त्वां घृतेनाऽऽहुतं सर्वत आराधितं सुषमिधा शोभनया समिधा समीधिरे सम्यगुद्दीपितवन्तः । स त्वमोषधीभिरोषध्युपलक्षिताभिर्वावृधानोऽयं वर्धमान उक्षितो घृतेनसिक्तः । पार्थिवा पार्थिवानि ज्रयांसि बाधकान्युरु वितिष्ठसेऽत्यन्तविशिष्टानि स्थापय । अथ तृतीयमाह - घृ॒तप्र॑तीकं च॒ ऋ॒तस्य॑ धू॒र्षदम्॑ । अ॒ग्निं मि॒त्रं न संमि॑धा॒न ऋ॑ञ्जते (१२) । इन्धा॑नो अ॒क्रो वि॒दथे॑षु दीद्य॑त् । शु॒क्रव॑र्णामु॒दु॑ नो यँसते॒ धिय॑म्, इति । हे ऋत्विग्यजमाना युष्मत्संबन्धिन ऋतस्य यज्ञस्य धूर्षदं धुरि सीदन्तं निर्वाहकमित्यर्थः । तादृशं घृतप्रतीकमग्निं समिधानो दीपयन्नयमध्वर्युर्मित्रं न मित्रमिव ऋञ्जतेऽलं करोति । इन्धानः स्वयं दीप्यमानोऽक्रः केनापिनाऽऽक्रान्तोऽयमग्निर्विदथेषु दीद्यदस्मान्प्रकाश- यन्नोऽस्मदीयां शुक्रवर्णी निर्मलरूपां धियं प्रज्ञामुदयंसतेऽत्यन्त- मुद्यच्छतेऽभिवर्धयतीत्यर्थः । प्र॒जा अ॑ग्ने॒ संवा॑सय । आशा॑श्च प॒शुभिः॑ स॒ह । राष्ट्रा॒ण्य॒स्मा आधै॑हि । यान्यासं॑न्त्सवि॒तुः स॒वे । कल्पः-“प्रजा अग्ने संवासयाऽऽशाश्च पशुभिः सह राष्ट्राण्यस्या आधेहि यान्यासन्सवितुः सव इत्युत्तरेण गार्हपत्यायतनं कल्माषमजं