तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 88, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.२.१) ५९ कल्पः-"सप्त पार्थिवा संभारानाहरत्येवं वानस्पत्यान्यञ्च पञ्च वा भूयसो वा पार्थिवान्संभारानाहरेदिति वाजसनेयकम्। वैश्वानरस्य रूपं पृथिव्यां परिस्रसा स्योनमाविशन्तु नः, इति सिकताः" इति। विश्वेषां नराणां हितकारी वैश्वानरोऽग्निस्तस्याग्नेः स्वरूपं पृथिव्यां परिस्रसा परितः पारयन्त्यः सिकताः स्योनं सुखं यथा भवति तथा नोऽस्माकं देवयजनमाविशन्तु। यदि॒दं दि॒वो यद॒दः पृ॑थि॒व्याः। सं॒ज्ज्ञा॒ने रोद॑सी संब॑भूवतुः। ऊषा॒न्कृ॒ष्णम॑वतु कृ॒ष्णमूषाः॑। इ॒होभयो॑र्य॒ज्ञिय॒मार्ग॑मिष्ठाः। कल्पः-"यदिदं दिवो यददः पृथिव्याः संजज्ञान रोदसी संबभूवतूरूपाङ्कृष्णमवतु कृष्णमूषा इहोभयोर्यज्ञियमागमिष्ठा इत्यूषान्" इति। आहरतीत्येवं सर्वत्रानुवर्तते। दिवः संबन्धि यदिदमूषररूपं पृथिव्यां स्थापितं पृथिव्याः संबन्धि यददः कृष्णरूपं चन्द्रमसि स्थापितं तत्र यद्रूपद्वयं संजज्ञानेसम्यगवगच्छन्त्यौ रोदसी द्यावापृथिव्यौ संबभूवतुः परस्परसंगते अभूताम्। तत्र यत्कृष्णरूपं द्यावापृथिवीरूपमस्ति तदेतदूषान्दिवः स्वरूपभूतानवतु रक्षतु। ते चोषास्तत्कृष्णमवन्तु। उभयोर्द्यावापृथिव्योः संबन्धि यज्ञियं यज्ञयोग्यमंशद्वयमिह देवयजन आगमिष्ठा आगच्छतु। ऊ॒तीः कृ॑ण्वा॒णो यत्पृ॑थि॒वीमच॑रः। गु॒हाका॑रमाखु॒रूपं॑ प्र॒तीत्य॑। तत्ते॑ न्य॒क्तमि॒ह संभ॑रन्तः। श॒तं जी॑वेम श॒रदः॑ सवी॑राः। कल्पः-“ऊतीः कुर्वाणो यत्पृथिवीमचरो गुहाकारमाखुरूपं प्रतीत्य तत्तं न्यक्तांमेह संभरन्तः शतं जीवम शरदः सवीरा इत्याखुकरषिम्" इति। हेऽग्नेत्वामाखुरूपं मूषरूपं स्वीकृत्य गुहाकारं पर्वतगुहाया आकारो यथा भवति तथोतीर्बिलानि कुर्वाणः पृथिवीमचरो भूम्यां चरितवानसीति यत्तत्तत्र न्यक्तं निगूढं ते त्वदीयं सारमिह देवयजने संभरन्तः संपादयन्तो वयं सवीराः पुत्रभृत्यसहिताः शरदः शतं शतसंख्याकान्संवत्सराञ्जीवेम। ऊर्जं॑ पृथि॒व्या र॒समाभ॑रन्तः। श॒तं जी॑वेम श॒रदः॑ पु॒रूचीः॑ (२)। व॒म्रीभि॑रनु॒वित्तं॑ गुहा॑सु। श्रोतं॑ त उ॒र्व्यर्ब॑धिरा भवामः।