तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 91, कुल 345 में से
संदर्भ में पढ़ेंकल्पः-“अश्वो रूपं कृत्वा यदश्वत्थेऽतिष्ठः संवत्सरं देवेभ्यो निलाय तन्ते न्यक्तमिह संभरन्तः, शतं जीवेम शरदः सवीरा इत्यश्वत्थम्” इति । हेऽग्ने त्वं यद्यदाऽ श्वः संस्तदीयं रूपं च सम्यक्कृत्वा देवेभ्यो निलाय ऽपक्रम्य संवत्सरं निरन्तरमश्वत्थे स्थितवानसि । तत्तदा ते त्वदीयं न्यक्तमश्वत्थे निगूढं तेजः सारमिह यज्ञभूमौ संभरन्तः संपादयन्तो वयं सवीराः पुत्रभृत्यसहिताः शतं शरदो जीवेम । ऊर्ज॑: पृथि॒व्या अध्युत्थि॑तोऽसि । वन॑स्पते शतव॑ल्शो॒ विरो॑ह । त्वया॑ व॒यमिष॒मूर्जं॒ मद॑न्तः । रा॒यस्पोषे॑ण॒ समि॒षा मंदेम । कल्पः-“ऊर्जः पृथिव्या अध्युत्थितोऽसि वनस्पते शतवल्शो विरोह त्वया वयमिषमूर्जं मदन्तो रायस्पोषेण समिषा मदेमेत्युदुम्बरम्” इति । हे वनस्पत उदुम्बरवृक्ष ऊर्जा रसनिमित्तात्तत्सिद्ध्यै पृथिव्या अध्युत्थितोऽसि भूमेरूपरि प्ररूढोऽसि । अतोऽस्माभिश्छिन्नोऽपि पुनः शतवल्शः शतशाखायुक्तो विरोह विशेषेण प्रादुर्भव । त्वयोपकृता वयमिषमन्नमूर्जं रसं च मदन्तो हर्षपुरःसरं प्राप्नुवन्तो रायस्पोषेण धनपुष्ट्या समीचीनेनान्नेन युक्ता मदेम पुनरपि हृष्या स्म । गा॒य॒त्रिया हि॒यमा॑नस्य॒ यत्ते॑ (५) पर्णमप॑तत्तुतीय॑स्यै दि॒वोऽधि॑ । सोयं प॒र्णः सोम॑प॒र्णाद्धि जा॒तः । ततो॑ हरामि सोम॑पीथस्याव॑रुद्ध्यै । दे॒वानां॑ ब्रह्म॒वादं॑ वद॑तां॒ यत् । उपा॑शृणोः सु॒श्रवा॒ वै श्रु॒तो॑ऽसि । ततो॒ मामावि॑शतु ब्रह्मवर्च॒सम् । तत्संभ॑र ँस्तदव॑रुन्धीय सा॒क्षात् । कल्पः-“गायत्रिया ह्रियमाणस्य यत्ते पर्णपतत्तृतीयस्यै दिवोऽधिसौऽयं पर्णः सोमपर्णाद्धि जातस्ततो हरामि सोमपीथस्यावरुद्ध्यै देवानां ब्रह्मवादं वदतां यदुपाशृणोः सुश्रवा वै श्रुतोऽसि ततो मामाविशतु ब्रह्मवर्चसं तत्संभरँस्तदवरुन्धीय साक्षादित्येताभ्यां पर्णम्” इति । हे सोम तृतीयस्यै दिवोऽधीमं लोकमारेभ्य गणनायां तृतीयस्य द्युलोकस्योपरिगायत्रिया ह्रियमाणस्य गायत्रीदेवतया बलादाह्रियमाणस्य ते तव यत्पर्णं भूमावपतत्सोऽयं पर्णः पलाशवृक्षः स च सोमपर्णाज्जात इति पर्णनामधेयेनैव प्रसिद्धः । ततस्तस्मात्कारणात्सोमपीथस्थस्यावरुद्ध्यै सोमपानस्य सिद्धये हरामि त्वामिहाऽऽनयामि । किं च पलाशवृक्षच्छायायामुपविश्य ब्रह्मवादं वदतामात्मविषयं संवादं कुर्वतां