तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 92, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.२.१) ६३ देवानां संबन्धं ब्रह्मवादं यद्यस्मात्कारणात्त्वमुपाशृणोः समीपे स्थित्वा श्रुतवानसि । अत एव सुश्रवा इति नाम्नैव त्वं श्रुतोऽसि प्रसिद्धोऽसि तत्तस्मात्कारणात्त्वदानयने प्रवृत्तं मां ब्रह्मवर्चसमाविशतु । तत्तादृशं पर्णाख्यं संभरन्नहं ब्रह्मवर्चसं साक्षादवरुन्धीय विलम्बमन्तरेण प्राप्नुयाम्। यया॑ ते सृ॒ष्टस्याग्ने॑ । हे॒तिमश॑मयत्प्र॒जाप॑तिः । ता मि॒मामप्र॑दाहाय (६) । शमी॒ ँ शान्त्यै॑ हरा॒म्य॒हम् । कल्पः-“यया ते सृष्टस्याग्नेर्हेतिमशमयत्प्रजापतिस्तामिमामप्रदाहाय शमी ँ शान्त्यै हराम्यहमिति शमीम्” इति । हे शमीवृक्ष ते त्वदीयया यया शाखया प्रजापतिः स्वसृष्टस्याग्नेर्हेतिं प्रदाहरूपमायुधमशमयत्तामिमां शमीं पूर्वस्य दाहस्य शान्त्या इत उर्ध्वमप्रदाहाय च हरामि यज्ञभूमावानयामि । यत्ते॑ सृ॒ष्टस्य॑ य॒तः । वि॒कङ्क॑तं॒ भा आ॒र्च्छज्जा॑तवेदः । तया॑ भा॒सा संमि॑तः । उ॒रुं नौ॑ लो॒कमनु॑प्रभाहि । कल्पः-“यत्ते सृष्टस्य यतो विकङ्कतं भा आर्च्छज्जातवेदस्तया भासा संमित उरुं नो लोकमनुप्रभाहीति विकङ्कतम्' इति । हे जातवेदः प्रजापतिना सृष्टस्य यतः शीघ्रं गच्छतस्ते तव भा या दीप्तिर्विकङ्कतवृक्षमाच्छैत्प्राप्नोत्तया भासा संयुक्तः सन्नोऽस्मदर्थमुरुं विस्तीर्णं लोकं स्थानमनुप्रभाह्यनुक्रमेण प्रकाशय । यत्ते॑ ता॒न्तस्य॑ हृद॑य॒माच्छि॑न्द॒ञ्जात॑वेदः । म॒रुतो॒ऽद्- भिस्तम॑यि॒त्वा । ए॒तत्ते॒ तद॑श॒नेः संभ॑रामि । सा॒त्माग्ने॑ स॒हृद॑यो भवे॒ह । कल्पः-“यत्त तान्तस्य हृदयमाच्छिन्दञ्जातवेदो मरुतोऽद्भिरस्त- मयित्वैतत्ते तदशनेः संभरामि सात्मा अग्ने सहृदयो भवेहेत्यशनिहतस्य वृक्षस्य शकलानि त्वचो वा' इति । हे जातवेदः पुरा कदाचिन्मरुतो देवा विद्वेषादद्भिस्त्वदीयां तां ज्वालां तमयित्वा शमयित्वा म्लानिं प्रापय्य तान्तस्य म्लानिं प्राप्तस्य ते तव यद्धृदयमाच्छिन्दंस्तदेतत्ते हृदयमशनेः सकाशादहं संभरामि । छिन्नस्य हृदयस्याशनौ प्रविष्टत्वात् । ततः संभरणं युक्तम् । “साऽशनिरभवत्” इति ब्राह्मणं पुरोदाहृतम् । तस्य हृदयस्य मया संभृतत्त्वादिह देवयजने हेऽग्ने त्वं सात्मा सस्वरूपः सहृदयो हृदययुक्तश्च